१५

पञ्चदशो मन्त्रः
हिरण्मयेन पात्रेण सत्यस्यापिहितं मुखम् ।
तत्त्वं पूषन्नपावृणु सत्यधर्माय दृष्टये ।। 15।।
B.15
" रं.भा.-अयं मन्त्रः काण्वैः पंचदशमन्त्रतया पठ््यते ; माध्यन्द्रिनैः सप्तदशमन्त्रतया।"
तत्रापि उत्तरार्धम् - योऽसावादित्ये पुरुषस्सोऽसावहम् । ओं खं ब्रह्म इत्येवं रूपं
च पठ््यते । इतः पूर्वमुपासनस्य स्वरूपं सागं प्रतिपाद्य तत्करणमन्त्रा इत आरभ्य अभिधीयन्ते
। पूर्वमन्त्रतः उपासते इति वा, वेद इति वा पदमनुवर्त्य, इति शब्दं कर्तृवाचकब्रह्मोपासकपरशब्दं
च प्रपूर्य इत्युपासते इति वा, इति वेद इति वा अमीषां मन्त्राणां अन्वयो बोध्यः। एतेषां
मन्त्राणां प्राक् प्रवृत्तोपदेष्ट्रुपदेशरूपत्वाभावेन प्रकारान्तरेण अन्वयासम्भवात्
। एते हि मन्त्रा उपास्यपरमपुरुषोद्देश्यकोपासककर्तृकप्रार्थनापराः ।
(प्रकृतेः हिरण्मयपात्रत्वादिरूपणम्)
" पञ्चदशमन्त्रस्यास्य पदविवरणम्- हिरण्मयेन पात्रेण -"
हिरण्यविकारभूततिरोधायकपात्रेण, तद्वत् स्पृहणीयता
स्वप्राप्तीच्छारूपरागान्धताहेतु- त्वलक्षणसादृश्येन हेतुना
प्रकृत्याद्यपरपर्यायमायामयभोग्यभोगोपकरणभोगस्थाना-
त्मकाचित्तत्व - तद्वियुक्तविशुद्धज्ञानानन्दलक्षणचित्तत्त्वात्मकवस्तुजातस्य पुरःप्रस्फु-
टस्फूर्तिकस्य चिदचिच्छरीरकपरमात्मानं प्रति बाह्यावरणदलभूतस्य हिरण्मयपात्रत्वेन
निगीर्याध्यवसानमर्यादयाऽयं निर्देशः, यथा -
" पश्य नीलोत्पलद्वन्द्वान्निस्सरन्ति शिताश्शराः (चन्द्रा-13)"
इत्यादिषु सादृश्यनिमित्तेन नीलोत्पलत्वशरत्वादिना नेत्रदृष्ट््यादिनिर्देशः । सत्यस्य-
परस्यब्रहह्मणः तव मुखम् - प्राप्तिद्वारम्, भगवत्प्राप्तिहेतुज्ञानमार्गलक्षणम्, सद्दर्शनमिति
यावत् । अपिहितम् - आच्छादितम्।
" एष तु वा अतिवदति यस्सत्येनातिवदति (छां.उ.7-16-1) तस्य ह वा एतस्य ब्रह्मणो नाम सत्यमिति"
(छां.उ.8-3-4) तस्योपनिषत् सत्यस्य सत्यमिति प्राणा वै सत्यं तेषामेष सत्यम् (बृ.उ.4-1-20)
अथ नामधेयं सत्यस्य सत्यमिति प्राणा वै सत्यं तेषामेष
सत्यम्(बृ.उ.4-3-6) इत्यादिश्रुतिभिः सत्यशब्दस्य
परब्रह्मनामत्वाऽवगमात्, जीवात्मन्यपि प्रयोगसन्वेऽपि ततोऽपि परब्रह्मण्येव मुख्यत्वाऽवगमात्,
औचित्यात्, मुख्यातिक्रमस्य अन्याय्यत्वाच्च अत्रत्यसत्यशब्दः परमात्मपरएव
बाह्यदलभूताचित्तत्वचित्तत्वनिबन्धनैश्वर्यकैवल्यलक्षणनानाविधार्वाचीनपुरुषार्थरागा-कृष्यमाणच
ित्तानालोकानांतादृशार्वाचीनपुरुषार्थहेत्वसत्यधर्मभूतज्ञानमार्गलक्षणसद्दर्शनमार्गेण–
सर्वान्तरत्मतत्त्वभूतभगवत्प्राप्तिलक्षणपरमपुरुषार्थहेतुसत्यधर्मभूतज्ञानमार्ग-
लक्षणषसद्दर्शनप्रवेशप्रसंग एव प्रतिरुद्धाऽवकाशो वर्तत इति भावः ।
प्रसिद्धानि हि भगवत्प्राप्तिहेतुसद्दर्शनप्रतिरोधीनि
बाह्यादर्शनानि बहूनि । भगवत्कटाक्षमन्तरेण
बाह्यदर्शनरागनिवृत्तिपूर्वकसद्दर्शनप्रवृत्तेरसम्भावितत्वेन तदर्थं स एव प्रार्थ्यते ।
" हे पूषन् - आदित्यशरीरक तन्मण्डलान्तर्वर्तिभगवन् !"
