१६

षोडशो मन्त्रः
पूषन्नेकर्षे यम सूर्य प्राजाप्तय व्यूह रश्मीन् समूह तेजः ।
यत्ते रूपं कल्याणतमं तत्ते पश्यामि योऽसावसौ पुरुषस्सोऽहमस्मि ।।16।।
B.16
" रं.भा.-पुषन् इत्यादिरयंम्मन्त्रो माध्यन्दिनपाठे नास्ति ; काण्वैस्तु षोडशमन्त्रतया"
पठयते । परन्तु एतन्मन्त्रोत्तरार्धांश एव किंचित् अन्यथारूपः -
हिरण्मयेन इत्यादिपूर्वमन्त्रोत्तरभागतया
माध्यन्दिनैः पठयते । अयं मन्त्रः
उपास्यपरमपुरुषोद्देश्यकतदीयाप्राकृतदिव्यमङ्गलमविग्रहप्रदर्शनप्रार्थनापरः ।
" अस्य मन्त्रस्य प्रतिपदविवरणम् - प्राजापत्य - प्रजापतेः कश्यपात् आदित्यां सम्भूतापत्यरूप"
सूर्य - सुष्ठु ईरयति प्रेरयतीति सूर्यः, लोकबुद्धिप्रेरकः, तस्य सम्बोधनं, पुषन् -
*1लोकपोषकरव्याख्य-देवताविशेषशरीरक, एकर्षे -
अद्वितीयातीन्द्रिय-सर्वार्थ-यथावस्थित-साक्षात्कारकारिन्, यस्सर्वज्ञस्सर्ववित् (मुं.उ.2-2-7)
इत्युक्तगुणविशिष्टेति यावत् । हे यम - सर्वनियन्तृभूतपरमात्मन् ।
" अत्र प्राजापत्य-सूर्य-पूषशब्दैः यमशब्दार्थसर्वनियन्तृभूतपरमात्मनो विशेषणम् अस्या"
विद्याया आदित्यमण्डलान्तर्वर्तिपरमपुरुषविषयत्वेन अन्तरादित्यविद्यारूपत्वज्ञापनार्थं
। सूर्यविशेषणयोः लोकप्रेरकत्वपोषकत्वयोर्धर्मयोः तद्विद्यायाम्
उपास्य तदन्तरात्मभूतपरमात्मगुणतयाऽनुसन्धानसिद्धयर्थं
च, शरीरवाचकानां शब्दानां शरीरिणि अपर्यवसानवृत्तिमुलेन अत्रत्यसामानाधिकरण्यनिर्देशेन
सूर्याख्यदेवताविशेषस्य परमात्मशरीरताया बोध्यमानत्वात्, परमात्मनाऽन्तःप्रविश्य नियम्यमानस्यैव
परमात्मशरीरत्वेन शरीरगतक्रियामुख्यकारणत्वस्य आत्मगुणत्ववत्
परमात्मना सर्वात्मना नियम्यमानतच्छरीरभूतदेवताविशेषगतलोकप्रेरणपोषणमुख्यकारणत्वस्यापि
य आदित्यमन्तरो यमयति (बृ.उ.5-7-9)
ईश्वरस्सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति ।
भ्रामयन् सर्वभूतानि यन्त्रारूढानि मायया ।। (भ.गी.18-61)
इत्यादिश्रुतिस्मृतिबलात् परमात्मगुणत्वसिद्धेश्च दर्शितसामानाधिकरण्यनिर्देशेन अस्यां
विद्यायां लोकप्रेरणपोशणक्रियामुख्यकारणत्वस्यापि शब्दव्युत्पत्तिबलात् धर्मिपारतन्त्र्येण
परमात्मनि भानसम्भवात् ।
" यमसंज्ञा च दर्शितप्रेरणपोषणक्रियाकारणत्वलक्षणनियन्तृत्वरूपप्रवृत्तिनि- मित्तबलात्"
रविमण्डलान्तर्वर्तिभगवतः ।
यमो वैवस्वतो राजा यस्तवैष हृदि स्थितः ।
तेन चेदविवादस्ते मा गंगां मा कुरुन् गमः ।। (म.स्मृ.8-82)
इति स्मृतिवचनेनापि सिद्धा । अत्र हि वैवस्वतशब्दः विवस्वति भव
इति व्युत्पत्त्या सूर्यमण्डलवर्तिभगवत्पर
एव, न तु दक्षिणदिक्पतिपरः, यस्तवैष हृदि स्थितः इत्युक्तस्य
भगवदसाधारणधर्मस्य सर्वभूतहृद्देशवर्तित्वस्य तत्रासम्भवात् ।
" रश्मीन् - त्वदधिष्ठानभूतसूर्यमण्डलसम्बन्धिन उग्रकिरणान् समन्ततः प्रसृतान्, व्यूह"

  • क्वचिदेकदेशे पुंजीकुरु, तेजः - त्वदीयरूपसम्बन्धि प्रभामण़्लं च समन्ततः प्रसृतं,
    समूह - क्वचिदेकदेशे पुंजीकुरु ऊह वितर्के (पा.धा.648) इत्यस्य धातोरात्मनेपदिनः पुंजीकरणार्थकत्वं
    परस्मैपदं च उपसर्गवशाद्् भवति । उपसर्गवशात् प्रहाराहाराशब्देषु हरणार्थकस्य धातरिव
    इहापि अर्थान्तरमुपपद्यते । अस्य धातोरात्मनेपदस्य - उपसर्गादस्यत्यूह्योर्वेति वाच्यम्
    (वा.920) इति वार्तिकेन उपसर्गपूर्वकत्वदशायां वैकल्पिकत्वविधानादिह परस्मैपदम् ।
    (अप्राकृतदिव्यविग्रहस्य श्रुतिप्रतिपाद्यत्वम्)
    " रविमण्डलरश्मीनां रूपप्रभामण्डलस्य च क्वचित्पुंजीकरणं किमर्थमित्यत्राह - यत्ते इत्यादिना"
    । यत्, कल्याणतमं - सर्वेषु कल्याणेषु उत्तमं कल्याणं, स्वेतरसर्वातिशायिमांगल्यपरमशुभाश्रयभूतम्
    ते- तव, रूपम् - अप्राकृतदिव्यविग्रहः, अस्ति, यदिति - वेदाहमेतं पुरुषं महान्तमादित्यवर्णं
    तमसस्तु पारे (पु.सू.) यदा पश्यः पश्यते रुक्मवर्णं कर्तारमीशं पुरुषं ब्रह्मयोनिम्
    (मुं.उ.3-1-3) य एषोऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यते हिरण्मयश्मश्रुर्हिरण्यकेश
    आप्रणखात्सर्व एव सुवर्णः । तस्य यथा कप्यासं पुण्डरीकमेवमक्षिणी तस्योदिति नाम स एष
    सर्वेभ्यः पाप्मभ्यः उदितः । उदेति हवै सर्वेभ्यः पाप्मभ्यो य एवं वेद (छां.उ.1-6-6.7)
    तस्य हैतस्य पुरुषस्य रूपं यथा माहारजनं वासो यथा पाण़्ड््वाविकं यथेन्द्रगोपो यथाग्न्यर्चिर्यथा
    पुण्डरीकम् । यथा सकृद्विद्युत्तं सकृद्विद्युत्तेव हवा अस्य श्रीर्भवति य एवं वेद (बृ.उ.4-3-6)
    इत्यादिश्रुत्त्यन्तरप्रसिद्धिरुच्यते ।
    " ते, तत् रूपम्, पश्यामि - द्रष्टुमिच्छामि, त्वदधिष्ठानादित्यरश्मिमण्डल- स्योग्रस्य"
    अस्मद््दृष्टिप्रसरणप्रतिबन्धकत्वात् त्वदूपस्य समन्ततः प्रसृतेन प्रभामण्डलेन दुर्दर्शत्वाच्च
    तदुभयमुपसंहरसि चेत् त्वदूपं साक्षात्कर्तुं कांक्षामि, तथा कुर्विति प्रार्थनां क्रियते ।
    " आशंसायां भूतवच्च (पा.सू.3-3-132) इत्यनुशासने"
    चकारेणाशंसायां भविष्यत्यपि वर्तमानवद््भावविधानात्
    अत्र पश्यामीति लट््प्रयोगः ।
    " मदूपदर्शने तवाधिकार एव कथम् -"
    नाहं वेदैर्न तपसा न दानेन न चेज्यया ।
    शक्य एवंविधो द्रष्टुं दृष्टवानसि मां यथा ।।
    भक्त्या त्वनन्यया शक्य अहमेवंविधोऽर्जुन ।
    ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परन्तपः ।। (भ.गी.11-53,54)
    इत्यादिभिर्मय्यनन्यभक्तिमत एव हि मद्रूपदर्शनेऽधिकारस्सिद्धः । मय्यनन्यभक्तिश्च सर्वात्मना
    मन्नियाम्यत्वरूपमदधीनभावपर्यवसन्नमद्दास्यैकरूपा । तद्रहितस्य कथं तवाधिकार इत्यत्राह
    -योऽसौ इत्यादिना । असावसौ - अत्यन्तमद्विप्रकृष्टादित्यमण्डलान्तर्वर्ती, पुरुषः -
    य एषोऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यते (छां.उ.1-6-6) इत्याद्युक्तलक्षणः, यः-
    त्वमसि, अहं, सः - तादृशपुरुषरूपस्त्वमेव, अस्मि, त्वदात्मक एवास्मीत्यर्थः ।
    (सामानाधिकरण्यनिर्देशफलम्)
    " अत्र जीवपरयोः शरीरशरीरिभावमूलेन सामानाधिकरण्यनिर्देशेन शरीर- शरीरिभावप्रतीत्या"
    स्वस्य परमात्मशरीरभावज्ञापनमुखेन सर्वात्मना तन्नियाम्यत्वरूपतदधीनत्वप्रदर्शनेन
    तादृशभगवदूपदर्शनाधिकार एव ज्ञापितो भवति
    " यद्यपि - यस्यसर्वाणि भूतानि शरीरम् (बृ.उ.5-7-19) इत्यादिभिः सर्वेषामेव चिदचिद्वस्तूनां"
    परमात्मशरीरत्वं तुल्यम् ; तथापि - तादृशवस्तुस्वरूपस्थितेः
