अष्टादशो मन्त्रः
अग्ने नय सुपथा राये अस्मान् विश्वानि देव वयुनानि विद्वान् ।
युयोध्यस्मज्जुहुराणमेनो भूयिष्ठां ते नम उक्तिं विधेम ।।18।।
B.18
" रं.भा.-अग्ने नय इत्ययं मन्त्रः काण्वैः अष्टादशमन्त्रतया पठ््यते ; माध्यन्दिनैस्तु"
षोडशमन्त्रतया । अथ यदि स्वाभीष्टोपकरणविग्रहपरिग्रहादरणं न जहासि ; तर्हि भोगैश्वर्यलक्षणं
पुरुषार्थमेव आश्रयस्व, तत्रापि अस्मत्परिचर्योपयोगिविग्रहपरिग्रहस्य तेन अस्मत्परिचर्याकरणस्य
ततस्त्वदीयशेषत्वस्वरूपाभ्रंशस्य च सम्भवात् इत्याशंकापरिहाराय प्रवृत्तः अयं मन्त्रः ।
" अस्य मन्त्रस्य पदविवरणम् - हे अग्ने - अग्निशरीरक !"
स्वरूपसत्तास्वभावप्रयोजकापृथक्सिद्धिसम्बन्धेन
अग्निविशिष्टभगवन् ; इति यावत् । शरीरशरीरिभावस्य दर्शितसम्बन्धविशेष एव पर्यवसानात्
प्रागुक्तरीत्या शरीरवाचकानां शब्दानां शरीरपरत्वसम्भवाच्च
अत्र अग्निशब्दः अग्निशरीरकभगवत्परः । अग्निरपि हि
भगवतश्शरीरभूत एव योऽग्नौ तिष्ठन्नग्नेरन्तरो यमग्निर्न वेद यस्याग्निश्शरीरं योऽग्निमन्तरो
यमयति एष त आत्मान्तर्याम्यमृतः (बृ.उ.5-7-9) इत्यन्तर्यामिब्राह्मणात् ।
(अपुनरावृत्तिलक्षणमोक्षप्रार्थना)
" अत्र अग्निशरीरकभगवतस्सम्बोधनम्, अर्चिरादिमार्गे अग्नेः प्रथमातिवाहिकत्वेन तच्चोदनेन"
तद्वारा तेन मार्गेण स्वनयनविज्ञापनार्थम् । अस्मान् - स्वसम्बन्धिनामपि ग्रहणाशयेन
बहुवचनम् । सुपथा - शोभनश्चासौ पन्थाश्च - सुपन्थाः ; तेन अपुनरावृत्तिलक्षणेन अर्चिरादिमार्गेण
। शोभनत्वम् अत्र अपुनरावृत्तिलक्षणत्वमेव । तेन पुनरावृत्तिलक्षणधूमादिमार्गव्यावृत्तिः
। न पूजनात् (पा.सू.5-4-69) इत्यनु-सशासनेन अत्र समासान्तकार्यनिवृत्तिः । र
ाये - परमप्राप्यभूताय
परमपुरुषलक्षणाय धनाय । भगवत्प्राप्तिलक्षणपरमपुरुषार्थरूपमुक्तैश्वर्याय इति यावत्
। स्वरूपयाथात्म्यविदां परमपुरुष एव हि परमं धनम् - धनं मदीयं एव पादपंकजम् (स्तो.र.30)
यो नित्यमच्युतपदाम्बुजयुग्मरुक्मव्यामोहतस्तदितराणि तृणाय मेने (वै.स्त.1) इत्यादिभिः
तस्यैव तद्धनत्वावगमात् । अपि च अर्चिरादिमार्गेण प्रापणीयैश्वर्यस्य
भगवत्प्राप्तिलक्षणपरमैश्वर्यात्
अन्यत्वं हि न सम्भवति ; भोगैश्वर्यस्य धूमादिमार्गेणैव प्रापणीयत्वात् कैवल्यस्य ऐश्वर्यरूपतायाः
एव असम्भवाच्च । परिशेषात् अर्चिरादिमार्गप्रापणीयं धनं भगवत्प्राप्तिलक्षणं परमपूरुषार्थरूपं
मुक्तैश्वर्यमेव पर्यवस्यति । राये अस्मान् इत्यसन्धिश्छान्दसः । नय - देशविशेषे गमय
। भोगैश्वर्यलक्षणे कैवल्यलक्षणे वा
पुरुषार्थे पर्यवसानं मा कृथाः इति यावत् । सुपथा इति अर्चिरादिमार्गग्रहणेन
प्राकृतविषयानुभवलक्षणभोगैश्वर्यव्यावृत्तेः
धनपर्यायरैशब्देन कैवल्यव्यावृत्तिः । धनशब्दस्य भोक्तृरूपातिरिक्तभोग्यभोगोपकरणविषयपरत्वात्,
कैवल्ये स्वात्मस्वरूपस्यैव परमप्राप्यत्वाच्च ।
" हे देव - लीलाविभूतौ क्रीडालक्षणलीलानुभवरसिक !"
