१७

सप्तदशो मन्त्रः
वायुरनिलममृतम्- अथेदं भस्मान्तँ शरीरम् ।
ओं क्रतो स्मर कृतँ स्मर-क्रतो स्मर कृतँ स्मर ।।17।।
(क्रतुस्वरूपे भगवति प्रारब्धपापनिवृत्तिपूर्वकरक्षणप्रार्थना)
B.17
" रं.भा.-अयं मन्त्रः काण्वैः सप्तदशमन्त्रतया पठ््यते । माध्यन्दिनैस्तु पञ्चदश-"
मन्त्रतया । उत्तरार्धे ओं क्रतो स्मर क्लिबे स्मर कृतँ स्मर इति भेदेन च पठ्यते ।
अथ उपासकः स्वोपासनस्य स्वरूपाननुगुणैश्वर्यकैवल्यलक्षणक
्षुद्रपुरुषार्थान्तरपर्यवसानप्रसङ्गपरिजिहीर्षया
तत्परिहरणीयत्वविज्ञापनपूर्वकं स्वरूपानुगुणगुणानभवकैंकर्य
लक्षणभगवत्प्राप्तिरूपपरमपुरुषार्थप्रदानं
प्रार्थयते द्वाभ्यां मन्त्राभ्यां स्वोपास्यं परम- पुरुषम् ।
(कैवल्यस्य अतिकूरतया तत्परिहारप्रार्थना)
" तत्रापि ऐश्वर्यपुरुषार्थपर्यवसानेऽपि तस्य नश्वरतया"
पश्चादपि भगवत्प्राप्ति- लक्षणपरमपुरुषार्थसम्पादनयोग्यताया
अविलयात्, कैवल्यपुरुषार्थपर्यवसाने तु तस्य नित्यतया पश्चात् तादृशयोग्यताया एव विलयाच्च
ऐश्वर्यपुरुषार्थपर्यवसानादपि कैव
ल्यपुरुषार्थपर्यवसानस्य अतिकूरतामभिसन्धाय प्रथममेव तत्परिहारं प्रार्थयते - वायुः
इत्यादिना मन्त्रेण । अत एव हि भट्टनाथदिव्यसूरिणा स्वप्रबन्धप्रथमश्रीसूक्ते चतुर्थगाथायां
कैवल्यार्थिनाम् ईदृशदुर्गत्यतिशयानुसन्धानेनैव ऐश्वर्यार्थिभ्यः पूर्वंमाहवानं हितोपदेशाय
कृतमवगम्यते । अत एव च श्रीपराङ्कुशदिव्यसूरिणापि
श्रीमुखसूक्ताख्यस्वप्रबन्धप्रथमकाण़्डद्वितीयश्रीमुखसूक्ते
पञ्चमगाथायां प्रकृतिप्रत्यासत्तिनिवृत्तौ प्राप्त
एव भवति मोक्षं चेतनः । तावन्मात्रापेक्षायां
तस्य कैवल्यपुरुषार्थ एव पर्यवसानं भवति । तत्प्रसङ्गं निर्धूय स्वरूपानुगुणपरमपुरुषार्थप्रेप्सायान्तु
प्रथममेव तदेकयोग्यतया स्वात्मानं निवेद्य भगवन्तं प्रपद्येत इत्युक्तम् । अत्र कैवल्यपुरुषार्थपर्यवसानात्प्रागेव
स्वापेक्षानिवेदनपूर्वकं भगवत्प्रपदनकर्तव्यताया अभिधानं कैवल्यपुरुषार्थस्य नित्यत्वेन
पश्चात् परमपुरुषार्थप्राप्तियोग्यताविलयसम्भवाभिप्रायेणेति स्पष्टम् ।
" यद्यपि प्राग्द्वादशे मन्त्रे कैवल्यार्थ्यपेक्षया सम्भूत्युपासकत्वेनाभिहितैश्वर्यार्थिनां"
भूयोऽन्धतमसप्रवेशाभिधानेन
अपकृष्टत्वमेव प्रतिपन्नम्, तथापि कैवल्यपुरुषार्थात् अल्पत्वास्थिरत्वाभ्याम् ऐश्वर्यपुरुषार्थस्य
अपकृष्टत्वाभिप्रायेण तदुक्तम् ; इह तु कैवल्यपुरुषार्थस्य नित्यत्वेन ऐश्वर्यपुरुषार्थापेक्षया
भगवत्प्राप्तिलक्षणपरमपुरुषार्थप्रतिबन्धकतातिशयेन क्रौर्यं विवक्षितम् इति न विरोध इत्यवधेयम् ।