    सर्वसाधारण्येऽपि तदभ्युपगमपूर्वकतदनुगुणवर्तनं
    हि न सर्वसाधारणम् । तादृशवर्तनमेव च अत्र अस्मि इत्यनेन विवक्षितम् । तदेव च
    तद्दर्शनाधिकारप्रयोजकम् इतरव्यावृत्तम् इह दर्शितम् - ईदृशमेव च
    वर्तनम् अविवादशब्देन मनुनापि दर्शितं
    यमो वैवस्वतो राजा यस्तवैष हृदि स्थितः ।
    तेन चेदविवादस्ते मा गंगां मा कुरुन् गमः ।। (म.स्मृ.8-92)
    इत्यत्र । तादृशमेव च वर्तनं भक्त्यादिलक्षणपरविद्यापरमकाष्ठापीत्यत एव भगवदूपदर्शने
    स्वस्य अधिकारो दर्शितो भवतीति भावः इति ।
    (शङ्करव्याख्या प्रतिक्षेपः)
    " एतेन तव प्रसादात्तव रूपं पश्यामि ; किंच - अहं"
    न त्वां भृत्यवद्याचे ; योऽसावादित्यमण्डलस्थो
    व्याहृत्यवयवः पुरुषः, स एवाहमस्मि इत्युपासकस्य स्वस्मिन्
    सूर्यादिशब्दाभिलपनीयपुरुषस्वरूपैक्यानुसन्धानपरं
    शंकरकृतं व्याख्यानम् असमंजसमेवेति सिद्धम् - तव प्रसादात्त्वदूपं पश्यामि इत्यनुसन्दधतः
    उपासकस्य स्वस्मिन् उपास्यस्वरूपैक्यानुसन्धानायोगात्,
    प्रसादस्य सेव्यसेवकभाव- लक्षणभेदसापेक्षत्वात्,
    परविद्याप्रकरणे सूर्यशब्दाभिलपनीयदेवताविशेषरूपदर्शन- परमात्मनो देवतान्तरव्यावृत्ताकारकत्वम्
    याचनस्य तदर्थम् अनपेक्षित- तदैक्यानुसन्धानस्य च अप्रसक्तत्वात् अनुपयुक्तत्वाच्च।
    " किञ्च - यत्ते कल्याणतमं रूपं - तत्ते पश्यामि इति"
    प्रसिद्धवदभिधीयमा- नस्य कल्याणतमरूपस्य
    य एषोऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यते (छां.उ.1-6-6)
    इत्यादिश्रुत्यन्तरप्रसिद्धपरमात्मदिव्यरूपतायाःप्रत्यभिज्ञायमानत्वेन
    तादृशरूपस्य पुरुषस्य सूर्याख्यदेवताविशेषरूपत्ववर्णनमपि न साधु । दर्शितश्रुत्यन्तरस्य
    अन्तस्तद्धर्मोपदेशात् (ब्र.सू.1-1-21) इत्यधिकरणे स्वासाधा-
    रणदिव्यरूपविशिष्टपरमात्मलक्षणपरमपुरुषपरतायास्तस्य
    पुरुषस्य सूर्याख्यदेवता विशेषव्यावृत्तधर्मविशेषनिर्देशप्रत्यक्षतद््भेदनिर्देशादिभिर्हेतुभिः
    सूत्रकारेणैव स्थापित- त्वात् । अत्र प्रत्यगात्मपरस्य अहं शब्दस्य परमपुरुषपरस्य पुरुष
    शब्दस्य च सामानाधिकरण्यनिर्देशः तयोः शरीरशरीरिभावनिबन्धनः । न तु स्वरूपैक्यनिबन्धनः
    । ततश्च - अहं स पुरुषोऽस्मि इत्यनेन सामानाधिकरण्य-
    निर्देशेन स्वस्मिन् परमपुरुषशरीरभूतत्वप्रतिसन्धानपरेण
    भक्तिपर्यवसन्नस्य शरीरवत् सर्वात्मना तदधीनवृत्तिकत्वस्य
    ज्ञापनसिद्धया भगवद्दिव्यरूपदर्शने स्वस्य अधिकारो
    ज्ञापितो भवति ।
    (सामानाधिकरण्याऽसम्भवशंका, तत्परिहारश्च)
    " ननु कथमत्र अहंपद-पुरुषपदयोः सामानाधिकरण्यं सम्भवति ?"
    तत्पदप्रयोज्यविषयतानिरूपिततादात्म्यनिष्ठसंसर्गतानिरूपितशाब्दबोधीयविषयताप्रयोजकत्वस्यैव
    तत्पदेन एतत्पदस्य सामानाधिकरण्यरूपत्वात्, सम्प्रति पुरुषपदार्थस्य अस्मीतिधात्वर्थ
    एवान्वयेन अहंपदार्थे अन्वयस्यैव अभावात् । एवम् - अस्तेर्धातोः आधेयत्वमर्थः, भूतले
    घटोऽस्ति इत्यादौ घटादिषु भूतलादिनिरूपिता- धेयताया एव बोधदर्शनात् । इत्थं च अहं
    स पुरुषोऽस्मि इत्यत्र असधात्वर्थाधेय- तायां पुरुषपदार्थस्य परमात्मन आधेयतासम्बन्धेन
    तद्विशेषणपुरुषत्वस्य
    अवच्छेद्यता- सम्बन्धेन चान्वये पुरुषत्वावच्छिन्नपरमात्मनिष्ठाधेयतावानहम् इत्येव बोधसम्भवेन
    वाक्यस्य बाधितार्थकत्वप्रसंगो दुर्वारः, पुरषत्वावच्छिन्नपरमात्मनिष्ठाधेयताया
    अहंपदार्थप्रत्यगात्मनि
    बाधात् इति चेत् न ; पुरुषपदस्य अत्र पुरुषात्मकपरत्वेन
    पुरुषात्मकत्वरूपपुरुषपदार्थतावच्छेदकधर्मावच्छिन्नप्रत्यगात्मनिष्ठाधेयतायाः
    एव अस - धात्वर्थतया तस्याः प्रत्यगात्मनि बाधप्रसंगाभावात् ।
    परब्रह्मान्तर्यामिकत्वरूपपुरुषात्मकत्वस्य
    प्रत्यगात्मन्येव सम्भवात्, दर्शिताधेयताभानबलेन अत्र पुरुषपदार्थब्रह्मात्मकत्वविशिष्टस्यापि
    धर्मिपारतन्त्र्येण तादात्म्यसम्बन्धेन अहं पदार्थे भाननैयत्येन अहंपदेन पुरुषपदस्य
    यथोक्तलक्षणसामानाधिकरण्यसम्भवे क्षतिलेशाभावाच्च ।
    (शरीरिवाचकपदस्य शरीरबोधकत्वम्)
    " ययोः शरीरशरीरिभावोऽस्ति, तयोः शरीरवाचकानां"
    शरीरिबोधकत्वमिव शरीरिवाचकानां शरीरबोधकत्वमप्यस्त्येव,
    शरीरशरीरिभावलक्षणापृथक्सिद्धि- महिम्ना इति इह पुरुषशब्दस्य
    ब्रह्मात्मकत्वेन प्रत्यगात्मपरत्वम् अव्याहतम् ।
    (प्रकारिवाचकपदस्य प्रकारार्थकत्वे पुराणसम्मतिः)
    अत एव श्रीविष्णुपुराणे -
    ज्ञानं विशुद्धं विमलं च नित्यमशेषलोभादिनिरस्तसंगम् ।
    एकं सदैकं परमः परेशस्स वासुदेवो न यतोऽन्यदस्ति ।। (वि.पु.2-12-43)
    इति श्लोके विशुद्धप्रत्यगात्मस्वरूपवाचिज्ञानपदस्य वासुदेवपदेन -
    एकस्समस्तं यदिहास्ति किंचित् तदच्युतो नास्ति परं ततोऽन्यत् ।
    सोऽहं स च त्वं स च सर्वमेतदात्मस्वरूपं त्यज भेदमोहम् ।। (वि.पु.2-16-23)
    इति श्लोके चेतनाचेतनवाचिशब्दानां परमात्मवाचिशब्दैश्च सामानाधिकरण्य -
    व्यपदेशः कृतो यथोक्तनीत्यैव ।
    (श्रीभाष्यकारकृतसामानाधिकरण्योपपादनम्)
    " अत्र प्रथमश्लोकं व्याकुर्वदिभः भाष्यकारैः जिज्ञासाधिकरणभाष्ये तच्च वासुदेवशरीरमिति"
    तदात्मकम्, अतदात्मकस्य कस्यचिदप्यभावात् इति ज्ञानशब्द- वाच्यम् आत्मस्वरूपं तच्छब्देन
    परामृश्य तस्य वासुदेवशरीरतया वासुदेवात्म- कत्वोपपादनेन
    ज्ञानपदार्थप्रत्यगात्मस्वरूपनिष्ठविशेष्यतानिरूपिततादात्म्य-सम्बन्धा-
    वाच्छिन्न-वासुदेवात्मकत्वावच्छिन्न-प्रकारताशालि-बोधजनकत्वं दर्शयित्वा ज्ञानं वासुदेवः
    इति शब्दयोः सामानाधिकरण्यम् उपपादितम् ।
    (सामानाधिकरण्येन व्यपदेशे श्रीविष्णुचित्तार्यसम्मतिः)
    " एवमेव श्रीविष्णुचित्तार्यैरपि एतदनुसारिभिरत्र व्याख्यानं"
    कृतम् । उदाहृत- द्वितीयश्लोकेऽपि
  • यदिहास्ति किंचित्तत्समस्तम् एकोऽच्युत एव तदात्मकमित्यर्थ इति व्याकुर्वदिभः तैस्तद्रीत्यैव
    सामानाधिकरण्यम् उपपादितं चेतनाचेतनरूपसर्व- द्रव्यवाचिसमस्तपदेन भगवद्वाचिनोऽच्युतपदस्य, एवम् -
    " ज्योतीषि विष्णुर्भूवनानि विष्णुर्वनानि विष्णुर्गिरयो दिशस्च ।"
    नद्यस्समुद्राश्च स एव सर्वं यदस्ति यन्नास्ति च विप्रवर्य ।। (वि.पु.2-12-38)
    इति श्लोकेऽपि ज्योतिरादिशब्दानां भगवद्वाचिशब्देन सामानाधिकरण्यनिर्देशो भगवद्वाचिशब्दस्य