तादृशरसानुभवकौतुकेनत्वया प्रणीतमायास्त्वयैव
निवर्तनीयाः । त्वदन्येन निवर्तयितुम् अशक्यत्वेन तन्निवर्तनाय त्वामेव प्रार्थये -
दैवी ह्येषा गुणमयी मम माया दुरत्यया ।
मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते ।।(भ.गी.7-14)
इति त्वयैव हि उक्तम् इति भावः । विश्वानि वयुनानि -सर्वविधान्युपासनलक्षणानि विज्ञानानि
माया वयुनं विज्ञानं इति हि नैघण्टुकाः । विद्वान् जानन् त्वमेव । सर्वाधिकारिगतान्
सर्वानप्युपासनभेदान् जानन् त्वमेवेति यावत् ।
" एतद्विशेषणाभिधानं स्वोपासनोद्देश्यांशस्यापि भगवता ज्ञाततया तद्विरोधि- निबर्हणद्वारा"
तत्प्रापणार्थम् । अस्मान् इत्येतत् इहाऽपि अनुषज्यते । अस्मान् जुहुराणं - प्रसह्य
हरत् । भवत्प्राप्तिलक्षणपरमपुरुषार्थात् अन्यत्र भोगैश्वर्यादिक्षुद्र- पुरुषार्थे
चापलजननेन प्रसह्यऽऽकर्षदित्यर्थः । एनः गुणमयत्वदीयमायामयं पापम् । अस्मत् -अस्मत्सकाशात्
। युयोधि - वियोजय, यु-मिश्रणामिश्रणयोः (पा.धा.1033) इति अनुशासनोक्तामिश्रणस्य विभागरूपत्वात् ।
" भोगैश्वर्यादिक्षुद्रपुरुषार्थप्रापकं अस्मदभिमतविरोधिभूतं गुणमयत्वदीयमायामयं पापं"
दूरीकृत्य भवत्प्राप्तिलक्षणं परमपुरुषार्थं त्वमेव प्रापयेति भावः । कृतः एष निर्बन्धः
क्रियते भोगैश्वर्यादिक्षुद्रपुरुषार्थप्राप्तावपि मच्छेषवृत्यनुष्ठानं हि सम्भवति । अत एव च -
दिवि वा भुवि वा ममास्तु वासो नरके वा नरकान्तक प्रकामम्।
अवधीरितशारदारविन्दौ चरणौ ते मरणेऽपि चिन्तयामि ।।(मु.मा.6)
इत्याद्युक्तरीत्या महात्मभिरपि भोगैश्वर्यालये स्थितिमनिरुन्धानैरेव मत्परिचर्याप्रार्थनं
क्रियमाणं दृश्यते इत्यत्राह -
" भूयिष्ठाम् इत्यादि । भूयिष्ठाम् - भूयसीं कालापरिच्छिन्नां यावदात्म- भाविनीम्"
इत्यर्थः । ते - तुभ्यम्, नम उक्तिम् - नमश्शब्दानुसन्धानम् ; तदुप- लक्षितां सर्वावस्थोचि
ताशेषशेषवृत्तिरूपां परिचर्यामिति यावत् ।
ये च मुक्ता भवन्तीह नरा भरतसत्तम।
तेषां लक्षणमेतद्धि यच्छ््वेतद्वीपवासिनाम् (म.भा.शां.326-14)
इत्यभिधानपूर्वकम्, कृतांजलिपुटा हृष्टा नम इत्येव वादिनः (म.भा.शां.337-40) इत्युक्त्या
नमश्शब्दानुसन्धानपूर्वकयावदात्मभाविसर्वविधपरिचर्यैव हि मुक्तैश्वर्य- रूपाऽभिहिता ।
" विधेम - विदध्याम । विध विधाने (पा.धा.1326) इति तौदादिकाद्विधतेः प्रार्थनायां लिङ्"
। यावदात्मभाविसर्वावस्थोचिताशेषशेषवृत्तिलक्षणकैंकर्यरूपं परम- पुरुषार्थमेव यतो वयं
प्रार्थयामहे - ततः तद्विरोधिसत्त्वरजस्तमोगुणद्रव्यमयत्वदीयमायान्वयं निश्शेषं निवर्तय ।
" सति तु दर्शितगुणमयमायान्वये, सत्त्वोद्रेककाले कदाचित्त्वदीयपरिचर्यान्वय सम्भवेऽपि"
रजस्तमोभ्यां स्वोद्रेककाले तन्निरोधेन तद्विच्छेदस्य दुर्वारत्वात् भूयसा कालेन
शनैश्शनैरधोगतिप्राप्तेरपि
सम्भावितत्वाच्च निश्शेषतन्निवर्तनपूर्वकं भवत्परिचर्यालक्षणपरमपुरुषार्थमेव प्रापय
। केषांचिदत्रैव भवत्परिचर्याप्रार्थनमपि अन्यादृशपरिचर्यायाः सहसा दुर्लभत्वाभिप्रायेण
संप्रतीदृश्यपि परिचर्या लब्धाचेद्वरम् इत्याशयेनैवेति भावः ।
" यद्वा - यदि मायान्वयं न निवर्तयसि तदा तवापि दुर्भरं कार्यं करिष्याम इत्याशयेन"
उच्यते-
भूयिष्ठां इत्यादि । भूयिष्ठाम् - भूयसीं, भूरिभाररूपतया तवापि दुर्भरां ते नम उक्तिमेव,
विधेम- तवापरिहार्यमहाकष्टरूपां नम इत्युक्तिमेव करिष्याम इति यावत् । अंजलिः परमा मुद्रा
क्षिप्रं देवप्रसादिनी इत्येवं भरद्वाजसंहितोक्त- लक्षणं हि भवदीयं शीलम् ; तदुपरि
नम इत्यस्याप्यभिधानं तव दुर्भरो भारः किल भविष्यति ।
शंखचक्रगदापाणे द्वारकानिलयाच्युत ।
गोविन्द पुण्डरीकाक्ष रक्ष मां शरणागताम् ।।
हा कृष्ण द्वारकावास क्वासि यादवनन्दन ।
इमामवस्थां सम्प्राप्तामनाथां किमुपेक्षसे ।। (म.भा.सभा.)
इत्यनन्यशरणत्वाकारलक्षणनमश्शब्दार्थानुसन्धानपूर्वकद्रौपदीकृतरक्षणप्रार्थना -
गोविन्देति यदाक्रन्दत्कृष्णा मां दूरवासिनम् ।
ऋणं प्रवृद्धमिव मे हृदयान्नापसर्पति ।।