(वाय््वादिशब्दानां जीवपरत्वसमर्थनम्)
" अस्य मन्त्रस्य पदविवरणम् - वायुः - प्राणवायुसहचारी प्रत्यगात्मा प्राणो वा आशाया"
भूयान् (छां.उ.7-15-1) प्राणा वै सत्यम् (बृ.उ.4-1-20,4-3-6) इत्यादिषु प्राणशब्देनेव
अत्रापि वायुशब्देन प्राणवायुसहचरितः प्रत्यगात्मैव विवक्षितः । यद्वा - वा गतिगन्धनयोः
(पा.धा.1050) इति गत्यर्थकवातिधातुनिष्पन्नोऽयं वायुशब्दः वाति गच्छतीति वायुः इति
व्युत्पत्या विद्याकर्मानुसारेण तत्र तत्र गन्तृत्वरूपेण प्रवृत्तिनिमित्तेन प्रत्यगात्मपरः,
न तु भूतद्वितीयपरः । अनिलम् - न विद्यते- इला यस्य तत् अनिलम्, इला पृथिवी पञ्चम्यामाहुतावापः
पुरुषवचसो भवन्ति (छां.उ.5-9-1) इत्यत्र यथा अप्छब्द एव अपृथक्सिद्धतया भूतान्तरसन्मि- श्रत्वेऽपि
जलभागभूतस्तया जलवाचकनिर्देश्यभूतसूक्ष्मपञ्चकपरः - तथैव अत्र इलाशब्दोऽपि अपृथक्सिद्धतया
भूतान्तरसम्मिश्रत्वेऽपि पार्थिवभागभूयस्तया पृथिवीवाचकनिर्देश्यभूतसूक्ष्मपंचकपरः
; तथा च उज्झितशरीरमित्यर्थः । यद्वा प्रागुक्तरीत्या वायुशब्दवत् इल-स्वप्नक्षेपणयोः
(पा.धा.1358) इति निद्रार्थकेलतिधातुनिष्पन्न इलाशब्दोऽपि-इलन्ति स्वपन्ति अत्रेति
व्युत्पत्या यौगिकस्सन् प्रत्यगात्ममोहकारणत्वरूपेण प्रवृत्तिनिमित्तेन प्रकृतिपर एव
। अनीशया शोचति मुह्यमानः (मुं.उ.3-1-2) अजो ह्येको जुषमाणोऽनुशेते (तै.ना.20,श्वे.उ.4-5)
इत्यादि श्रुतिभिः प्रत्यगात्मव्यामोहकारणत्वं प्रकृतेः प्रसिद्धम् ।
तथा च उज्झितप्रकृतिसम्बन्धमित्यर्थः
। सर्वथा विद्याबलात् निश्शेषनिवृत्तप्रकृतिसम्बन्धमिति यावत् । अत एव - अमृतम् - मृतं
न भवति इति अमृतम् । यद्वा मृतशब्दो भावक्तप्रत्ययान्तः ; मृतं मरणम्; तद्रहितम् ।
मरणवाचिमृतशब्दः अत्रतत्सहचरितपाप्मजराशोकादिसर्वविकारोपलक्षकः, य आत्मापहतपाप्मा विजरो
विमृत्युर्विशोको विजिघत्सोऽपिपासः (छां.उ.8-7-1) इति प्रजापतिवाक्ये
प्रकृतिसम्बन्धनिबन्धनपाप्मादिसर्वदोषविनिर्मुक्तताया
एव प्रतिपन्नत्वात् । तथा च प्रकृतिसम्बद्धः प्रत्यगात्मा
विद्यामाहात्म्यात् निश्शेषनिवृत्तप्रकृतिसम्बन्धं
तत एव हेतोः तदधीनमरणादिसर्वविकाररहितं विशुद्धं वस्तु भवतीति नात्र संशय इत्यर्थः ।
प्रकृतिविनिर्मुक्तविशुद्धप्रत्यगात्मस्वरूपस्य स्त्रीत्वपुंस्त्वादिलिंगव्यपदेशानर्हवस्तुत्वाभि-
प्रायेण सामान्ये नपुंसकम् (वा.5043) इत्यनुशासनानुरोधेन नपुंसकलिंगशब्देन निर्देशः
। अथ-इत्थंविद्याबलात् आत्मनो निवृत्तप्रकृतिसम्बन्धशुद्धभावप्राप्त्यनन्तरम्। इदम्