    भगवदात्मकपरत्वाभिप्रायोणैव कृतः ।
    (ईदृशसामानाधिकरण्ये श्रीभाष्यसम्मतिः)
    " उक्तं हि जिज्ञासाधिकरणश्रीभाष्ये पुराणघट्टे - तदिदं शरीरात्मभावायत्तं तादात्म्यं"
    सामानाधिकरण्येन व्यपदिश्यते - ज्योतीषि विष्णुः इति । अत्र अस्त्यात्मकं नास्त्यात्मकं
    च जगदन्तर्गतं वस्तु विष्णोः कायतया विष्ण्वात्मकम् इत्युक्त्या अत्रत्यविष्णुपदस्य
    विष्ण्वात्मकपरत्वं भाष्यकारैः । एवम् - सर्वत्र प्रसिद्धोपदेशात् (ब्र.सू.1-2-1) इति
    सूत्रभाष्ये - सर्वं खल्विदं ब्रह्म (छां.उ.3-14-1)
    इति श्रुतौ ब्रह्मपदस्य ब्रह्मात्मकपरत्वमाश्रितं
    भाष्यकारैः इत्यवगम्यते ।
    (अत्र गीताभाष्यसम्मतिः)
    " एवम् - क्षेत्रज्ञंचापि मां विद्धि सर्वक्षेत्रेषु भारत (भ.गी.13-2) इति गीताश्लोकभाष्ये"
    देवमनुष्यादिक्षेत्रेषु वेदितृत्वैकाकारं क्षेत्रज्ञं च मां विद्धि - मदात्मकं विद्धि
    इति व्याकुर्वद्भिर्भाष्यकारैः शरीरशरीरिभावनिबन्धन-सामानाधि-
    करण्य-निर्देशस्थलेषु शरीरिभूतब्रह्मवाचकशब्दानां ब्रह्मात्मकपरतयापि सामानाधिकरण्यनिर्देशनिर्वाहः
    सम्भवतीति दर्शितम् ।
    (इदं नामरूपव्याकरणश्रुतिसिद्धं च)
    " न च नामरूपव्याकरणश्रुत्या शरीरवाचकानां शब्दानाम् अपर्यवसानवृत्त्या शरीरिबोधकतासिद्ध्या"
    शरीरभूतचेतनाचेतनवाचिशब्दानां तच्छरीरकपरमात्मपर्यन्त- बोधकतासिद्धावपि शरीरभूतपरमात्मवाचिशब्दानां
    तदात्मकचेतनाचेतनपर्यन्तबोध- कत्वासिद्धेः इह परमात्मवाचिनः पुरुषशब्दस्य परमपुरुषात्मकत्वेन
    प्रत्यगात्मपरत्वं विना लक्षणा न सम्भवति, लक्षणाकल्पनं च अयुक्तां तत्त्वमसि (छां.उ.6-8-7)
    इत्यादौ त्वं पदस्येव अत्रापि अहंपदस्य प्रत्यगात्मवाचिनः तच्छरीरकपरमात्मपरतासम्भवेन
    मुख्यवृत्त्यैव सामानाधिकरण्यनिर्वाहसम्भवात् इति वाच्यम् ।
    " अनेन जीवेनात्मनाऽनप्रविश्य नामरूपे व्याकरवाणि (छां.उ.6-3-2) इत्यादिनामरीपव्याकरणश्रुत्या"
    अनुप्रविश्य इत्यनुप्रवेशस्य नामरूपव्याकरण
    प्रयोजकतां प्रदर्श्य तद््बलेनैव तत्तन्नाम्नां शक्तिव्यवस्थापनदर्शनेन तत्र यया युक्त्या
    चेतनाचेतनशब्दानाँ परमात्मवाचकता सिद्धयति, तयैव युक्त्या परमात्मवाचिशब्दानां तदात्मकत्वेन
    तच्छरीरवाचकताया अपि सिद्धेः, तदपह्ननवायोगात् ।
    (चेतनाचेतनयोः परमात्मवाचकशबद्वाच्यत्वम्)
    " इदमत्रावधेयम् - इयं श्रुतिर्लोकव्युत्पत्तिसिद्धतत्तत्पदार्थवाचकताकशब्दानां"
    परमात्मपर्यन्तवाचितां
    कथं प्रतिपादयतीति तावद्विवेचनीयम् । तत्तच्छब्दवाच्येषु पदार्थेषु अपृथक्सिद्धतया
    परमात्मनस्सम्बद्धत्वात् पृथक्सिद्धयनर्हसम्बन्धविशेषेण तत्तत्पदार्थविशिष्टेऽपि तत्तन्नाम्नां
    शक्तिः इति युक्त्यैव परमात्मपर्यन्तवाचिता तत्तन्नाम्नां प्रतिपादिता इत्यवगम्यते ।
    एवमेव च परमात्मवाचिशब्दानामपि तत्तत्पदार्थानां परमात्मन्यपृथक्सिद्धतया सम्बद्धत्वादेव
    पृथक्सिद्ध्यनर्हसम्बन्ध- विशेषेण तद्विशिष्टवाचकतापि तयैव श्रुत्या सिद्धयतीति न
    तदपहनवः कर्तुं शक्यः। तद््पृथक्सिद्धतया वर्तमानत्वमेव च तद्वाचकवाच्यत्वे तन्त्रमिति
    । चेतनाचेतनानुप्रवेशेन तदपृथक्सिद्धतया वर्तमानत्वेन यथा चेतनाचेतनवाचकशब्द- वाच्यत्वं
    परमात्मनस्सम्भवति, तथैव परमात्मापृथक्सिद्धतया वर्तमानत्वेन परमात्मवाचकशब्दवाच्यत्वं
    चेतनाचेतनयोरपि सम्भवतीत्यभिप्रायेणैव च भाष्य- कारैरपि प्रागुदाहृतस्थलेषु भगवद्वाचकशब्दानां
    तदात्मकत्वेन चेतनाचेतनपरता भाषिता । क्षेत्रज्ञं चापि मां विद्धि (भ.गी.13-2) इति श्लोकगीताभाष्ये
    चेतनाचेतनवाचिसमानाधिकरणतया प्रयुक्तस्य मामितिपरमात्मवाचिशब्दस्य मां विद्धि मदात्मकं
    विद्धि इति भगवदात्मकवाचितां व्याख्याय तदुपष्टम्भकतया यथा क्षेत्रं क्षेत्रज्ञविशेषणतैकस्वभावतया
    तदपृथक्सिद्धेस्तत्सामानाधिकरण्येनैव निर्देश्यं, तथा क्षेत्रं क्षेत्रज्ञं च मद्विशेषणतैकस्वभावतया
    मदपृथक्सिद्धेः मत्सामानाधिकरण्येनैव निर्देश्यौ विद्धि इति भाषमाणैर्भाष्यकारैः तदपृथक्सिद्धतया
    वर्तमानत्वमात्रमेव तद्वाचकवाच्यत्वे तन्त्रं, न तु तद्विशेष्यतया वर्तमानत्वमपीति स्पष्टमेव
    दर्शितं भवति ; अन्यथा इह मामित्यस्य मदात्मकत्वेन
    चेतनाचेतनवाचकत्वोपष्टम्भकतायास्तद््ग्रन्थस्यासिद्धेः ।
    " तदेतत्सर्वं -नामरूपव्याकरणश्रुतिबलेन सिद्ध्यति वाच्यवाचकभावे"
    नाम्नां लोकव्युत्पत्तिसिद्धस्वार्थविशिष्टत्वरूपशक्यतावच्छेदकशरीरे
    अपृथक्स्थितिप्रयोजक- सम्बन्धविशेष एव स्वार्थवैशिष्टयघटकतया प्रविष्टः - न तु तत्र
    विशेष्यभावनियाम कत्वमपि सम्बन्धे निवेश्यं, प्रयोजनाभावात् गौरवाद्विपरीतानां बहूनां
    स्वारसिकप्रयोगाणां मुख्यत्वानिर्वाहप्रसङ्गात्, सम्भवति मुख्यतया निर्वाहे तदुपेक्षणायोगाच्च ।
    (अहं स पुरुषोऽस्मि इत्यत्र सामानाधिकरण्यस्य मुख्यता)
    " इत्थं च चेतनाचेतनवाचिशब्दानां शरीरितासम्बन्धेन तद्विशिष्टपरमात्म-"
    वाचितावत्परमात्मवाचिशब्दानामपि
    शरीरतासम्बन्धेन तद्विशिष्टचेतनवाचित्वमपि सम्भवति, शरीरशरीरिभावसम्बन्धस्य चेतनाचेतनयोः
    परमात्मनश्च अपृथक्स्थितिनियामकतया तेषां परस्परापृथक्सिद्धताया अव्याहतत्वात् । तस्मात्
    चेतनाचेतनवाचिशब्दानां परमात्मवाचिशब्दानां च परमात्मविशेष्यकबोधजनक- सामानाधिकरण्यनिर्देशवत्
    चेतनाचेतनविशेष्यकबोधजनकसामानाधिकरण्य- निर्देशोऽपि मुख्य एवेत्यभिप्रायेणैव कृतः
    इति स्पष्टमेव अवगम्यते । इत्थं च नद्यः समुद्रान्तःप्रविष्टाः समुद्र
    एव भवन्ति - पल्लवपुष्पफलशाखादिकं
    सर्वं वृक्ष एव इत्यादयः स्वारसिकनिर्देशा अपि मुख्यतयैव निर्व्यूढा भवन्ति । न च शरीरवाचकानां
    शरीरिवाचकत्वाभिप्रायकबहुतरनिर्देशदर्शनेन भाष्यकृतां शरीरवाचकशब्दानां शरीरिण्येव शक्तिः,
    शरीरिवाचकानां तु शरीरबोधकतया क्वाचित्को निर्देशो गौण इत्येवाभिप्राय इति -
    वाच्यम् ; तत्र तत्र भाष्यकृतां शरीर- वाचकशब्दानां शरीरिवाचकत्ववर्णनस्यापि शरीरशरीरिभावस्थले
    अपृथक्सिद्धिनैयत्येन तद््बलेनैव तेषां तद्वाचकत्वसम्भवाभिप्रायकत्वेन, शरीरवाचकशब्दानामेव
    शरीरिवाचकत्वम् इत्यभिप्रायकत्वासम्भवात्; अन्यथा रसोऽहमप्सु कौन्तेय (भ.गी.7-8) पुण्यो
    गन्धः पृथिव्यां च (भ.गी.7-9) इत्यादि