" नातिस्वस्थमना ययौ (म.भा.उ.58-22) इत्यादिभिस्तवापि दुर्भरभाररूपा बभूव"
इति हि विज्ञायते । अतः त्वदीयस्वभावपर्यालोचनयापि नम उक्त्यनुसन्धानेन त्वत्क्लेशनात्प्रागेव
द्रुतमस्मदभिमतं समर्थय इति भावः ।
" यद्यप्यस्य मन्त्रस्य तत्र तत्राग्निकर्मसु तदुपस्थाने विनियोगदर्शनात्तदनुगुण एवार्थो"
वर्णनीयः ; तथापि परविद्याप्रकरणानुगुण्येनात्रायमेवार्थो न्याय््यः, एकस्यैव मन्त्रस्य
सैन्धवमानय इति वाक्यस्येव नानार्थकतायाः स्थलभेदेनार्थभेदेन विनियोगभेदस्य च सम्भवेन
विरोधाभावादित्यवधेयम् ।
(युयोधि-जुहुराणम् इति पदयोः व्याकरणांशनिरूपणम्)
" यु-मिश्रणामिश्रणयोः इति यौतिरयमदादिगणघटको धातुः । तस्मादपि -"
बहुलम्् छन्दसि (पा.सू.2-4-76)
इत्यनुशासनेन - छन्दसि विषये बहुलं शपः श्लुर्भवति, यत्रोक्तं तत्र न भवति,अन्यत्रापि
च भवति इत्यर्थकेन लोटि सिपि शपः श्लुर्भवति, ततः श्लौ (पा.सू.6-1-10) इत्यनुशासनेन
धातोर्द्विवचने । सेर्ह्यपिच्च (पा.सू.3-4-870) इत्यनुशासनेन सेर्ह्यादेशे वा छन्दसि
(पा.सू.3-4-88) इत्यनु शासनेन तदपित्वस्य वैकल्पिकत्वेन डित्वाप्राप्तौ अङितश्च (पा.सू.6-4-103)
इत्यनुशासनेन हेर्ध्यादेशे तस्य ङित्वाभावेन - सार्वधातुकार्धधातुकयोः (पा.सू.7-3-84)
इत्यनुशासनेन गुणे च सति युयोधीति रूपं भवतीति बोध्यम् ।
" हृ प्रसह्यहरणे (पा.धा.1097) इति जुहोत्यादिगणघटकस्य धातोः परस्मैपदिनोऽपि व्यत्ययो"
बहुलम् (पा.सू.3-1-85) इत्यनुशासनेन छान्दसपदव्यत्ययेन आत्मनेपदलडादेशतकारे असमिन् सूत्रे
बहुलम् इति विभज्य छन्दसि विषये सर्वे विधयो भवन्ति इति भाष्ये व्याख्यानेन बहुलं छन्दसि
(पा.सू.7-1-103) इत्यनुशासनेन बहुलग्रहणबलेन च ऋदन्तधात्वंगं प्रति तत्सूत्रविहित उकारदेशस्य
ऋृदन्तधात्वंगस्यापि स्वीकारे ऋृकारस्य रपरोकारादेशे धातोर्द्विवचनाभ्यासवर्णलोप विकारेषु
लडादेशतकारस्य शानचि च कृतेषु जुहुराणमिति रूपं भवति ।
" यद्वा - हुर्छा कौटिल्ये (पा.धा.211) इति भौवादिकधातोः परस्मैपदिनोऽपि"
प्रागुक्तानुशासनबलेन
छान्दसपदव्यत्ययेनाऽऽत्मनेपदलडादेशतकारे बहुलम् छन्दसि (पा.सू.2-4-76) इत्यनुशासनेन
प्रागुदाहृतेन शपः श्लौ जाते ततो धातोर्द्विवचने हलादिश्शेषः (पा.सू.7-4-60) इत्यनुशासनेन
अभ्यासरेफच्छकारयोः लोपे कुहोश्चु
(पा.सू.7-7-62) इत्यनुशासनेन अभ्यासहकारस्य जकारे राल्लोपः (पा.सू.6-4-21) इत्यनुशासनेन
छकारलोपे लडादेशतकारस्य शानचि च कृते जुहुराणमितिरूपं भवति । धात्वर्थकौटिल्यं च वंचकत्वम्
। तथा च अस्मान् जुहुराणं वंचयत् परमप्राप्यभगवत्स्वरूपं तिरोधाय
क्षुद्रप्राप्यान्तरभोग्यताबुद्धिजननेन
तत्र प्रावर्तयतः इत्यर्थो बोध्यः ।
" यद्वा हुर्च्छेस्सनो लुक्छलोपश्च (उणादि 248) इत्युणादिद्वितीयपादसूत्रेण हुर्च्छेधातोः"
कर्तरि वर्तमानेऽर्थे आनच्प्रत्ययो भवति । सन्प्रत्ययस्य लुक्छलोपश्च इत्यर्थकेन हुर्च्छेधातोरानचि
कृते कृतसन्प्रत्ययतदधीनद्विवचनस्य तस्य धातोः सनश्छस्य च लोपे जुहुराणम् इति रूपं भवति
। तदा जुहुराणं सदा वंचयितुम् उद्यतमित्यर्थोऽवसेयः । सर्वथाप्यस्मदपकारकरणैकोद्यतमिति
पर्यवसन्नोऽर्थः, धात्वर्थकुटिलत्वस्य भाववक्रीकरणरूपक्रौर्ये पर्यवसानात् । जुहुराणश्चन्द्रमाः
इति तु- आकारवक्रीकरणाभिप्रायेण प्रयोग इति बोध्यम् । इह कौटिल्यमपसरणमिति मैत्रेयपक्षे
धातोर- कर्मकत्वमभिमतम् । वंचकत्वम् कौटिल्यमिति पक्षे सकर्मकत्वमिति भेदोऽवसेयः ।
अपसरणमनृजुगमनं वक्रगमनमिति पर्यवसन्नम्, अन्यथापसरणस्य कौटिल्यशब्दबोध्यत्वासम्भवात्
। तदा जुहुराणश्चन्द्रमाः इत्यत्र विक्षेपवशात् वक्रगन्ता चन्द्रमा इत्यर्थोऽवसेयः
। जुहुराणमेनः इत्यत्र तु जुहुराणम् अनादिकालाद्वक्रमेवगच्छत् अपकारं कुर्वदेव गच्छत्,
न तु तं विना तूष्णीमृजुगच्छदित्यर्थः इदानीं त्वस्मानित्यस्य नानुषंग आवश्यक इति ।
(उपनिषत्तात्पर्यार्थसंग्रहः)
" अयमत्रैतदुपनिषदर्थतात्पर्यसंग्रहः - प्रथममन्त्रे सर्वेश्वरस्य नियन्तृत्वशेषित्वे"
जगतो नियाम्यत्वशेषत्वे च तत्तदसाधारणाकारौ ज्ञापयित्वा तद््बलेन मुमुक्षोः स्वसम्बन्धिसर्ववस्तुषु