प्राकृतं शरीरम् । भस्मान्तम् भस्मैवान्तो यस्य तथाभूतं भवति, निश्शेषं विनष्टं भवति
। न पुनरित ऊर्ध्वम् अस्यात्मनोऽभिमतकार्यकरणोपयोगितया प्राकृतशरीरानुवृत्तिस्सम्भावितेति
यावत् । इत्थमिह प्राकृतशरीरस्य निश्शेषनिवृत्त्या पुनस्तदनुवृत्तेरसम्भाविततया भगवते
निवेदनं स्वशेषवृत्त्युपकारकतया पुनरप्राकृतदिव्यशरीरप्रदेयताज्ञापनार्थम् । हे क्रतो

  • स्वप्रयोजकस्वाश्रयापृथक्सिद्धिसम्बन्धेन मदीयोपासनरूपक्र
    तुविशिष्ट भगवन् मया क्रियमाणस्य भवदुपासनलक्षणक्रतोरपि स्वयमेव निर्वर्तनशील ! इदं
    च अनुसन्धानम् उपासने स्वकर्तृत्वादित्यागरूपं भगवति कृतज्ञतानुसन्धानरूपं चेति बोध्यम्
    । एष एव साधु कर्म कारयति तं यमेभ्यो लोकेभ्य उन्निन्नीषति (कौ.उ.3-64)
    तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम् ।
    ददामि बुद्धियोगं तं येन मामुपयान्ति ते ।।
    तेषामेवानुकम्पार्थमहमज्ञानजं तमः ।
    नाशयाम्यात्मभावस्थो ज्ञानदीपेन भास्वता ।। (भ.गी.10-10,11)
    इति श्रुतिस्मृतिभ्यां स्वाश्रितानां स्वप्राप्त्यर्थस्वोपासनलक्षणक्रतोर्भगवता स्वयमेव
    निर्वर्त्यमानत्वं हि स्पष्टमभिधीयते । अहं क्रतुरहं यज्ञः (भ.गी.9-16) इतिवत् अत्रापि
    क्रतुशब्देन, उक्तसम्बन्धेन क्रतुविशिष्टत्वेन भगवतो निर्देशः । अयं च निर्देशः रसोऽहमप्सु
    कौन्तेय (भ.गी.7-8) पुण्यो गन्धः पृथिव्यांच (भ.गी.7-9)
    इत्यादिषु रसगन्धादिशब्दैः भगवतो निर्देशवत् मुख्य एव । तत्र सर्वस्य परमपुरुषशरीरत्वेन
    आत्मभूतपरमपुरुषप्रकारत्वात् सर्वप्रकारः परमपुरुष एव अवस्थित इति सर्वैश्शब्दैः तस्य
    अभिधानम् मुख्यमित्याशयेन हि-रसोऽहमप्सु कौन्तेय (भ.गी.7-8) इत्यादिना सर्वैश्शब्दैः
    भगवतः सामानाधिकरण्यनिर्देशः प्रवृत्तः ।
    (अद्रव्यवाचिनामपि भगवद्वाचकत्वम्)
    " न च - यस्य चेतनस्य यद्रव्यं सर्वात्मना नियन्तुं धारयितुं च शक्यं तत्तस्य शरीरम्"
    इति शरीरलक्षणस्य द्रव्यत्वघटिततया रसगन्धादीनाम् अद्रव्यत्वेन भगवन्तं प्रति शरीरत्वासम्भवात्
    शरीरवाचकानां शरीरिवाचकत्वन्यायेन इह वृत्त्यसम्भवेन
    कथं तद्वाचिनां भगवत्परतया निर्देशो मख्य इति - वाच्यम् ; शरीरवाचकानामपि शब्दानां शरीरिपरतायां
    शरीरशरीरिभावस्यापि शरीरशरीरिणोः अपृथक्स्थिति प्रयोजकसम्बन्धे विशेषणविशेष्यभावरूपतयैव
    नियामकतया, ताद्रूप्येण नियामकत्वाभावेन अपृथक्स्थितिप्रयोजकसम्बन्धेन साक्षाद्वा परम्परया
    वा विशेषणविशेष्य भाव
    स्थले सर्वत्रैव तादृशविशेषणविशेष्यभावस्य विशेषणवाचकानां