    सामानाधिकरण्यनिर्देशानाम् अनिर्वाहप्रसंगाच्च । तत्र हि रसगन्धादिषु द्रव्यत्वघटितशरीरत्वाभावेन
    तद्वाचकरसगन्धादिशब्दानाम् उक्तरीत्याश्रयणे परमात्मवाचिशब्देन सामानाधिकरण्यं दुरपपादम्
    । अस्मत्पक्षे तु स्वाश्रयापृथक्सिद्धेरपि तत्रापृथक्स्थितिप्रयोजकत्वेन तत्सम्बन्धेन
    रसादिविशिष्टत्वेन परमात्मबोधकत्वसम्भवेन - रसोऽस्मि गन्धोऽस्मि इत्यादि सामानाधिकरण्यं
    सूपपादम् । तस्मात् इह अहं स पुरुषोऽस्मि इत्यहंपदार्थप्रत्यगात्मविशेष्यकपुरुष-
    पदार्थपरमपुरुषात्मकत्वावच्छिन्न-प्रकारबोधपर-सामानाधिकरण्यनिर्देशोऽपि
    मुख्य एव सम्भवति ।
    (अहं स पुरुषोऽस्मीत्यत्र एकदेशान्वयसमर्थनम्)
    " अथ - अहं स पुरुषोऽस्मि इत्यत्र पुरुषपदस्य परमपुरुषात्मकपरत्वे तदेकदेशभूतपरमपुरुषे"
    तत्पदार्थान्वयो न सम्भवति, पदार्थः पदार्थेनान्वेति, न तु पदार्थेकदेशेन इति व्युत्पत्तिविरोधात्
    । परमपुरुषात्मकेऽपि तदन्वयो न सम्भवति, तत्पदार्थादित्यमण्डलान्तर्वर्ति-परमपुरुषाभेदस्य
    प्रत्यगात्मनि बाधात् इति चेत् न ; चैत्रस्य गुरुः गृहस्य पतिः इत्यादौ
    गुरुत्वपतित्वादिपदार्थैकदेशे
    षष्ठयन्तपूर्वपदार्थ- चैत्रादिनिरूपितत्वान्वयदर्शनेन तादृशस्थलेष्विव गौरश्चैत्रो
    जानाति अयं ब्राह्मण आत्रेयो विद्वान् इत्यादिषु
    चैत्रब्राह्मणादिपदार्थशरीरविशेषावच्छिन्नात्मैकदेशशरीरे
    गौरात्रेयादिपदार्थान्वयदर्शनेन तादृशस्थलेष्वपि दर्शितव्युत्पत्तेः संकोचावश्यकत्वेन
    अत्र पुरुषपदार्थैकदेशपरमपुरुषे तत्पदार्थान्वयस्वीकारे बाधकाभावात् । दर्शितव्युत्पत्तेः
    शब्दान्तरप्रयोज्यप्रकारतानिरूपितविशेष्यतासम्बन्धेन शाब्दबोधं प्रतिशब्दान्तरप्रयोज्योपस्थितेः
    मुख्यविशेष्यतासम्बन्धेन हेतुत्वमित्येतत्परतया तत्र प्रकारताभिन्नत्वरूपमुख्यत्वघटकप्रकारतायां
    ससम्बन्धिकपदाप्रयोज्यत्वापृथक्सिद्धि- सम्बन्धानवच्छिन्नत्वयोः
    निवेशे हि नोक्तद्विविधस्थलेष्वनुपपत्तिः
    । चैत्रस्य गुरुः गृहस्य पतिः इत्यादौ गुरुपत्यादीनां
    ससम्बन्धिकपदत्वेन तत्प्रयोज्यगुरुत्वपतित्वादि-
    निष्ठप्रकारतायां तादृशपदाप्रयोज्यप्रकारताभिन्नत्वानपायात्, गौरश्चैत्रो जानाति अयं
    ब्राह्मण आत्रेयो विद्वान् इत्यादौ चैत्रब्राह्मणपदप्रयोज्यशरीरविशेषविशिष्टप्रत्यगात्म-
    रूपतदर्थैकदेशशरीरनिष्ठप्रकारताया अपृथक्सिद्धिसम्बन्धावच्छिन्नत्वेन तदनवच्छिन्न
    प्रकाराभिन्नत्वानपायाच्च
    मुख्यविशेष्यतारूपत्वानपायेन तादृशविशेष्यतासम्बन्धेन गुरुत्वपतित्वशरीरादिषु
    शब्दान्तरप्रयोज्योपस्थितेः
    जागरूकत्वात् । इत्थं च अत्रापि पुरुषशब्दार्थपरमपुरुषविशिष्टघटकपरमपुरुषे
    तादृशविशेष्यतासम्बन्धेन
    पुरुषशब्द- प्रयोज्योपस्थितेस्सत्त्वेन तत्र तत्पदार्थान्वये न काचिदपि क्षतिरुपलभ्यते ।
    " वस्तुतस्तु शरीरवाचकानां शरीरिणि वृत्तेः शरीरिवाचकानां शरीरे"
    वृत्तेश्च प्रागुपदर्शितशरीरशरीरिभावापन्नार्थद्वयपरशब्दसामानाधिकरण्य-निर्देशाद्यनुरोधेन
    क्लृप्ततया तादृशवृत्तिज्ञानपूर्वकमेव तादृशस्तलेषु शाब्दबोधजननात्, शरीरिवाचकशब्दानां
    तदात्मकविषयकवृत्तिज्ञानस्य तेषां शरीरिभूततत्तत्पदार्थ- वाचकत्वरूपवृत्तिज्ञानपूर्वकतायाः
    शरीरवाचकशब्दानां तच्छरीरकविषयकवृत्ति- ज्ञानस्य तेषां
    शरीरभूततत्तत्पदार्थवाचकत्वरूपवृत्तिज्ञानपूर्वकतायाश्च
    नियतत्वेन तत्र प्राथमिकवृत्तिज्ञानाधीनपदार्थोपस्थित्योः शरीरिभूतेषु शरीरभूतेषु च
    तत्तत्पदार्थेषु मुख्यविशेष्यतासम्बन्धेन नियमेन सत्त्वात्
    तत्र पदार्थान्तरान्वयस्वीकारे नानुपपत्तिगन्धः ।
    (तादात्म्यसम्बन्धघटितसामानाधिकरण्योपपादनम्)
    " अत एव - गभीरायां नद्यां घोषः इत्यादौ नदीशब्दार्थनदीतीरैकदेशनद्यां"
    गभीरपदार्थान्वयबोधोऽपि
    संगच्छते, तत्र शक्त्यधीननद्युपस्थितिपूर्वकमेव
    लक्षणाधीननदीतीरोपस्थितेः जननात् शक्त्यधीननद्युपस्थितेः
    तत्र कारणत्वसम्भवात् इत्थं च प्रकृतस्थले पुरुषपदज
    न्यपरमात्मोपस्थितेः तन्मूलकतत्पदजन्यतदात्मकोप-
    स्थितेश्च द्वयोरपि जननात् तत्र प्रथमोपस्थितिबलेन पुरुषशब्दार्थैकदेशपरमात्मनि स इति
    पदप्रतिपन्नार्थान्वयबोधजनने न कश्चिद्विरोधः ।
    (एकदेशान्वये दोषराहित्यप्रतिपादनम्)
    " अथवा चिदचिद्वाचिशब्दार्थविशेष्यकपरमात्मवाचिशब्दार्थप्रकारकबोधपर-"
    सामानाधिकरण्यनिर्देशस्थलेषु परमात्मवाचिशब्दानां भगवदात्मके शक्त्यस्वी - कारेऽपि
    तदर्थपरमात्मन एव तादात्म्यसम्बन्धेन चेतनाचेतनयोरन्वयस्वीकारेणापि
    सामानाधिकरण्यव्यपदेशनिर्वाहः सम्भवति ।
    तादात्म्यनिष्ठसंसर्गतानिरूपितविषयता प्रयोजकत्वस्यैव
    सामानाधिकरण्यरूपत्वात्, भगवदात्मकत्वरूपतत्तादात्म्यस्य
    चेतनाचेतनयोः अनपायाच्च । इत्थं च प्रागुदाहृतेषु
    स्थलविशेषेषु परमात्मपरशब्दानां
    तदात्मकपरतया भाष्यकारकृतव्याख्यानं तादात्म्यसंबन्धेन
    परमात्मप्रकारक- बोधजनकत्वाभिप्रायकं
    बोध्यम् । इत्थं च एकदेशान्वयप्रयुक्तानुपपत्तिशंकागन्धस्यैव नावकाशः ।
    " न च - नीलमुत्पलम् इत्यादौ स्वरूपैक्यलक्षणतादात्म्यस्यैव"
    नीलपदार्थोत्पलपदार्थयोस्संसर्गतया
    भानदर्शनेन तस्यैव सामानाधिकरण्यव्यपदेश- नियामकता युक्ता; तत्कथं तादात्म्यशब्दसाधारण्यमात्रेण
    तदन्तर्यामिकत्वरूप- तादात्म्यस्यापि तत्सामानाधिकरण्यव्यपदेशनियामकत्वं सुवचम्
    इति वाच्यम्, तदन्तर्यामिकत्वरूपतादात्म्यस्यापि प्रयोगानुरोधेन सिध्यन्त्याः सामानाधिकरण्य-
    व्यपदेशनियामकताया दुरपह््नवत्वात् ।
    (प्रकारिवाचकस्य प्रकारार्थकत्वे उपनिषत्प्रमाणप्रदर्शनम्)
    " तैत्तिरीयोवनिषदि नारायणे - विश्वमेवेदं पुरुषस्तद्विश्वमुपजीवति (तै.ना.91) इति ।"
    येन सर्वमिदं प्रोतं पृथिवीचान्तरिक्षं च द्यौश्च दिशश्चावान्तरदिशाश्च स वै सर्वमिदं
    जगत् स च भूतं स भव्यम् (तै.ना.146) इति च श्रुत्त्या - सर्वगत्वादनन्तस्य स एवाहमवस्थितः
    (वि.पु.1-19-85) इति स्मृत्या च तदन्तर्यामिकत्वरूपतादात्म्यस्यापि सामानाधिकरण्यव्यपदेशनियामकता-
    ज्ञापनपूर्वकं चिदचिद्वाचिपदार्थविशेष्यकपरमात्मवाचिपदार्थप्रकारकबोधपर-
    सामानाधिकरण्यनिर्देशो हि कृतो दृश्यते ।
    (सामानाधिकरण्ये विष्णुपुराणश्लोकार्थोपपत्तिः)