कर्तृत्वममताफलविषयत्रिविधत्यागलक्षणज्ञानविशेषेण संस्करणपूर्वकं तेषु भगवद््भोगान्तर्गततयैव
स्वभोगविधानमुखेन वक्ष्यमाणपरविद्यांगभूतकर्मयोगापेक्षितो ज्ञानविशेषलक्षणसंस्कारविशेषो
दर्शितः । स च ज्ञानविशेषः भगवानेव स्वनियाम्यस्वरूपस्थितिप्रवृत्तिस्वशेषतैकरसेनानेनात्मना
स्वकीयैश्च देहेन्द्रियान्तः करणैः स्वकीयैरेव कर्मभिस्स्वकीयद्रव्यमयैरेव च भोगैः स्वात्मानं
स्वयमेव प्रीतं कारयति इत्येवमादिरूपः ।
" द्वितीयमन्त्रे च वक्ष्यमाणपरविद्यांगतया यावज्जीवं यथाधिकारं कर्मयोगः अप्यनुष्ठेयतया"
दर्शितः । कर्मयोगस्य अर्वाचीनफलद्वारा बन्धकत्वभ्रमपरिहाराय
दर्शितत्यागविशेषलक्षणसंस्कारबलेन अर्वाचीनफलसम्बन्धलक्षणतल्लेपासम्भवोऽपि ज्ञापितः ।
" तृतीयमन्त्रे च प्रथमद्वितीयमन्त्रपर्यवसन्नार्थभूतशेषित्वनियन्तृत्वलक्षणपर-"
स्वरूपयाथात्म्यशेषत्वनियाम्यत्वलक्षणस्वस्वरूपयाथात्म्यैतदुभयज्ञानपूर्वकपरविद्यांग
कर्मयोगानुष्ठानविरहिणाम् आत्मघ्नत्वेन निन्दापूर्वकं परविद्यावैधुर्येण क्रमेण महानर्थ
-प्राप्तेः अवर्जनीयत्वाभिधानमुखेन दर्शितलक्षणकर्मयोगनिष्ठाया अतिशीघ्रमेवावश्यसम्पादनीयता
दर्शिता ।
" चतुर्थादिभिरष्टमान्तैः पंचभिर्मन्त्रैः अनेकात्मसु सत्सु तत्रैकस्य परं कथं"
नियन्तृत्वशेषित्वे
? कथं वाऽन्येषां सर्वेषां चेतनाचेतनानामविशेषण नियाम्यत्वशेषत्वे ? इत्याशंकापरिहारार्थमत्र
विवक्षितपरविद्यायामनुसन्धानार्थं च प
रमात्मनोऽघटितघटनासामर्थ्याखिलभूतान्तरात्मत्वादिकल्याणगुणाश्रयत्वं
तथाविधाकारानुसन्धानफलप्रदर्शनमुखेन तदनुसन्धानावश्यकता च प्रत्यपादि ।
" नवमप्रभूतिभिरेकादशपर्यन्तैस्त्रिभिर्मन्त्रैः मुमुक्षोः कर्मविद्ययोरेकैकमात्रा-"
नुष्ठानेऽनर्थपर्यवसानावर्जनीयताज्ञापनमुखेन कर्मसहचरिताया एव विद्याया
अनुष्ठेयता प्रतिपादिता ।
" द्वादशादिभिश्चतुर्दशपर्यन्तैस्त्रिभिर्मन्त्रैः"
सामान्यतश्शरीप्राप्तिगर्भितपुरुषार्थोद्देशेन
वा सामान्यतो़ऽशरीरत्वप्राप्तिगर्भितपुरुषार्थोद्देशेन वा यथोक्तलक्षणविद्यानुष्टाने
प्रथमपक्षे नश्वरप्राकृतभोगैश्वर्यप्राप्तिपर्यवसानेनानिष्टप्राप्तेः, द्वितीयपक्षे
यावदात्मभाविस्वरूपविरुद्धकैवल्यलक्षणमोक्षप्राप्तिपर्यवसानेन अनिष्टप्राप्तेश्च अवर्जनीयता,
ततः एकविधशरीरनिर्मूलनिवृत्यपरविधशरीरप्राप्त्युभयगर्भितपुरुषार्थोद्देशेन
यथोक्तलक्षणविद्यानुष्ठान
एव स्वरूपानुगुणपरमपुरुषार्थलक्षणमोक्षप्राप्तिश्च प्रतिपादिता ।
" ततः पंचदशादयोऽष्टादशपर्यन्ताश्चत्वारो मन्त्राः यथोक्तलक्षणविद्याकरण-"
तयाऽनुसन्धेयास्स्वरूपानुगुणपरमपुरुषार्थलक्षणमोक्षप्रार्थनागर्भा
अव्यभिचारेण तथाविधमोक्षप्राप्तिप्रयोजका आवश्यकोपास्याकारानुसन्धानगर्भा अन्तरादित्यवर्तिपरम-
पुरुषविषयपरविद्यापराः प्रवृत्ताः इति ।
" तथा च अस्यामुपनिषदि कर्मयोगांगिकयैवानुष्टितया परविद्यया मोक्षप्राप्तेः प्रतिपादनेन"
कर्मयोगनिरपेक्षयैव परविद्यया मोक्षप्राप्तिः प्रत्युत कर्मयोगस्य विरोधित्वमेव इति वदन्तः
कुदृष्टयः परास्ताः इति वेदितव्यम् ।
(शाङ्करमतानुवादः)
" यत्पुनरत्राह शंकरः - अस्यामुपनिषदि विद्ययाऽमृतमश्नुते इत्येकादशमन्त्रे"
सम्भूत्याऽमृतमश्नुते
इति चतुर्दशमन्त्रे च अमृतमश्चनुते इत्युक्तिर्नामृतशब्दमुख्यार्थ- मोक्षविषया, अपि
तु देवतात्मभावलक्षणार्वाचीनपुरुषार्थविषयैव । पारलौकिकैश्वर्य
रूपस्यास्याप्यैहिकैश्वर्यापेक्षयोत्कृष्टत्वेन
तदपेक्षया मोक्षरूपत्वेन निर्देशार्हतयोपचारतोऽमृतशब्दबोध्यता सम्भवत्येव ।
" एवमत्र विद्याशब्दो न मुख्यपरविद्यारूपपरमात्मविद्यापरः ।"
अपित्वर्वाचीन देवताज्ञानरूपोपासनपर
एव, अविद्यासाहचर्येणानुष्टेयतयाऽभिधीयमानविद्यापरत्वावगमात्,
मुख्यपरविद्याया अविद्यासाहचर्येणानुष्ठेयत्वासम्भवाच्च
। अत एव च ईदृशविद्यासाध्यपुरुषार्थपरतयाऽवगम्यमानस्यामृतशब्दस्यापि साक्षान्मोक्षपरत्वं
न कथंचिदपि वक्तुं शक्यमित्यर्वाचीनपुरुषार्थपरत्वमाश्रितम् ।