अस्या विद्याया अन्तरादित्यविद्याविशेषरूपतया
तन्मण्डलान्तर्वर्तिभगवतः सम्बोधनमिदम्, उत्तरमन्त्रे व्यूहरश्मीन् समूहतेजः (ई.उ.मा.पा.16)
इत्यादिभिरन्तरादित्यविद्या- लिंगाऽवगमात्, माध्यन्दिनपाठेऽस्मिन्नेव मन्त्रे योऽसावादित्ये
पुरुषः (ई.उ.मा.पा.16) इति स्पप्टमेव श्रवणाच्च । शास्त्रदृष्ट््या तूपदेशो वामदेववत्
(ब्र.सू.1-1-31) इति सूत्रोक्तन्यायेन शरीरवाचकानां
शरीरिण्यपि शक्तिसद््भावात् सूर्यवाचकपूषशब्दस्य
इह तच्छरीरकपरमात्मपरत्वम् इत्यवधेयम् । त्वं सत्यधर्माय
दृष्टये - त्वत्प्राप्तिलक्षणपरमपुरुषार्थहेतुभगवद्धर्मरूपसद्दर्शनाय,
अस्माकं समीचीनदर्शनप्रवृत्तिसिद्धय इति यावत् । तत् यथोक्तसद्दर्शनलक्षणं भगवत्प्राप्तिद्वारम्,
अपावृणु - अपगततिरोधानं कुरु, असद्दर्शनप्रवृत्तिहेतुरागलक्षणं सद्दर्शनावरणं दूरीकुरु
इति यावत् इति बोध्यम् ।
" भगवत्प्राप्तिविरोधिबाह्यविषयनिवृत्तिः भगवत्प्राप्तिज्ञानमार्गप्रवृत्तिश्चेतिउभयमपि"
भगवदेकायत्तम् इत्यत एव तदर्थं भगवानेव अत्र प्रार्थ्यते । तदुक्तं भगवतैव -
दैवी ह्येषा गुणमयी मम माया दुरत्यया ।
मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते ।।(भ.गी.7-14) इति ।
तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम् ।
ददामि बुद्धियोगं तं येन मामुपयन्ति ते ।। (भ.गी.10-10) इति च ।
" अन्येषां दर्शनानाम् अल्पास्थिरप्रयोजनान्तरेष्वेव परमप्रयोजनत्व- बुद्धिरूपत्वात्"
वस्तुतः तत्र परमप्रयोजनत्वाभावाच्च असत्यधर्मरूपता ; भगवत्प्राप्तेरेव वस्तुतः परमपुरुषार्थरूपतया
तत्र तथात्वबुद्धिरूपस्य भागवतदर्शनस्यैव सत्यधर्मरूपता ;
यद्वा दर्शनान्तराणां प्रयोजनान्तरपर्यवसायिनां
भगवत्प्राप्त्यपर्यवसायित्वाद्यसत्यधर्मता ; भागवतदर्शनस्यैव
सत्यस्य धर्मः इति व्युत्पत्त्यासत्यशब्दवाच्यभगवत्स
म्बन्धितत्प्राप्तिरूपश्रेयस्साधनवाचिसत्यधर्मशब्दवाच्यता
च इत्यवधेयम् । माध्यन्दिनपाठसिद्धैतन्मन्त्रोत्तरार्धविवरणम्
उत्तरमन्त्र- विवरणदशायां करिष्यते ।।