    " किं च - श्रीविष्णुपुराणे प्रागुदाहृते - ज्ञानं विशुद्धम् (वि.पु.2-12-43)"
    इत्यादिश्लोके एकस्समस्तम् (वि.पु.2-16-23) इति श्लोके च चिदचिद्वाचिपदार्थ- विशेष्यक-
    परमात्मवाचिपदार्थ-प्रकारकबोधपर-सामानाधिकरण्य-निर्देशस्य चिद-
    चितोर्भगवदन्तर्यामिकत्वलक्षणतादात्म्यं
    मूलमिति स्पष्टमेवावगम्यते । अत्र प्रथम- श्लोके
    ज्ञानशब्दवाच्य-प्रत्यगात्मस्वरूप-विशेष्यकवासुदेव-शब्दार्थप्रकारबोधपरतया
    ज्ञानं स वासुदेवः इति सामानाधिकरण्यनिर्देशं कृत्वा न यतोऽन्यदस्ति इत्यनेन जगति
    भगवदन्तर्यामिकत्वलक्षणतदभेदरूपं तत्तादात्म्यमेव तत्र
    हेतुरिति हि दर्शितम्। द्वितीयश्लोकेऽपितच्छब्दवाच्यचिदचिद््रूपकृत्स्नजगद्विशेष्यकाच्युतपदार्थ-
    प्रकारकबोधपरतया तदच्युतः इति सामानाधिकरण्यनिर्देशं कृत्वा नास्ति परं ततोऽन्यत्
    इत्यनेन जगति यथोक्तलक्षणं तादात्म्यमेव तत्र हेतुरिति दर्शितम् ।
    (तादात्म्याभेदैक्यशब्दानां सामानाधिकरण्यनिर्देशनिर्वाहकत्वम्)
    " तादात्म्याभेदैक्यादिशब्दानां पर्यायत्वात् तच्छब्दनिर्देश्यसम्बन्धनिष्ठसंसर्गता-"
    निरूपितविषयताप्रयोजकत्वमेव सामानाधिकरण्यं शब्दानाम् इति हि तदभिप्रायोऽवगम्यते ।
    अत्राभिधीयमानो जगतो ब्रह्माभेदो न स्वरूपतो भेदाभावरूपः, जगद््ब्रह्मणोः स्वरूपतो
    भेदस्य अन्यत्र सुप्रतिष्ठापितत्वात्, स्वरूपतो जडाजडयोः अभेदस्य अत्यन्तमेवासम्भावितत्वाच्च
    । ब्रह्मेतरवस्तुमात्रप्रतिषेधपरोऽयं न यतोऽन्यदस्ति इति निर्देश इत्यपि न शंक्यं,
    भेदेन निर्दिष्टयोः जीवात्म- परमात्मनोः प्राक्कृतसामानाधिकरण्यनिर्देशनिर्वाहानौपयिकत्वेन
    तथाविधप्रतिषेधस्य इह उपयोगाभावात्, ब्रह्मेतरस्य वस्तुनः प्रसिद्धत्वे तत्प्रतिषेधायोगात्,
    अप्रसिद्धत्वे च प्रतियोग्यप्रसिद्धया सुतरामेव तत्प्रतिषेधायोगाच्च तथाविधप्रतेषेधस्य
    प्रमाणभूतशास्त्रवेद्यताया एव असम्भवाच्च । अपितु - स्वरूपतो वासुदेवभिन्नं किमपि द्रव्यम्
    अपृथक्सिद्धिलक्षण-तादात्म्यसम्बन्धावच्छिन्न-वासुदेव- निष्ठ -प्रतियोगिताक- भेदवत्
    नास्तीति । तादृशभेदाभावरूपवासुदेवतादात्म्यमेव इह सामानाधिकरण्यनिर्देशनिर्वाहकतया
    अभिधीयते । अयमर्थश्च दर्शितद्वितीयश्लोके तदच्युतो नास्ति परं ततोऽन्यत् इत्यत्र स्पष्टमेव
    अवगम्यते, अत्र परमन्यत् इति
    द्वयोः पदयोस्सत्त्वेन परम् इत्यस्य स्वरूपतः अच्युतभिन्नवस्तुपरत्वात् अन्यत् इत्यस्य
    अपृथक्सिद्धिलक्षणतादात्म्यसम्बन्धावच्छिन्नाच्युतनिष्ठप्रतियोगिताकभेदवत्पर त्वाच्च
    । अतः तदैकार्यैन प्रथमश्लोकोऽपि यथोक्तलक्षणभेदप्रतिषेध एव - स वासुदेवो न यतोऽन्यस्ति
    इत्यनेन विवक्षितः । तादृशभेदश्च ब्रह्मणि रूपादिगुणेषु च
    प्रसिद्ध एवेति ब्रह्मेतरचिदात्मकद्रव्येषु
    तत्प्रतिषेध उपपन्न एव । तथा च अत्र सामानाधिकरण्यनिर्देशनिर्वाहौपयिकतया दर्शितभेदाभावस्य
    प्रदर्शनाद्दर्शितभेदाभाव- पर्यवसन्नं दर्शिततादात्म्यमपि सामानाधिकरण्यनिर्देशनिप्वाहकमेव ।
    (तत्र अहिकुण्डलाधिकरणभाष्यप्रामाण्यप्रदर्शनम्)
    " न च - स्वरूपतो भिन्नयोरीदृशाभेदव्यपदेशो लाक्षणिक"
    एव न मुख्य इति वाच्यम् ; अहिकुण्डलाधिकरणतृतीयसूत्रभाष्ये
    जीववदपृथक्सिद्धविशेषणत्वेन अचिद्वस्तुनो ब्रह्मांशत्वं, विशिष्टवस्त्वैकदेशत्वेन
    अभेद्वव्यवहारो मुख्यः विशेषणविशेष्ययोः स्वरूपस्वभावभेदेन भेदव्यवहारो मुख्यः (ब्र.सू.3-2-28)
    इत्यपृथक्सिद्धविशेषणे स्वरूपैक्यलक्षणतादात्म्यसम्बन्धावच्छिन्नविशेष्यनिष्ठ प्रति
  • योगिताकाभावरूपविशेष्यभेदव्यवहारस्य अपृथक्सिद्धिलक्षणतादात्म्यसम्बन्धा-
    वाच्छिन्नविशेष्यनिष्ठप्रतियोगिताकाभावरूपविशेष्यभेदाभावव्यवहारस्य
    च द्वयोः मुख्यतायाः स्पष्टमेव भाषितत्वात् ।
    (तादात्म्यनिर्देश्यसामानाधिकरण्ये श्रीभाष्यसम्मतिः)
    " एवं जिज्ञासाधिकरणभाष्ये भेदतन्निषेधश्रुत्यविरोधसमर्थनघट्टे"
    कृत्स्नस्य जगतो ब्रह्मकार्यतया
    तदन्तर्यामिकतया च तदात्मकत्वेन ऐक्यात् तत्प्रत्यनीकना- नात्वं प्रतिषिध्यते (ब्र.सू.1-1-1)
    इत्युक्त्या, तदपृथक्सिद्धिलक्षणं तदात्मकत्वमपि एकत्वरूपम् इति तथाविधैकत्वाभावोऽपि
    तद्वस्तुप्रतियोगिकभेदरूप इति च स्पष्टमुपदर्शितम् । एवं तत्रैव
    पुराणघट््टे तदिदं शरीरात्मभावायत्तं
    तादात्म्यं सामानाधिकरण्येन व्यपदिश्यते - ज्योतीषि विष्णुः( वि.पु.2-12-38) इति ।
    अत्र अस्त्यात्मकं नास्त्यात्मकं च जगन्तर्गतं वस्तु विष्णोः कायतया विष्ण्वात्मकम्
    इत्युक्तया दर्शिततादात्म्यस्यापि सामानाधिकरण्यव्यपदेश- निर्वाहकत्वामभिहितम् ।
    (ऐक्यशब्दस्य सामानाधिकरण्यनिर्वाहकत्वम्)
    " एवम् अंशाधिकरणेऽपि जीवस्य ब्रह्मांशत्वसाधने तदिभन्नत्व-तदैक्यनिर्देशयोः हेतुतया"
    अभिधानात् तद््भाष्ये तदैक्यनिर्देशस्य तत्त्वमसि (छां.उ.6-8-7) अयमात्मा ब्रह्म (बृ.उ.4-5-19)
    इत्यादि निर्देशरूपत्वाभिधानात् एवम् उभयव्यपदेशमुख्यत्वसिद्धये जीवोऽयं ब्रह्मणोंऽशः
    इत्यभ्युपगन्तव्य इत्युक्तेश्च ब्रह्मत्मकत्वरूपतदैक्यस्यापि स्वरूपैक्यवत्
    सामानाधिकरण्यनिर्देशनिर्वाहक्तवं
    सम्भवतीति तादृशसामानाधिकरण्यनिर्देशस्यापि मुख्यत्वमेव इति च दर्शितम् । एवं तमः परे
    देव एकीभवति (सु.उ.2) इति श्रुत्या एको घटः एकः पटः इत्यादिव्यवहारैश्च
    पृथक्सिद्ध्यनर्हसम्बन्धविशेषस्यापि
    एकत्वरूपताया अवगमात्, तदैक्यस्यैव तत्सामानाधिकरण्यनिर्देशप्रयोजकत्वाच्च तत्स्वरूपैक्यवत्
    तदात्मकत्वरूपतदैक्यस्यापि तत्सामानाधिकरण्यनिर्देशनिर्वाहकत्वं दुरपह््नवम् । जडाजडयोः
    स्वरूपैक्यासम्भवेन तमः परे देव एकीभवति इत्यत्र अनेकावयवसंघातात्मकघटपटादिषु स्वरूपैक्यासम्भवेन
    एको घटः एकः पटः इत्यादिषु च पृथक्सिद्धयनर्हसम्बन्धविशेष एव हि एकशब्देन प्रतिपाद्यते ।
    (अविभागशब्दस्य सामानाधिकरण्यद्योतकत्वम्)
    " अत एव - अविभागेन दृष्टत्वात् (ब्र.सू.4-4-4) इत्यधिकरणभाष्ये -"
    किमयं परं ज्योतिरूपसम्पन्नस्सर्वबन्धविनिर्मुक्तः
    प्रत्यगात्मा स्वात्मानं परमात्मनः पृथग्भूतम् अनुभवति, उत तत्प्रकारतया तदविभक्तम्
    इति विषयमुपदर्श्य सिद्धान्ते अतोऽविभागेन अहं ब्रह्मास्मि इत्येवानुभवति इति निर्दिशता