" न च - विद्यां चाविद्यां च यस्तद्वेदोभयं सह । अविद्यया मृत्युं"
तीर्त्वा विद्ययाऽमृतमश्नुते
। (ई.उ.11) इति श्रुत्यैवामृतोपायत्वेन विद्यायाः मृत्युतरणोपायत्वेनाविद्यायाश्च,
प्रतिपाद्यमानत्वेन
तयोरविरोधस्यैव स्फुटं प्रतीयमानतया तर्केण कथं तयोर्विरोधस्सुवच इति वाच्यम्, कठवल्ल्युपनिषदि
द्वितीयवल्यां दूरमेते विपरीते विषूची अविद्या या च विद्येति ज्ञाता (क.उ.2-4) इति श्रुत्यैव
विद्याविद्ययोः परस्परविरुद्धतायाः प्रस्फुटं श्रूयमाणत्वात् । द्वयोश्श्रुत्योरविरोधस्य
न्यायेनैव समर्थनीयतया न्यायसंचारे कृते मुख्यपरविद्याया अविद्यायाश्च स्वरूपतः फलतश्च
विरोधस्य दुरपह््नवत्वेनात्र विद्याशब्दोऽर्वाचीनविद्यापरः, अमृतशब्दश्चार्वाचीनफलपर
इत्येव स्वीकर्तुं शक्यम्, तयोरेवाविरोधसम्भवात् । विद्याविद्ययोर्हि तेजस्तिमिरयोरिव
स्वरूपत एव विरोधः । अतः प्रकाशवति तिमिरस्येव विद्यावत्यविद्याया उदयस्यैव नावकाश इति
न तयोस्साहचर्यसम्भवः । अविद्यया हि प्रवृत्तिधर्मेण विद्याफलमोक्षविरोध्यर्वाचीनस्वर्गादिफलं
संचिनोति पुरुष इति फलतोऽपि विद्याविद्ययोर्विरोधो दुर्वारः । एवमत्र श्रूयमाणविद्याशब्दस्य
मुख्यपरविद्यपरत्वे तन्निष्ठस्यात्रैव ब्रह्मप्राप्तिसम्भवेन तदर्थं
क्वचिद््गमनस्यैवानावश्यकत्वेनोत्तरत्र
श्रूयमाणाया अर्चिरादिमार्गेण देशान्तरनयनयाचनाया अनुपपत्तेरपि
यथोक्तरीत्याऽर्वाचीनदेवतोपासनरूपविद्यापरत्वमेव स्वीकार्यम् इति ।
(विद्याशब्दस्य परविद्यापरत्वसमर्थनम्)
" तदेतत्सर्वं, दर्शितप्रकरणस्थविद्याविद्यादिशब्दार्थस्वरूपौपनिषदप्रकरण-"
सन्दर्भादिसम्यगपरामर्शमूलमविवेचितमरमणीयमेवेति
विवेकिनां विदुषामनुपादेयमेव तथा हि - अस्यामुपनिषदि चतुर्थ-पंचम-षष्ठ-सप्तमाष्टममन्त्रेषु
मुख्या परविद्यैवोपदिश्यत इति, तृतीयमन्त्रे मुख्यपरविद्यारहिता अविद्वांस एव निन्द्यन्त
इति च निर्विवादं त्वयैवाभ्युपगतम् । इत्थं प्रकरणप्रस्तुतां मुख्यां परविद्यां नवम-
दशमैकादशमन्त्रेषु श्रूयमाणविद्याशब्दो नाभिधत्ते, किं तु
तृतीयमन्त्रनिन्दिताविद्वन्निष्ठारूपां
सम्प्रति प्रधाननिरूपणीयत्वेनाप्रस्तुतामपरविद्यामेव अभिधत्ते,
मुख्यपरविद्यापरतया तद्रहितनिन्दापरतया
च प्रागुपदर्शितमन्त्रव्यतिरिक्तग्रन्थशेषः कृत्स्नोऽप्यपरविद्यानिष्ठपर एवेति कथनं
ह्यविवेकविलसितमेवेत्यतिमुग्धजनानामपि सुगमम् ; मुख्यपरविद्योपदेशापरविद्यानिष्ठाविद्वन्निन्दयोः
क्रियमाणयोरपरविद्याया उपादेयतायाः तत्प्रकरण एव कथनस्य औचित्यलेशाभावात्, पुरस्तादुपरिष्टाच्च
परविद्यायां प्रस्तूयमानायां क्रियमाणायां च तद्रहितनिन्दायां मध्ये द्वितीयमन्त्रस्य
अविद्वद्विषयत्वकल्पनाया अत्यन्तमेवासंगतत्वाच्च । किं च - यमधिकारिणमुद्दिश्य प्रथमत
उपदेशप्रवृत्तेयमुपनिषत्, तमेवोद्दिश्य ग्रन्थशेषस्यापि तदपेक्षितार्थप्रदर्शनपरताया
एवावश्यकतया मध्येऽधिकार्यन्तरप्रस्तावस्यैवानवकाशेन मध्ये मध्ये
क्वचित्क्वचिदविद्वन्निष्ठोपदेशपरत्वकल्पनं
हि न कथंचिदपि संजाघटीति ।
(अविद्याशब्दार्थविमर्शः)
" अथ अत्र अविद्याशब्दार्थः क इति तावद्विचारयामः । न तावदज्ञानम् ; अविद्यया मृत्युं"
तीर्त्वा (ई.उ.11) इति मृत्युतरणोपायत्वेन श्रूयमाणाया अविद्याया
मृत्युप्राप्तिहेतुभूताज्ञानरूपत्वासम्भवात्
। किं तु विद्येतरद्वर्णाश्रमविहितं कर्मैव ।
मृत्युशब्दश्चात्रज्ञानोत्पत्तिप्रतिबन्धकप्राचीनपुण्यपापलक्षणकर्मवाची
। तन्निवृत्तिहेतुत्वं च वर्णाश्रमविहितकर्मयोगस्य सम्भवति,
धर्मेणे पापमपनुदति (तै.ना.6-50) इति श्रुतेः,
कषायपक्तिः कर्माणि ज्ञानं तु परमा गतिः ।
कषाये कर्मभिः पक्वे ततो ज्ञानं प्रवर्तते ।। (म.भा.शां.262(अ) )
इति स्मृतेः, यज्ञो दानं तपश्चैव पावनानि मनीषिणाम् (भ.गी.18-5) इति भगवद्वचनाच्च।
" तथा च अत्र अविद्याशब्दार्थस्य वर्णाश्रमविहितकर्मजातस्य विद्योत्पत्ति-"
विरोधिपुण्यपापलक्षणप्राचीनकर्मनिबर्हणमुखेन
विद्योत्पत्तिहेतुताया एवावगमेन कथमत्र विद्याविद्ययोः
विरोधकथावकाशः ।