    तादृशसम्बन्धेन तद्विशिष्टवाचकतानियामकताया
    दुरपह््नवतायाः प्रागुक्ततया रसगन्धादीनाम् अद्रव्याणामपि
    तथाविधेन स्वप्रयोजकस्वाश्रयापृथक्सिद्धिसम्बन्धेन
    भगवति विशेषणताया अव्याहतत्वेन तद्वाचकानामपि दर्शितसम्बन्धेन तद्विशिष्टत्वेन भगवत्परतायाः
    तस्या मुख्यतायाश्च दुर्वारत्वात् ।
    " यः पृथिव्यां तिष्ठन् पृथिव्या अन्तरो यं पृथिवी न वेद यस्य पृथिवी शरीरं यः पृथिवीमन्तरो"
    यमयत्येष त आत्माऽन्तर्याम्यमृतः (बृ.उ.5-7-3) इत्यादि अन्तर्यामिब्राह्मणादिसिद्धभगवच्छरीरभावानां
    पृथिव्यबादीनां तच्छरीरभावो हि अपृथक्स्थितिप्रयोजकतदीयसम्बन्धविशेषायत्तस्वसत्तास्वभावकत्वरूपः,
    दर्शितप्रमाणबलसिद्धे प्रागुक्तशरीरलक्षणे तन्नियाम्यत्वस्य
    तदीयसम्बन्धविशेषायत्तस्वस्वभावकत्वरूपतायाः
    तद्धार्यत्वस्य तदीयसम्बन्धविशेषाधीनस्वसत्ताकत्वरूपतायाश्च अभिमतत्वात् ।
    (गन्धरसादीनां स्वाश्रयापृथक्सिद्धसम्बन्धेन भगवत्परत्वम्)
    " इत्थं च पृथिवीजलादिगतगन्धरसादिस्वभावविशेषाणामपि"
    पृथिवीजलादिषु शरीरितया भगवतः अवस्थाननिबन्धनतासिद्धेः
    स्वाश्रयद्वारा परम्परया अपृथक्स्थितिप्रयोजकसम्बन्धेनैव भगवति सम्बद्धत्वाच्च तद्वाचिनां
    गन्धरसादिशब्दानां स्वप्रयोजकस्वाश्रयापृथक्सिद्धिसम्बन्धेन गन्धरसादिविशिष्टत्वेन भगवत्परता
    सम्भवति । अत एव च पृथिव्यां पुण्यगन्धोऽस्मि अप्सु रसोऽस्मि इत्यादिभिः तत्र तत्र
    गन्धरसादिनिर्वाहकतया अन्तःप्रविश्य स्थितोऽस्मीत्येव बोधो विवक्षितः । न तु रसादिस्वरूपैक्यबोधः
    तस्य परमात्मनि बाधितत्वात् । ईदृशी च भगत्परता गन्धरसादिशब्दानां यथा मुख्या, तथैव
    क्रत्वादिशब्दस्यापीति नात्र उपचारप्रसङ्गः ।
    (प्रणवस्य परविद्यासु उपादेयत्वप्रदर्शनम्)
    " अथोपासकः परविद्यासु समन्ततः प्रसिद्धं करणतया प्रणवानुसन्धानं पुरस्कृत्य स्वाभीष्टं"
    विवृणोति - ओम् इत्यादिना ।
    सर्वे वेदा यत्पदमामनन्ति तपांसि सर्वाणि च यद्वदन्ति ।
    यदिच्छन्तो ब्रह्मचर्यं चरन्ति तत्ते पदं संग्रहेण ब्रवीमि ओमित्येतत् ।।
    एतद्ध्येवाक्षरं ब्रह्म एतद्ध्येवाक्षरं परम् ।
    एतद्ध्येवाक्षरं ज्ञात्वा यो यदिच्छति तस्य तत् ।।
    एतदालम्बनं श्रेष्ठमेतदालम्बनं परम् ।
    एतदालम्बनं ज्ञात्वा ब्रह्मलोके महीयते ।। (क.उ.2-15,16,17)
    यः पुनरेतं त्रिमात्रेणोमित्येतेनैवाक्षरेण परं पुरुषमभिध्यायीत
    (प्र.उ.5-5) तमोंकारेणैवायतनेनान्वेति