    भाष्यकृतापि अहंपदार्थप्रत्यगात्मनिष्ठविशेष्यतानिरूपिताविभागशब्दितापृथक्सिद्धिलक्षणतादात्म्य-
    सम्बन्धावच्छिन्नब्रह्मपदार्थपरमात्मनिष्ठप्रकारताशालिबोधपरत्वम् - अहं ब्रह्मास्मि
    इति निर्देशस्य उपदर्शितम् ।
    (सामानाधिकरण्यस्य प्रकारान्तरेण प्रतिपादनम्)
    " अत्र प्रत्यगात्मनि ब्रह्माविभागस्य धर्मिपारतन्त्र्येण भानाभिप्रायेणैव इत्थमुक्तम्,"
    अन्यथा ब्रह्मपदार्थस्य असधात्वर्थ एव अन्वयेन ब्रह्माविभागस्य प्रकारविधया वा संसर्गविधया
    वा प्रत्यगात्मनि भानासम्भवात् । अत्र अहंपदार्थ- ब्रह्मपदार्थयोः अविभागेन अनुभवपरतायाः
    अहं ब्रह्मास्मि इति सामानाधिकरण्य- निर्देशस्य अभिधानेन स्वरूपाभेदलक्षणतादात्म्यवत्
    अविभागशब्दितशरीरशरीरि- भावलक्षणतादात्म्यस्यापि सामानाधिकरण्यनिर्वाहकत्वं भाष्यकारैः
    स्पष्टम् अभिहितं भवति । न च भिन्नप्रवृत्तिनिमित्तानां
    शब्दानामेकस्मिन्नर्थे वृत्तिस्समानाधिकरण्यम्
    इति शाब्दिकोक्तसामानाधिकरण्यं स्वप्रयोज्यविषयतासम्बन्धेन
    शब्दानामर्थलक्षणै- काधिकरणवृत्तित्वरूपं
    हि अवगम्यते । अहं स पुरुषोऽस्मि इत्यत्र पुरुषपदार्थस्य
    परमात्मनः स्वान्तर्यामिकत्वलक्षणतादात्म्यसम्बन्धेन
    अहंपदार्थे जीवात्मनि अन्वयस्वीकारेऽपि अहंपदपुरुषपदयोः तादृशं सामानाधिकरण्यं कथं
    सम्भवति ? तत्प्रयोज्यविशेष्यताप्रकारतयोः एकाधिकरणनिष्ठत्वाभावादिति
    वाच्यम् ; दर्शितसामानाधिकरण्यलक्षणे
    स्वप्रयोज्यविषयतानिरूपितसंसर्गतावत्त्वसम्बन्धेन समानविभक्त्यर्थैकत्वरूपैकार्थवृत्तित्वस्य
    स्वप्रयोज्यविषयतानिरूपत्वसम्बन्धेन
    एकत्वनिष्ठसंसर्गतालक्षणैकाधिकरणवृत्तित्वपर्यवसन्नस्यैव अन्ततस्सामानाधिकरण्य -शब्देन
    विवक्षणीयत्वात्, स्वान्तर्यामिकत्वादिलक्षणतादात्म्यादि- पृथक्सिद्धयनर्ह- सम्बन्धविशेषाणां
    सर्वेषामेव एकत्वरूपताया दर्शितत्वाच्च अत्र अहंपदपुरुषपदयोर्यथोक्तलक्षणसामानाधिकरण्यस्य
    अव्याहतत्वात्, अन्यादृश- सामानाधिकरण्यस्य अनेकदोषसम्भवेन इह विवक्षणासम्भवाच्च ।
    (लक्षणान्तरेषु दोषप्रदर्शनम्)
    " तथाहि - स्वप्रयोज्यविषयतासम्बन्धेनार्थलक्षणैकाधिकरणवृत्तित्वं तावत् नेह विवक्षितुं"
    शक्यं, सम्पन्नेन चैत्रेणानाहूतोऽपि मैत्रस्तस्य प्रीतिसम्पादनाय सततं तस्य अनुपदं
    गच्छति इत्यत्र तृतीयान्तसम्पन्नपदचैत्रपदयोः षष्ठयन्ततत्पदस्य च
    सामानाधिकरण्यव्यवहारप्रसंगात् । एवं - स्वनिरूपितत्वस्वसामानाधिकरण्योभय- सम्बन्धेन
    तच्छब्दप्रयोज्यविषयताविशिष्टविषयताप्रयोजकत्वम् एतच्छब्दस्य तच्छब्देन सामानाधिकरण्यम्
    इति पर्यवसानकरणेऽपि घटाभावे घटाभावः सर्वस्मिन्नभिधेये प्रमेयत्वम् इत्यादिषु अतिप्रसङ्गः,
    शंखं पीतं जानाति इत्यादौ अप्रसङ्गश्च भवतः ; प्रथमस्थले धर्मिपारतन्त्र्येण आधेयतासम्बन्धेन
    घटाभावस्य घटाभावे प्रकारतया भानेन द्वितीयस्थले अभिधेयपदार्थस्य प्रमेयत्वपदार्थे तथा
    भानेन च सप्तम्यन्तन्तप्रथमान्तपदप्रयोज्यप्रकारताविशेष्यतयोः
    एकनिष्ठत्वनिरूप्य- निरूपकभावोभयसत्त्वात्,
    तृतीयस्थले शंखपद-पीतपदप्रयोज्यविषयतयोः एकनिष्ठत्वासम्भवाच्च । तस्माद्यथोक्तरीत्यैव
    सामानाधिकरण्यलक्षणपर्यवसानं कार्यमिति न कश्चिद्दोषः ।
    (निष्कृष्टलक्षणेऽव्याप्तिदोषनिरासः)
    " नचैवमपि, शंखं पीतं जानाति इत्यत्र शंखपीतशब्दयोः सामानाधिकरण्य- लक्षणस्य अप्रसंगो"
    दुर्वारः, तत्र पीतपदार्थस्य धर्मिपारतन्त्र्येण तादात्म्येन शंखपदार्थै भाने वाक्यस्य
    अप्रामाण्यप्रसंगेन तथाभानासम्भवात् इति - वाच्यम् । स्वरूपैक्यलक्षणतादात्म्येन तस्य
    तत्र तथाभानासम्भवेऽपि तथाविधतादात्म्य-
    सम्बन्धावच्छिन्नप्रकारतानिरूपकत्वावच्छिन्ननिरूपकताकविशेष्यतावत्वसम्बन्धेन
    तथाभानसम्भवात् तादृशविशेष्यतावत्त्वसम्बन्धस्यापि एकत्वादिरूपत्वानपायाच्च
    एकत्वतादत्म्याभेदादिशब्दानां पर्यायत्वात् पृथक्सिद्धयनर्हसम्बन्धविशेषाणां सर्वेषामपि
    अभेदरूपताया दर्शितत्त्वाच्च समानाधिकरणवाक्यस्थले नामार्थयोः
    “भेद एव संसर्ग इति व्युत्पत्तेरपि न विरोधः । "
    (अग्निर्माणवकः इत्यत्रातिप्रसङ्गनिरासः)
    " एतेन - अपृथक्स्सिद्धेरभेदातिरिक्तत्वेऽपि समानाधिकरणवाक्यस्थले तत्सम्बन्धेन नामार्थयोः”
    अन्वयं स्वीकृत्य मुख्यत्वनिर्वाहे - अग्निर्माणवकः इत्यादिसर्वसम्प्रतिपन्नगौणव्यवहाराणामपि
    मुख्यत्वापत्तिः दुर्वारा; तत्रापि सादृश्य-
    सम्बन्धेन नामार्थयोः अन्वयस्वीकारसम्भवादिति शंकापि दूरोत्सारिता ; अपृथक्सिद्धेरभेदरूपतासम्भवात्,
    भेदगर्भस्य सादृश्यस्य तथात्त्वासम्भवाच्च । अपृथक्सिद्धेः अहिकुण्डलाधिकरणादिभाष्योदाहरणेन
    अभेदरूपता हि प्रागुपदर्शिता । एवं जिज्ञासाधिकरणभाष्ये
    भेदतन्निषेधश्रुत्यविरोधसमर्थनघट्टश्रुतप्रकाशिकायामपि
    कृत्स्नस्य जगतो ब्रह्मकार्यतया तदन्तर्यामिकतया च तदात्मकत्वेनैक्यात् इति पंक्तिव्याख्यानावसरे
    तदात्मकत्वं नाम जगतः तत्प्रकारतैकस्वभावतया पृथगवस्थानाभावात्तदन्तर्गतत्वम् ; तेन
    प्रकारेणैक्यम्, न तु स्वरूपैक्यम् विशिष्टान्तर्भाव एवैक्यमित्यर्थः
    इति पंक्त्या पृथक्सिद्धयनर्हसम्बन्ध-विशेषस्यैक्य-
    रूपता स्पष्टमभिहिता । ऐक्यं चाभेदरूपमेवेति स्पष्टम् ।
    (अभेदापृथक्सिद्धशब्दयोस्समानार्थकत्वम्)
    " किञ्च - भिदिर विदारणे (पा.धा.1440) इत्यनुशासनेन भिदेर्धातोर्विभागो ह्यर्थः, विभागश्च"
    पृथक्सिथतिः तदभावो ह्यविभाग इत्यभेदापृथक्सिद्धिशब्दयोः पर्यायता हि स्फुटा । अविभागेन
    दृष्टत्वात् (ब्र.सू.4-4-4) इत्यधिकरणे सूत्रतद््भाष्ययोः सूत्रकारभाष्यकाराभ्याम् अहं
    ब्रह्मास्मि इति सामानाधिकरण्यनिर्देशस्य अविभागं प्रयोजकम्
    अभिदध््भ्यां स्वरूपैक्यवदपृथक्सिद्धिलक्षणैक्यस्यापि
    सामानाधिकरण्यनिर्देशप्रयोजकत्वम् अतिस्फुटमभाषि । न च - - अपृथक्सिद्धेरेकत्वरूपता,
    तादृशैकत्वस्य सामानाधिकरण्यनिर्देशप्रयोजकता च न मुख्येतिवाच्यम् ; एकशब्दव्यवहारेषु
    इह घट एकः इह पट एकः एकस्यामिह वेद्यां घटपटौ स्तः इत्यादिषु स्वरूपैक्यात् अन्यादृशैक्यस्य,
    इह विद्वानेकः जगत ईश्वर एकः इत्यादिषु स्वरूपैक्यस्य च स्वरसत एव भाने सम्प्रतिपन्ने
    तत्र एकस्य मुख्यताया अन्यस्यामुख्यतायाश्च स्वीकारे