" अत्र अविद्याशब्दार्थभूतं वर्णाश्रमविहितं कर्मजातं फलकर्तृत्वममताविषय-"
त्रिविधत्यागपूर्वकम्
अनुष्ठितमेव विवक्षितं, तादृशस्यैव तस्य विरोधिनिबर्हणद्वारा विद्योत्पत्तिहेतुत्वात्
। अत एव हि उक्तं भगवता -
त्यागो हि पुरुषव्याघ्र त्रिविधस्सम्प्रकीर्तितः ।
यज्ञदानतपःकर्म न त्याज्यं कार्यमेव तत् ।।
यज्ञोदानं तपश्चैव पावनानि मनीषिणाम् ।
एतान्यपि तु कर्माणि संगं त्यक्त्वा फलानि च ।
कर्तव्यानीति मे पार्थ निश्चितम्मतमुत्तमम् ।।(भ.गी.18-4,5,6) इति
स्वे स्वे कर्मण्यभिरतस्संसिद्धिं लभते नरः ।
स्वकर्मनिरतस्सिद्धं यथा विन्दति तच्छृणु ।।
यतः प्रवृत्तिर्भूतानां येन सर्वमिदं ततम् ।
स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानवः ।। (भ.गी.18-45,46) इति च ।
" अत्र संगं त्यक्त्वा फलानि च इत्यनेन स्वकर्मणा तमभ्यर्च्य इत्यनेन च"
अर्वाचीनफलादिविषयत्यागपूर्वकं
भगवदाराधनरूपतयाऽनुष्ठितस्यैव स्वस्ववर्णाश्रम विहितकर्मजातस्य विरोधिपापनिबर्हणमुखेन
विद्योत्पत्तिहेतुत्वमवगम्यते स्पष्टम् । इत्थं त्यागवशेन अर्वाचीनफलान्तरप्रसंगस्यैव
निरुद्धतया फलतोऽपि नात्र विवक्षिताविद्याया विद्यया सह विरोधप्रसंगावकाशः ।
तदिदमेवाभिसन्धायोक्तमस्यामप्युपनिषदि
- कुर्वन्नेवेह कर्माणि (ई.उ.2) इत्यादिद्वितीयमन्त्रे । अत्र
अविद्याशब्दितवर्णाश्रमविहितधर्मानेव
कर्मशब्देन निर्दिष्टान् प्रथममन्त्रोक्तत्यागपुरस्सरं विद्यांगतयानुतिष्ठतः फलतो न
विद्यया सह विरोधप्रसंगः ; त्यागबलेन अर्वाचीनविरोधिफलसम्बन्धलक्षणकर्मलेपासम्भवादिति हि
अभिप्रेतम् ।
(विद्याविद्ययोरविरोधेन कठवल्लीश्रुत्युपपत्तिः)
" न चैवं सति - कठवल्ल्युपनिषदि द्वितीयवल्लयां दूरमेते विपरीते विषूची अविद्या या च"
विद्येति ज्ञाता (क.उ.2-4) इति विद्याविद्ययोर्विरोधः कथमुच्यत इति वाच्यम् ;
मोक्षाख्यफलभोगार्थानुसन्धानरूपविद्यातदितरपशुपुत्रस्वर्गाद्यैहिकाम
ुष्मिकार्वाचीनफलभोगार्थानुसन्धानरूपाविद्ययोरेव
तत्र विद्याविद्याशब्दविवक्षेतत्वेनानुपपत्त्यभावात् , तयोरत्यन्तविरोधस्य
सर्वसम्प्रतिपन्नत्वाच्च । विद्याविद्याशब्दितयोस्तयोरेव तत्र अत्यन्तविरोधोऽभिधीयत
इति च तत्र पूर्वोत्तरभागयोः
शब्दत एव सुस्पष्ठम् । अतो न शब्दैक्यमात्रेण तत्रात्र च विद्याविद्याशब्दयोरेकार्थकत्वम्
आश्रित्य ज्ञानकर्मणोर्विरोधस्सुवचः ।
(अविद्याशब्दस्य कर्मपरत्वसमर्थनम्)
" अस्तु वा तत्राप्यविद्याशब्दः कर्मपरः । तथापि पशुपुत्रस्वर्गाद्यैहिकामुष्मिक"
फलभोगहेतुकाम्यकर्मविषय
एव तत्रत्याविद्याशब्द इति तु दुरपह्नवं, दर्शितार्वाचीन फलकामनाया एव तत्प्रकरणे
निन्द्यमानत्वस्य
प्रस्फुटत्वात् । दर्शितार्वाचीनफलकामिनः काम्यकर्मनिष्ठा एव च सर्वतो निन्द्यन्ते ।
यथोक्तं भगवता -
यामिमां पुष्पितां वाचं प्रवदन्त्यविपश्चितः ।
वेदवादरताः पार्थ नान्यदस्तीति वादिनः ।।
कामात्मानस्स्वर्गपरा जन्मकर्मफलप्रदाम् ।
क्रियाविशेषबहुलां भोगैश्वर्यगतिं प्रति ।।
भोगैश्वर्यप्रसक्तानां तयाऽपहृतचेतसाम् ।।
व्यवसायात्मिका बुद्धिस्समाधौ न विधीयते ।।(भ.गी.2-42,43,44) इति ।
त्रैविद्या मां सोमपाः पूतपापा यज्ञैरिष्ट््वा स्वर्गतिं प्रार्थयन्ते ।
ते पुण्यमासाद्य सुरेन्द्रलोकमश्नन्ति दिव्यान् दिवि देवभोगान् ।।
ते तं भुक्त्वा स्वर्गलोकं विशाल क्षीणे पुण्ये मर्त्यलोकं विशन्ति ।
एवं त्रयीधर्ममनुप्रपन्ना गतागतं कामकामा लभन्ते ।। (भ.गी.9-20,21)
इति च । अत्र अर्वाचीनफलकामनायास्तदर्थं क्रियमाणकर्मणां चैव फलतो विद्याविरोधोऽभिधीयत
इति स्पष्टम् ।
" न च सर्वेषामेव कर्मणां यत्किंचिदर्वाचीनफलहेतुतायाश्शास्त्रेषु"
समन्ततो दर्शनात्तद्धेतुतया
शास्त्रचोदितानां कर्मणां तदभिसन्धिमन्तरेणानुष्ठितानामपि तत्फलसंयोगोऽवर्जनीय एव ।
अतः कर्मणा विद्याविरोधोऽपि दुष्परिहर एवेति कात्स्नर्येन कर्मणां त्याग
एव विद्यानिष्ठानामावश्यक
इत्येव दर्शितशास्त्राणां तात्पर्यमिति वाच्यम् ; गीतासु अष्टादशाध्याये -
त्याज्यं दोषवदित्येके कर्म प्राहुर्मनीषिणः ।