    विद्वान्यत्तच्छान्तमजरममृतमभयं परं चेति (प्र.उ.5-7) इत्यादिषु श्रुतिषु परविद्यालम्बनतया
    प्रणवस्य उपादेयत्वं सर्वतः प्रसिद्धम् । ओम् सर्वप्रमाणमूलभूतम् ओंकारम् । स्मर -
    अनुसन्धेहि । ओम् इत्येतत् अत्र
    प्रणवस्वरूपपरम् । अव्ययत्वेन अव्ययादाप्सुपः (पा.सू.2-4-82) इत्यनुशासनेन वा सुपां
    सुलुक्् (पा.सू.7-1-39) इत्याद्यनुशासनेन वा अत्र विभक्तिलोपो द्रष्टव्यः ।
    " सर्वप्रमाणमूलप्रमाणसार्वभौमप्रणवप्रतिपन्नं सर्वजीवात्मनाम् अनादिं"
    स्वतस्सिद्धं त्वदनन्यार्हशेषत्वलक्षणं
    स्वरूपनिरूपकधर्मं सम्यगनुसन्धत्स्व इति यावत् । ततश्च नाकिंचित्कुर्वतश्शेषत्वम् इति
    न्यायेन कैंकर्यलक्षणकिंचित्कारमन्तरेण शेषत्वासिद्धेः विग्रहपरिग्रहमन्तरा कैंकर्यासिद्धेश्च
    शेषत्वसंरक्षणार्थं यावदात्मभाविसर्वदेशसर्वकालसर्वावस्थोचिताशेषकैंकर्योपक
    रणविग्रहपरिग्रहयोग्यतागर्भपरमपुरुषार्थलक्षणमोक्ष
    एव पर्यवसानं मे प्रसादय; यावदात्मभाव्यशरीरित्वगर्भकैवल्यलक्षणमोक्षे पर्यवसानं मा
    कृथाः इति स्वाभीष्टनिवेदनं फलितम् ।
    " ननु ओंकारस्मरणमात्रेण कथमेकान्ततो भवदभीष्टलाभो भविष्यति ?"
    तस्य केवलं परमात्मस्वरूपपरताया
    अपि सत्त्वात्, कैवल्यार्थ्युपासनसाधारणत्वाच्च । श्रूयते हि प्रणवकरणकोपासननिष्ठस्य
    संसारनिवृत्तिमात्रलक्षणकैवल्यमोक्षपर्यवसानं नारायणोपनिषदि प्रत्यगानन्दं ब्रह्मपुरुषं
    प्रणवस्वरूपम् । अकार उकार मकार इति । तानेकधा समभरत्तदेतदोमिति । यमुक्त्वा मुच्यते
    योगी जन्मसंसारबन्धनात् (ना.उ.4) इति ।
    " उत्तरत्र प्रणवगर्भिताष्टाक्षरमन्त्रोपासननिष्ठस्य"
    वैकुण्ठलोकावाप्तिरूपपरम पुरुषार्थप्राप्तेः
    पृथगेव श्रवणात्, अत्र केवलप्रणवोपासननिष्ठस्य कैवल्यमोक्ष एव विवक्षित इति हि स्पष्टम्
    । अत एव च गीतायामपि -
    ओमित्येकाक्षरं ब्रह्म व्याहरन्मामनुस्मरन् ।
    यः प्रयाति त्यजन् देहं स याति परमां गतिम् ।।(भ.गी.8-13)
    इति कैवल्यमोक्षप्रेप्सोरपि प्रणवकरणकब्रह्मोपासननिष्ठत्वम् अभिहितम् । क्लेश-
    कर्मविपाकाशयैरपरामृष्टः
    पुरुषविशेष ईश्वरः स पूर्वेषामपि गुरुः, कालेनानवच्छेदात् तस्य वाचकः प्रणवः (पा.यो.सू.1-27)
    इति योगानुशासनेनापि प्रणवस्य अखण्डस्य केवलसर्वेश्वरवाचकत्वम् अवगम्यते । विधीयते च
    योगानुशासने - कैवल्यमोक्षमेव प्रतिपाद्य तन्निष्ठस्यैव प्रणवजपाद्युपासननिष्ठता । अतो
    नैकान्ततः प्रणवस्य स्मर्तव्यताज्ञापनमात्रेण उपासकस्य परमपुरुषार्थभूतकैंकर्यलक्षणमोक्षनिष्ठत्वं