    नियामकस्य नीलमुत्पलम् इत्यादौ सामानाधिकरण्यनिर्देशे स्वरूपैक्यस्य प्रयोजकतायां पुष्पितोवृक्षः,
    मषीलाञ्छितः पटः इत्यादिसामानाधिकरण्यनिर्देशे स्वरूपैक्यात् अन्यादृशैक्यस्य प्रयोजकतायां
    च स्वरसत एव प्रतियमानायां
    तत्रैकस्या मुख्यताया अन्यस्य अमुख्यतायाश्च स्वीकारे नियामकस्य च दुर्लभत्वात्; अन्यथा
    विपरीतप्रसङ्गस्यापि दुर्वारत्वाच्च । घटपटवेद्यादीनाम् अनेकावयवसंघातात्मकानां स्वरूपैक्यं
    न सम्भवतीति अपृथक्सिद्धिसम्बन्धेन सम्बद्धावयवसंघातवृत्तिसमुदायत्वरूपमेकत्वमेव इह
    घट एकः इत्याद्युदाहृतव्यवहारेषु विषयो भवितुमर्हति । स्कन्धमूलशाखापल्लवाद्यवयव-
    संघातात्मके वृक्षे पुष्पवदवयव्यक्तिस्वरूपैक्यस्य स्कन्धमूलाद्यवयवान्तरेषु तन्तु-
    संघातात्मके पटे मषीलाञ्छनाधिकरणतन्तुव्यक्तिस्वरूपैक्यस्य शुद्धतन्तुलक्षणावयवान्तरेषु
    च असत्त्वाद्दर्शितसमुदायत्वविशेषलक्षणैकत्वस्यैव पुष्पितो वृक्षः मषीलाञ्छितः पटः इत्यादिषु
    सामानाधिकरण्यनिर्वाहकता दुर्वारा । समुदायघटकैकदेशे विशेषणसद््भावमात्रेण तादृशव्यवहारस्तु
    न सम्भवति, तथा सति पृथिवीजलद्वयं गन्धवत् इत्यपि सामानाधिकरण्यव्यवहारप्रसंगात् ।
    दर्शितसमुदायत्वविशेषलक्षणैकत्वस्यापि
    सामानाधिकरण्यनिर्देशनिर्वाहकत्वादेव च नीलं नभः इति व्यवहारस्यापि उपपत्तिः,
    पंचीकरणलक्षणसम्बन्धविशेषेण
    सम्बद्ध- पदार्थसंघातवृत्तिसमुदायत्वरूपैकत्वसम्बन्धेन नीलपदार्थपार्थिवभागस्य नभः
    पदार्थे अन्वयसम्भवात् ।
    (सामानाधिकरण्यघटकसम्बन्धविशेषनिर्णयः)
    " तथा च - तादात्म्यादिशब्दाभिलप्यैकत्वनिष्ठसंसर्गतानिरूपितविषयता- प्रयोजकत्वमेव"
    शब्दानां सामानाधिकरण्यमिति अहं स पुरुषोऽस्मि इत्यत्र पुरुष-
    पदार्थपरमात्मन एव दर्शितलक्षणैकत्वसम्बन्धेन
    अहंपदार्थे धर्मिपारतन्त्र्येण अन्वयेनैव अहंपदपुरुषपदयोः
    सामानाधिकरण्यसम्भवात् न एकदेशान्वयप्रसंग-
    गन्धावकाशः । न च दर्शितरीत्या नानाविधानां तादात्म्यादिशब्दाभिलप्यैकत्व- पदार्थानां
    सामानाधिकरणयलक्षणे कस्य प्रवेशः ? स्वरूपाभेदलक्षणैकत्वस्य प्रवेशे अहं स पुरुषोऽस्मि
    इत्यादि व्यवहारेषु तदप्रसंगः, अन्यादृशैकत्वपदार्थप्रवेशे तु नीलमुत्पलम् इत्यादिव्यवहारेषु
    तदप्रसंगश्च दुर्वार इति वाच्यम् कर्मणि द्वितीया
    (पा.सू.2-3-2) इत्याद्यनुशासनस्य कर्मादिसंज्ञानिमित्तानां नानाविधत्वेऽपि आवृत्त्या
    वा कर्मसंज्ञाप्रवृत्तिनिमित्तवत्त्वेन क्रोडीकारसम्भवाभिप्रायेण वा सर्वविधकर्मसंज्ञावद्विषयत्ववत्
    एकशब्दप्रवृत्तिनिमित्तानां नानाविधत्वेऽपि आवृत्त्या वा एकशब्दप्रवृत्तिनिमित्तत्त्वेन
    क्रोडीकारेण वा सामानाधिकरण्यलक्षणेऽपि
    तादात्म्यादिशब्दाभिलप्यसर्वविधैकत्वपदार्थप्रवेशसम्भवेन क्षत्यभावात् ।
    (शरीरवाचकशब्दानां शरीरिणि शक्तेः स्वीकारावश्यकता)
    " न च ईदृशरीत्यैव तत्त्वमस्यादिसामानाधिकरण्यनिर्देशनिर्वाहसम्भवे किमर्थं शरीरवाचकानां"
    शरीरिणि शक्तिस्स्वीकार्या, किमर्थं वा तत्साधनप्रयासो भाष्यकारैर्बहुधा कृत इति वाच्यम्
    ; ब्रह्मचेतनाचेतनवाचकशब्दानां सामानाधिकरण्यस्य तादृशशक्तिं विनैव निर्वाहसम्भवेऽपि
    अहम्मनुरभवं सूर्यश्च (बृ.उ.3-4-10) अहं सर्वम् (वि.पु.1-19-85) इत्यादीनां
    परस्परविभिन्नचेतनाचेतनवाचिशब्दसामानाधिकरण्यनिर्देशानां
    तत्तेज ऐक्षत (छां.उ.6-2-3) ता आप ऐक्षन्त (छां.उ.6-2-4) तं पृथिव्यब्रवीत् (तै.सं.5-5-2)
    इत्यादि निर्देशानां देवतिर्यड््मनुष्यादिशब्दैश्चेतननिर्देशानां च निर्वाहासम्भवेन
    शरीरवाचकशब्दानां शरीरिणि शक्तेः आवश्यकत्वात् । अत्र प्रथमनिर्देशेषु परस्परविभिन्नयोः
    चेतनाचेतनयोः शरीरशरीरिभावस्य स्वरूपाभेदस्य वा विरहात् तद्वाचिनोश्शब्दयोः तत्तच्चेतनाचेतनशरीरकपर-
    मात्मपरत्वमाश्रित्यैवसामानाधिकरण्यं निर्वाह्यम् । द्वितीयतृतीयनिर्देशेषु स्वयं विशेष्यपरतयैव
    निर्दिष्टानां तेज आदिशब्दानां देवादिशब्दानां च तथाविधशक्तिमन्तरेण निर्वाहो न सम्भवति ।
    " एवं नामरूपव्याकरणश्रुतिबलेंन सिध्यन्त्याः शरीरवाचकानां शरीरिणि शक्तेः न कथंचिदपि"
    अपह््नवः कर्तुं शक्यः । नचैवं - प्रमाणबलात् प्रयोगप्राचुर्य- बलाच्च अवर्जनीयतया
    अवश्यमंगीकर्तव्यया अनन्यथासिद्धया शरीरवाचकानां शरीरिणि शक्त्यैव अत्रापि निर्वाहः
    सम्भवति, अहंशब्दस्य
    स्वात्मशरीरकपरमात्मपरत्वं पुरुषशब्दस्य यथाश्रुतपरत्वं च आश्रित्य स्वरूपाभेद- लक्षणैक्यसम्बन्धेनैव
    पुरुषशब्दार्थस्याहंशब्दार्थे अन्वयस्वीकारसम्भवात् ; कृतश्चेदृश एव निर्वाहः तत्त्वमस्यादिवाक्येषु
    भाष्यकारैरसकृत् ; एवं सति किमर्थमिह पुरुषशब्दस्य परमपुरुषात्मके शक्तिं वा स्वार्थकेवलपरमात्मनः
    स्वान्तर्यामिकत्वलक्षणतादात्म्यसम्बन्धेन अहंपदार्थे जीवात्मनि अन्वयबोधौपयिक- शक्तिं
    वा स्वीकृत्य प्रकारान्तरेण बोधवर्णनप्रयासादरणमिति - वाच्यम् ।
    स्वात्मनस्सर्वप्रकारपरमात्मनियाम्यत्वस्य ऐकान्तिकात्यन्तिकभक्तत्वपर्यवसायिनो- भगवद्दिव्यमङ्गलविग्रहदर्शनाधिकारप्रयोजकतया
    प्राधान्येन विधेयतया ज्ञापनस्य इह अभिमतत्वेन अहंपदस्य जीवशरीरकपरमात्मपरत्वस्वीकारे
    विशेष्यतावच्छेदकतयैव तद््भानसिद्ध्या तथाविधतद््भानस्य प्राधान्येन विधेयतया यथोक्तलक्षणाधिकारप्रयोजकतया
    तज्ज्ञापनरूपत्वासिद्धेः । स्वात्मशरीरक- परमात्मनि आदित्यमण्डलान्तर्वर्तिविलक्षणदिव्यविग्रहादिविशिष्टपुरुषविशेषा-
    भिन्नत्वस्यैव प्राधान्येन विधेयतया भानेन तस्य यथोक्तलक्षणाधिकाराप्रयोजकतया तज्ज्ञापनस्य
    प्रकृतानुपकारकत्वाच्च । अहंपदस्य केवलजीवात्मपरत्वमाश्रित्य तद्विशेष्यकसर्वप्रकारपरमात्मनियाम्यत्वविधेयकानुसन्धानपर्यवसायिनः
    स्वाधिकार- ज्ञापनोपकारकबोधस्यैव इह आश्रयणीयत्वेन तदर्थम् उक्तप्रयासादरणस्य आवश्यकत्वात् ।
    (प्रकारवाचकस्य प्रकारिपर्यन्तशक्तिस्वीकारफलम्)
    " चिदचिद्विशेष्यकसर्वप्रकारपरमात्मनियाम्यत्वविधेयकबोधस्य आवश्यकत्व- मभिसन्धाय चिदचिद्वाचकशब्दस्य"
    परमात्मपर्यन्तवाचित्वस्वीकारे तादृशबोधा- निर्वाहाभिप्रायेणैव च प्रागुदाहृतेषु केषुचित्
    स्थलविशेषेषु चिदचिद्वाचिशब्दानां केवलचेतनाचेतनवाचित्वं भगवद्वाचिशब्दानां भगवदात्मकपरत्वं