यज्ञदानतपः कर्म न त्याज्यमिति चापरे ।।
निश्चयं श्रुणु मे तत्र त्यागे भरतसत्तम ।
त्यागो हि पुरुषव्याघ्र त्रिविधस्सम्प्रकीर्तितः ।।
यज्ञो दानतपःकर्म न त्याज्यं कार्यमेव तत् ।
यज्ञो दानं तपश्चैव पावनानि मनीषिणाम् ।।
एतान्यपि तु कर्माणि संगं त्यक्त्वा फलानि च ।
कर्तव्यानीति मे पार्थ निश्चितम्मतमुत्तमम् ।।
नियतस्य तु सन्न्यासः कर्मणो नोपपद्यते ।
मोहात्तस्य परित्यागस्तामसः परिकीर्तितः ।।(भ.गी.18-3,4,5,6,,7) इति ।
अनिष्टमिष्टं मिश्रं च त्रिविधं कर्मणः फलम् ।
भवत्यत्यागिनां प्रेत्य न तु सन्न्यासिनां क्वचित् ।।(भ.गी.18-12) इति ।
स्वे स्वे कर्मण्यभिरतस्संसिद्धिं लभते नरः
स्वकर्मनिरतस्सिद्धिं यथा विन्दति तच्छृणु ।
यतः प्रवृत्तिर्भूतानां येन सर्वमिदं ततम्
स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानवः ।।(भ.गी.18-45,46) इति ।
सर्वकण्यपि सदा कुर्वाणो मद्व्यपाश्रयः ।
मत्प्रसादादवाप्नोति शाश्वतं पदमव्ययम् ।। (भ.गी.18-56)
इति च वदता भगवता वासुदेवेन -
" वेदैश्च सर्वैरहमेव वेद्यो वेदान्तकृद्वेदविदेव चाहम् (भ.गी.15-15) इति"
स्वस्वरूपयाथात्म्यमपि
स्वयमेवाभिदधता कर्मणां कात्स्नर्येन त्याज्यत्वात्याज्यत्वविषयवादिप्रतिपत्तिं प्रदर्श्य
त्रिविधत्यागपूर्वकं कर्माणि कर्तव्यानीत्येव निश्चितं मम मतमिति स्वयं सिद्धान्तं कृत्वा
तेषां विद्याविरोधिपापनिवृत्तिपूर्वकं विद्योत्पादनमुखेन परमसिद्धिप्रयोजकतायाः त्यागफलेन
मोक्षविरोध्यर्वाचीनफलान्तराप्रयोजकतायाश्च स्पष्टमेव प्रतिपादनेन शास्त्राणां
ब्रह्मविद्यानिष्ठस्य
कात्स्नर्येन कर्मत्याग एव तात्पर्यकल्पनस्याविवेकमूलताया अतिस्फुटत्वात् ।
(विद्याशब्दस्य परविद्यापरत्वनिगमनम्)
" इत्थं च अत्र अविद्याशब्दविवक्षितकर्मणः प्रत्युत परविद्यात्यन्तोपकारकतया"
तद्विरोधगन्धानुपलम्भेन
विद्याशब्दः परविद्यापर एव भवितुमर्हतीति सिद्धम्। न च मुख्यपरविद्यानि
ष्ठस्यात्रैव ब्रह्मप्राप्तिश्रवणेन क्वचिद््गमनानावश्यकतयोत्तरत्र अर्चिरादिमार्गेण
क्वचिद्देशविशेषे नयनप्रार्थनादर्शनेनात्रत्यविद्याशब्दो न मुख्यपरविद्यापरो भवितुमर्हतीति
वाच्यम् ; निश्शेषाविद्यानिवृत्तिमन्तरेण मुक्तेरसम्भाविततायाः तदर्थं सर्वेषामेव
परविद्यानिष्ठानाम्
अर्चिरादिमार्गेण देशविशेषगमनावश्यकतायाश्च सूत्रकाराशयानुरोधेनैव श्रीभाष्यकारैश्श्रीभाष्यादौ
निर्धारितत्वात् 1आसृत्युपक्रमाधिकरणे विदुष उत्क्रान्त्यभावकथायाः अत्रैव
निश्शेषाविद्यानिवृत्तिगर्भब्रह्मप्राप्तिकथायाश्च
दूरोत्सारितत्वाच्चात्रत्यविद्याशब्दस्य मुख्यपरविद्यापरत्वे क्षतिलेशायोगात् ।
(परविद्या विचारः)
" अथ का सा मुख्या परविद्या ? या कर्मानुष्ठानं न सहते तेजस्तिमिरमिवेति भवन्तोऽभिमन्यन्ते"
इति पृच्छामः । ब्रह्माद्वैतमिति द्वैताभावविशिष्टब्रह्मविषयक- विज्ञानमेव मुख्या परविद्या,
सा च अद्वैतविषयकत्वादेव द्वैतानुसन्धानगर्भं कर्मानुष्ठानं न सहते इति चेत् । तदेवासम्बद्धम्,
क्वचित्प्रसिद्धस्यैवार्थस्य क्वचिदभावप्रतीतेस्सर्वलोकसाक्षिकतया ब्रह्मेतरस्य वस्तुनः
क्वचित् प्रतिपत्तिस्वीकारे ब्रह्मणि द्वैतप्रतीतेरपरिहार्यत्वेन तदभावप्रतीतेरयोगात्
तदस्वीकारे च क्वचिदप्यप्रतिपन्नस्य द्वैतस्य ब्रह्मण्यभावप्रतीतेस्सुतरामेवासम्भवाच्च
। न हि खलु शशस्य श्रृङ्गं क्वाप्यप्रसिद्धमिति जानन्ननुन्मत्तः कश्चिदपि पुरुषः इह
शशश्रृङ्गं नास्ति इति प्रत्येति, व्यवहरति वा । तस्मात्, ब्रह्माद्वैतमिति ज्ञानं नानुन्मत्तस्य
कस्यचिदनाहार्यं क्वचित्कदाचित्सम्भवितुमर्हति । न तद्विज्ञानं परविद्यारूपं वा भवितुमर्हति ।
(निर्विशेषब्रह्मस्वरूपज्ञानस्य परविद्यारूपत्वखण्डनम्)
" अथ तत्त्वमस्यादिवाक्यार्थज्ञानरूपं निर्विशेषब्रह्मस्वरूपमात्रविषयकं निर्विकल्पकविज्ञानमेव"
मुख्यपरविद्यारूपम्, तच्च कर्मज्ञानानुष्ठानादिकं न सहत इति चेत्। तदप्यसम्बद्धम्
-तत्त्वमस्यादिसमानाधिकरणवाक्याद्विशेष्यविशेषणवाच
कपदद्वयप्रतिपन्नयोर्विभिन्नप्रवृत्तनिमित्तविशिष्टयोरर्थयोरैक्यबोधनस्यैव