    सुगमम् इत्याशंकायाम् आह - कृतं स्मर इति । अत्र कृतम् इत्यस्य कर्तृतया मयेति तृतीयान्तं
    सन्दर्भबलेन उपतिष्ठते । अनुषज्यते च ओम् इत्येतदपि । मया कृतमोमित्येतत् स्मर - यमर्थमनुसन्धाय
    उपासनकरणतया प्रणवस्य अनुसन्धानं मया क्रियते, तमर्थमनुसन्धाय मदभीष्टं प्रसादय इत्यर्थः ।
    (प्रणवनिष्कृष्टाऽर्थानुसन्धानम्)
    " प्रणवस्य भगवदनन्यार्हशेषत्वप्रतिपादकत्वप्रकारस्तु मूलमन्त्रार्थपरग्रन्थेषु स्पष्ट"
    एवेति तत्रैव सोऽवगन्तव्यः । इह एतन्मन्त्रकरणकोपासननिष्ठस्य
    अधिकारिणः प्रागुक्तद्वादशत्रयोदशचतुर्दशमन्त्रैः
    लब्धपुरुषार्थतत्त्वोपदेशस्य परमपुरुषार्थैकनिष्ठतासम्भवात् अस्य मन्त्रस्य यथोक्तरीत्यैव
    अर्थौ वक्तुमुचित इत्यनुसन्धेयम् । आवृत्तिस्तु आदरार्था । माध्यन्दिनपाठे क्लिबे
    इत्यस्य अधाष्टर्यायेत्यर्थः । धाष्टर्यं हि परवश्यताप्रहाणेन स्वातन्त्र्येण वर्तनम्
    । तद्धि कैवल्यनिष्ठस्य अस्ति, भगवच्छेषवृत्तिमन्तरेण स्वात्मभोगैकपरायणत्वात्तस्य ।
    तथा च - कैवल्यपुरुषार्थपर्यवसाननि
    बन्धनधाष्टर्यपरि हाराय ओंकारं स्मर इत्यर्थः । अन्यत्सर्वं पूर्ववत् । क्लीबृ अधाष्ट्ये
    (पा.धा.381) इति धातोर्भावे क्विपि रूपमिदम् । अत्र वर्णवैरूप्यं तु छान्दसमिति बोध्यम् इति ।
    (शाङ्करव्याख्यानस्यानुपपन्नता)
    " यत्पुनरत्र मन्त्रे वायुरनिलममृतम् इत्यस्य प्रतिपाद्यताम् इत्यध्याहृतपद- घटितस्य"
    मरणसमये प्राणस्य कारणवायौ लयप्रार्थनापरतया व्याख्यानं, लिङ्गं चेदं ज्ञानकर्मसंस्कृतमुत्क्रामतु
    इति वाक्यस्य लिंगशरीरोत्क्रमणप्रार्थनापरस्य अध्याहार- करणम् अथेदं भस्मांतँ शरीरम्,
    इत्यस्य भूयात् इत्यध्याहृतपदघटितस्य मरणा- नन्तरं स्थूलशरीरस्य भस्मान्तत्वापत्तिप्रार्थनापरतया
    व्याख्यानं, स्मर इत्यस्मिन्पदे प्रथमे समुत्थितकर्माकांक्षाया
    यथार्हमध्याहृतपदेन परिहाराश्रयणं च शङ्करेण कृतम् ;
    तत्सर्वमसमंजसमेव - यथोक्तरीत्या स्वरसत एव निर्वाहे स्वैरम् अप्राप्तानावश्यकबहुलाध्याहारकल्पनाया
    अयुक्तत्वात्, मरणसमये प्राणस्य कारणवायुलयः, लिंग- शरीरोत्क्रमणं मरणानन्तरस्थूलशरीरस्य
    भस्मान्तत्वापत्तिश्च इत्येतेषामंशानां प्रार्थनामन्तरेणैव सर्वाधिकारिसाधारण्येन
    स्वतः प्राप्नुवतां प्रार्थनाया आवश्यकतालेशानुपलम्भाच्च । तस्मात् यथोक्तरीत्यैव व्याख्यानम्
    अस्य मन्त्रस्य युक्तम् इति विवेकिनो विद्वांस एव विदांकुर्वन्तु ।।