    च आश्रित्य सामानाधिकरण्योपपादनं भाष्यकारैः कतम् । तत्त्वमसि (छां.उ.6-8-7) इत्यत्रापि
    उक्तरीत्या त्वंपदस्य केवलजीवात्मपरत्वमाश्रित्यैव निर्वाहसम्भवेऽपि तत्प्रकरणे
    पूर्वमेकविज्ञानेन सर्वविज्ञानं प्रतिज्ञाय तदुपपादनाय
    कार्यकारणयोरैक्यं स्वस्यैव बहुभवनसंकल्पपूर्वकं
    परस्यैव ब्रह्मणो बहुभावं च अभिधाय तदीयबहुभावोपपाद- नाय स्वात्मविशिष्टप्रत्यगात्मना
    अचिदन्तःप्रवेशपूर्वकं परेण ब्रह्मणा स्वात्मन एव सर्वनामरूपकरणं च अभिधाय तदुपपादनस्यैव
    श्रुत्या प्रक्रान्तत्वात् उपसंहारस्य तदानुगुण्यसिद्धये
    त्वंशब्दस्य जीवशरीरकपरमात्मपरत्वमाश्रित्य
    सामानाधिकरण्योप- पादनं भाष्यकारैः कृतम् । त्वंशब्दस्य जीवात्ममात्रपरत्वं स्वीकृत्य
    तत्पदस्य ब्रह्मात्मकपरत्वं स्वीकृत्य वा ब्रह्ममात्रपरत्वमाश्रित्य यथोक्तलक्षणतादात्म्यसम्बन्धेन
    तत्पदार्थब्रह्मणस्त्वं- पदार्थेऽन्वयं स्वीकृत्य वा सामानाधिकरण्योपपादने हि उपक्रमानु-
    गुण्यमुपसंहारस्य न सम्भवति,कार्यकारणयोः स्वरूपैक्येन कारणविज्ञानेन कार्यविज्ञानसम्भवमभिप्रेत्यैव
    तदनुगुणदृष्टान्तप्रदर्शनपूर्वकं कारणभूतैकब्रह्मविज्ञानेन तत्कार्यकृत्स्नवस्तुविज्ञानस्यैव
    प्रतिपिपादयषितत्वेन कार्यरूपत्वं पदार्थस्य तत्पदार्थ- ब्रह्मरूपकारणस्वरूपैक्यप्रतिपादनं
    विना तदसिद्धेः, जीवमात्रस्य त्वंपदार्थत्वे तस्य ब्रह्मस्वरूपैक्याभावेन तत्त्वंपदार्थयोरिह
    स्वरूपैक्यप्रतिपादनायोगाच्च ।
    (शरीरशरीरिभावनिबन्धनसामानाधिकरण्यस्य निगमनम्)
    " तदिदं सर्वमभिप्रेत्योक्तं जिज्ञासाधिकरणभाष्ये संग्रहेण सिद्धान्तोपन्यासघट्टे भाष्यकारैः"
  • एवं सर्वावस्थावस्थितचिदचिद्वस्तुशरीरतया तत्प्रकारः
    परमपुरुष एव कार्यावस्थकारणावस्थजगद््रूपेणावस्थित
    इतीममर्थं ज्ञापयितुं काश्चन श्रुतयः प्रदर्शिताः । कार्यावस्थं कारणावस्थं च जगत् स
    एव इत्याहुः । सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम् (छां.उ.6-2-1) तदैक्षत बहुस्यां
    प्रजायेयेति तत्तेजोऽसृजत (छां.उ.6-2-3) इत्यारभ्य
    सन्मूलास्सोम्येमास्सर्वाः प्रजास्सदायतनास्सत्प्रतिष्ठाः
    (छां.उ.6-8-4) ऐतदात्म्यमिदं सर्वं तत्सत्यं स आत्मा तत्त्वमसि श्वेतकेतो (छां.उ.6-8-7)
    इति । अत्र हि भाष्ये कार्यावस्थ-कारणावस्थजगद््रूपेणा- वस्थितपरमपुरुषपरताम् अस्याः
    श्रुतेः अभिदधानैः भाष्यकारैः उपक्रमानुगुण्याय कार्यावस्थाचिद्विशिष्टचिच्छरीरकब्रह्मपरत्वमेव
    त्वंपदस्य वक्तव्यमितिस्फुटीकृतम् ।
    तथा च तत्त्वमसि (छां.उ.6-8-7) इति श्रुतौ तत्रत्यप्रकरणानुगुण्येन
    त्वंपदस्य अचिद्विशिष्टजीवशरीरकपरमात्मपरत्वेऽपि
    प्रकृतस्थले - अहं स पुरुषोऽस्मि इत्यत्र अहंपदस्य जीवात्ममात्रपरत्वमेव स्वीकृत्य
    पुरुषपदस्य परमपुरुषात्मकपरत्वं वा यथोक्तलक्षणतादात्म्यसम्बन्धेन पुरुषपदार्थपरमात्मनः
    तत्र अन्वयं वा आश्रित्यैव 1निर्वाहः कार्यः, तथा सत्येव
    यथोक्तलक्षणस्वाधिकारविशेषज्ञापनसिद्धेः इति बोध्यम्
    (व्याख्यानान्तरापेक्षया स्वव्याख्यायाः श्रेष्ठता)
    " 1एतेन - अहं शब्दोऽत्र जीवद्वारा परमात्मपर्यन्त"
    इति अहंशब्दस्य परमात्मपर्यन्तपरत्वाभिधानं,
    तथात्वास्वीकारे ब्रह्मात्मकोऽहमस्मि इति परविद्यांग- भूतस्वात्मानुसन्धानपरत्वेऽपि
    तच्छब्देन तादधीन्यादिकं लक्षणीयं स्यात् इत्यभिधानं च वेदान्ताचार्यतदनुयायिनामयुक्तमेव
    इति सिद्धम् । अहंशब्दस्य जीवशरीरक-परमात्मपरत्वाश्रयणे प्रकरणविवक्षितार्थस्य प्राधान्येन
    विधेयतया बोधनासिद्धेः प्रागुपदर्शितत्वात्, स्वस्मिन् परमात्मशरीरभावस्य सर्वप्रकारपरमात्म-
    नियाम्यत्वादिलक्षणविवक्षितार्थरूपस्य पुरुषशब्देन ब्रहह्मात्मकपरेण यथोक्तरीत्या शक्त्यैव
    बोधनसिद्धेः तत्र लक्षणाविरहस्य च प्रागुपपादित्वात्,
    तत्र लक्षणप्रसंगाभि- दानस्य गीताभाष्यतात्पर्यचन्द्रिकायां
  • क्षेत्रज्ञं चापि मां विद्धि (भ.गी.13-2) इत्यत्र माम् इत्यस्य मदात्मकम् इत्यर्थपरत्वमाश्रित्य
    भाष्यकारैः व्याख्यातस्य सामानाधिकरण्यनिर्देशस्य मुख्यताप्रतिपादकस्वोक्तेरेव विरुद्धत्वाच्च ।
    (पुरुषशब्दस्य परमात्मपरत्वम्)
    " अत्रत्यपुरुषशब्दो न स्वात्मरूपजीवपरो भवितुमर्हति,"
    विप्रकृष्टवाचि अदश्शब्देन सूर्यमण्डलान्तर्वर्तिपुरुषपरामर्शात्,
    हिरण्मयेन (ई.उ.15) इत्यादि- मन्त्रेमाध्यन्दिनपाठे योऽसावादित्ये पुरुषस्सोऽसावहम्
    इति सूर्यमण्डलान्तर्वर्तिपुरुष- परतायाः स्पष्टत्वेन तदैककण्ठयेन अत्रापि तादृशपुरुषपरताया
    दुर्वारत्वाच्च । नापि आदित्यसूर्यादिशब्दाभिलप्यजीवविशेषपरः, यत्ते रूपं कल्याणतमं
    तत्ते पश्यामि इत्यनेन य एषोऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यते । हिरण्यश्मश्रुर्हिरण्यकेश
    आप्रणखात्सर्व एव सुवर्णः । तस्य यथा कप्यासं पुण्डरीकमेवमक्षिणी तस्योदिति नाम । स
    एष सर्वेभ्यः पाप्मभ्यः उदितः (छां.उ.1-6-6,7) इति श्रुत्युक्तविलक्षणरूपवत्त्वज्ञापनेन
    तादृशरूपवत्पुरुषविशेषपरतायाः प्रत्यभिज्ञाप्य- मानत्वात्, तादृषरूपवत्पुरुषस्य च
    पुण्डरीकाक्षत्वापहतपाप्मत्वादिधमैः परमपुरुष- रूपतायास्स्पष्टत्वात्, अन्तस्तद्धर्मोपदेशात्
    (ब्र.सू.1-1-21) इत्यधिकरणे सूत्रकारेण तस्य जगत्कारणपरब्रह्मलक्षणपरमपुरुषरूपतायाः
    स्थापितत्वात्, हिरण्मयेन (ई.उ.15) इत्यादिमन्त्रे माध्यन्दिनपाठे ओं खं ब्रह्म इति
    वाक्यशेषेण एतत्प्रकरणविवक्षितादित्यमण्डलान्तर्वर्तिपुरुषस्य आकाशवत्सर्वव्यापिप्रणववाच्य-
    परब्रह्मरूपतायास्स्पष्टमेव श्रवणेन तदैककण्ठयेनापि
    तत्सिद्देः दुर्वारत्वाच्च । अतोऽत्रत्यपुरुषशब्दः
    परमपुरुष पर एव। तस्माद्यथोक्तरीत्या अहं स पुरुषोऽस्मि
    इत्यत्र अहंपदस्य केवलजीवात्मपरत्वमेवाश्रित्य
    पुरुषपदस्य पुरुषात्मकपरत्वं दर्शितलक्षणतादात्म्यविशेषरूपत्वसम्बन्धेन
    पुरुषपदार्थपरमात्मनोऽगंपदार्थ
  • प्रत्यगात्मनि अन्वयं वा स्वीकृत्य अहंपदार्थप्रत्यगात्मविशेष्यकस्य
    सर्वप्रकारपरमात्मनियाम्यत्वादिलक्षणशरीरत्वविधेयकस्य
    तत्सम्बन्धेन परमात्म- विधेयकस्य वा बोधस्यैव कल्याणतमदिव्यरूपसाक्षात्काराधिकारज्ञापन-
    पर्यवसायिनस्स्वीकार आवश्यक इत्यलं विस्तरेण ।।