सम्भवेनेदृशनिर्विकल्पकबोधस्य लोकव्युत्पत्तिविरोधेन कदाप्यसम्भवात्तदसम्भवस्य
सोपपत्तिकं
श्रीभाष्यादिषु निर्धारितत्वात्, तदुदयस्वीकारेऽपि
वा यत्किंचिदेकवस्तुस्वरूपमात्रविषयकनिर्विकल्पकज्ञानस्य
वस्त्वन्तरविषयकज्ञानादिविरोधित्वासम्भवेन तस्य कर्मादिज्ञानतदनुष्ठानादिविरोधित्वासम्भवाच्च
। उपगच्छन्ति हि प्रत्युत गोत्वादिविषयकनिर्विकल्पकज्ञानं गवादिविशिष्टज्ञानहेतुं तान्त्रिकाः
। तस्मात्परविद्यायाः
कर्मानुष्ठानासहिष्णुत्वबलेनात्रत्यविद्याशब्दस्य अर्वाचीनदेवताविज्ञानपरत्ववर्णनम्
उपनिषत्तत्त्वार्थापरिज्ञानमूलकोलाहल एवेति सिद्धम् ।
" उपनिषत्स्वरूपपर्यालोचने तु प्रथमतः परविद्योपदेशमेव उपक्रम्य तदङ्गतयैव द्वितीयमन्त्रे" - कुर्वन्नेवेह कर्माणि जिजीविषेच्छतं समाः (ई.उ.2) इत्यादिना यावज्जीवं कर्तव्यं विधाय
ततो विद्याकर्मणोः एकैकमात्रानुष्ठाने च अनिष्टावाप्तिमप्यभिधाय तत एव हेतोः उभयोरेवाऽऽप्रयाणं
सहानुष्ठेयत्वम् विद्यांचाविद्यां च यस्यद्वेदोभयं सह (ई.उ.11) इत्यनेनाभिधीयत इति स्पष्टमेव
विज्ञायते । अनेकमन्त्रेषु ब्रह्मणोऽनेकेषां कल्याणानामसकृद्वर्णनेन विद्यापि
तादृशकल्याणगुणविशिष्टब्रह्मासकृदनुसन्धानरूपा
यावत्पुरुषार्थप्राप्त्यनुदिनमनुवर्तनीयैव चाभिमताऽवगम्यते, न तु कादाचित्कवाक्यार्थज्ञानमात्ररूपा इत्यपि स्पष्टम् ।
(विद्याविद्ययोरविरोधप्रतिपादनेन उपसंहारः)
" तदिदं सर्वमभिसन्धायैव हि कुर्वन्नेवेह कर्माणि जिजीविषेच्छतं समाः (ई.उ.2) इति विद्यां"
चाविद्यां च यस्तद्वेदोभयं सह (ई.उ.11) इति च इयम् उपनिषदुद््घोषयति ।
तस्मादङ्गागिभावेनाविद्याशब्दितं
वर्णाश्रमादिधर्मलक्षणं विद्योदयोपचयहेतुभूतं कर्म
अनेककल्याणगुणविशिष्टब्रह्मासकृदनुसन्धानलक्षणविद्याचेत्युभयंयावदायुषं
यथाधिकारमहरहरनुष्ठेयमित्येवोपनिषदभिमतमिति सिद्धम् । अत एव च सूत्रकारेण भगवता बादरायणेनापि
आवृत्तिरसकृदुपदेशात् (ब्र.सू.4-1-1) आप्रयाणात्तत्रापि हि दृष्टम् (ब्र.सू.4-1-12)
इति सूत्राभ्यां विद्यास्वरूपस्यासकृदनुसन्धानरूपत्वमाप्रयाणात् अहरहः अनुवर्तनीयत्वं
च अभिहितम्। अग्निहोत्रादि तु तत्कार्यायैव तद्दर्शनात् (ब्र.सू.4-1-16), सर्वापेक्षा
च यज्ञादिश्रुतेरश्ववत् (ब्र.सू.3-4-26), सहकारित्वेन च (ब्र.सू.3-4-33) इति सूत्रैः
वर्णाश्रमादिधर्मलक्षणकर्मणा विद्योदयहेतुत्वमहरहरभ्यासाधेयातिशयाया विद्याया
अनुग्रहार्थमाप्रयाणादनुष्टेयत्वरूपं
तत्सहकारित्वं च प्रस्फुटमेव दर्शितम् । तस्मादेतद्विरुद्धवादो वादिनां
यथावस्थितशास्त्रार्थानवबोधमूलकोलाहल
एवेति सिद्धमित्यलं बहुना ।
ईशावास्येत्युपनिषदियं वाजिनां संहितान्त-
स्सांगां वर्णाश्रमनिगदितैः कर्मभिर्ब्रह्मविद्याम् ।
आतन्वन्तादनुदिनविनिष्पादनीयाम्मुमुक्षोः
कैवल्येच्छामपि विजहतः प्राह कैंकर्यदां च ।।
व्याख्यानव्यक्तसारामुपनिषदमिमां स्वैरमास्वादयन्तोऽ-
मन्दानन्दा भवेयुस्सकलसुमनसो वर्जयित्वा कुदृष्टीन् ।
सारासारानभिज्ञाननिव करटगणान्निम्बवृत्तीन्विहाय
ज्ञातास्वादा वसन्तागमफलभरितामाम्रवन्यां पिकौघाः ।।
भिन्नत्वं पारमार्थ्यं द्वयमपि जगतो नेष्यते यैः परस्मा-
त्तेषां 1कण्ठेगडुस्सन् क्रकचति हृदये चापि वेदान्त एषः ।
यो ब्रह्म प्राह चेशं तदितरदखिलं चापि तस्येशितव्यं
" प्रब्रूते भोग्यभोगोपकरणविधया शेषभावैकशीलम् ।।"
" आध्यात्मिक्यां सरण्यां मम हृदयरथं स्वामियन्त्रश्वरूपाः"
" श्रीशः श्रीभाष्यकारो भुवनगुरुवरो रम्यजामातृयोगी ।"
" सज्जास्संचारयन्तो व्यदधत दृढसंघट्टितप्राच्यलेखां"
" निर्बाधां पद्धतिं तां विहरणरसिका निर्विशंकं श्रयन्ताम् ।।"
" ब्रह्मायुरुत्तरार्धे श्रीश्वेतवराहकल्पे आद्येऽस्मिन् ।"
" वैवस्वताख्यसप्तममन्वन्तरे चतुर्युगे चलति ।।"
" अष्टाविंशे च कलौ वसुगगनव्योमबाणसंख्यायाः ।"
" परिपूरणे पराभववर्षेऽर्के मिथुनभाजि नवमदिने ।।"
" श्रीमद्वेंकटशैलश्रीमदनन्तार्यसिंहपीठस्थः ।"
" ईशावास्योपनिषद््भाष्यं श्रीरंगसूरिरातनुत ।।"