१४

चतुर्दशो मन्त्रः
सम्भूतिं च विनाशं च यस्तद्वेदोभयँ सह ।
विनाशेन मृत्युं तीर्त्वा सम्भूत्याऽमृतमश्नुते ।।14।।
(दम्भादिविनाशांगकसम्भूत्या अमृतत्वप्राप्तिः)
B.14
रं.भा.-इमं मन्त्रम् एकादशमन्त्रतया माध्यन्दिनाः पठन्ति । काण्वास्तु चतुर्दशमन्त्रतया
। अस्य मन्त्रस्य पदविवरणम् - यः - पुरुषः, सम्भूतिं च - सम्भूत्युपासनफलं विग्रगपरिग्रहं
च, विनाशं च - विग्रहपरिग्रहनिवृत्तिलक्षणाम् असम्भूत्युपासनफलभूताम् असम्भूतिं च,
तदुभयं, सह- समुच्चयेन, वेद - अवान्तरफलत्वेन प्राप्यतया उपासते ; स इति शेषः । सः -
पुरुषः । विनाशेन - असम्बूत्युपासनसिद्धकर्माधीनप्राकृतविग्रहयोग्यतानिवृत्त््या, मृत्युम्

  • ब्रह्म - प्राप्तिप्रतिबन्धकं प्रकृतिसम्बन्धं, तीर्त्वा - निश्शेषमतिलंघ््य । सम्भूत्या
  • सम्भूत्युपासनाधीनकर्मानधीनाप्राकृतविग्रहपरिग्रहयोग्यतासिद्धया, अमृतम् - परमपुरुषार्थरूपं
    परं ब्रह्म, अश्नुते - अनुभवति - इति ।
    (सम्भूत्यसम्भूत्युभयोद्देश्यकमेव उपासनमावश्यकम्)
    " परब्रह्मानुभवस्य तदीयगुणानुभवजनितानवधिकातिशयप्रीतिकारिता-"
    शेषावस्थोचिताशेषशेषतैकरतिरूपनित्यकैकर्यप्राप्तिपर्यवसायिनो
    विग्रहपरिग्रहम् अन्तरेणासम्भवेन केवलासम्भूतिप्राप्त्युद्देश्यकोपासने च
    सामान्यतोऽशरीरत्वस्यैव
    सिद्ध्या कैवल्यपुरुषार्थ एव पर्तवसानाद्विग्रहपरिग्रहयोग्यताया एव
    विलयेन तदर्थं सम्भूत्युपासनस्याप्यावश्यकत्वात्,
    सम्भूत्यसम्भूत्युपासनयोर्द्वयोरप्यनुष्ठाने च असम्भूत्युपासनस्य सम्भूत्युपासनाविरोधाय
    दुःखहेतुतया प्राक्परिचित- कर्माधीनप्राकृतविग्रहपरिग्रहयोग्यताविलय
    एव पर्यवसानसम्भवात्, सम्भूत्युपासनस्य
    असम्भूत्युपासनाविरोधाय कर्माधीनप्राक्परिचितदुःखहेतुप्राकृतशरीरविलक्षणाप्राकृत-
    दुःखादिदोषगन्धानर्हदिव्यविग्रहपरिग्रहयोग्यतासिद्धावेवपर्यवसन-सम्भवाच्च
    अस्थिरत्वाल्पत्वादिदोषसंभेन्नैश्वर्यकैवल्यपुरुषार्थपर्यवसानमन्तरेण भगवत्प्राप्तिरूप-
    परमपुरुषार्थलक्षणमोक्ष एव पर्यवसानं ब्रह्मविदस्सम्भवति ; अतस्सम्भूत्यसम्भूत्युभयोद्देश्यकमेव
    उपासनमावश्यकम् इति भावः ।
    (अशरीरत्व- सशरूरत्वश्रुत्योः अविरोधः)
    भगवत्प्राप्तिलक्षणपरमपुरुषार्थरूपपरममोक्षभागिनां
    कर्मानधीनैच्छिकानेकविग्र- हपरिग्रहयोग्यताऽस्तीति
    तु - स एकधा भवति त्रिधा भवति पंचधा (छां.उ.7-26-2) इत्यादिश्रुतिसिद्धम् । अत एव च
  • सूत्रकारेणापि चतुर्थोध्याय- चतुर्थपादे अभावाधिकरणे
    मुक्तस्य संकल्पमात्रतः शरीरेन्द्रियादिपरिग्रहतदभावौ
    भवत इति - कर्मनिमित्तिशरीरस्यैव प्रियाप्रियहेतुत्वादिच्छाधीनशरीरस्य तदभावाच्च न दुःखगन्धप्रसंग
    इति ; एवं च सति मुक्तस्य आत्तो वै सशरीरः प्रियाप्रियाभ्याम् । न हवै सशरीरस्य सतः
    प्रियाप्रिययोरपहतिरस्ति । अशरीरं वावसन्तं न प्रियाप्रिये स्पृशतः (छां.उ.18-12-1)
    इत्यादिः अशरीरत्वप्रतिपादनपरा श्रुतिः कर्मनिमित्त- शरीराभावपरा; स एकधा भवति त्रिधा
    भवति पञ्चधा (छां.उ.7-26-2) इत्यादिः सशरीरत्वप्रतिपादनपरा श्रुतिः
    कर्मानधीनसंकल्पमात्राधीनविग्रहपरा
    ; अतो न परस्परविरोध इति च राद्धान्तितम्। तस्मात् भगवत्प्राप्तिलक्षणपरममोक्षनिष्ठस्य
    सम्भूत्यसम्भूत्युभयोद्देश्यकमेवोपासनम् आवाश्यकमिति श्रुतेः अभिप्रायः ।
    (कामचारश्रुतिनिर्वाहः)
    यद्यापि - तस्य सर्वेषु लोकेषु कामचारो भवति (छां.उ.7-25-2) इत्यादि श्रुतिभिः
    प्राकृतलोकेष्वपि मुक्तानां
    कामचारप्रतिपादनात् साधारणयोगिमात्रगतपरका- यप्रवेशादिशक्तेः सर्वमाप्नोति सर्वशः (छां.उ.7-26-2)
    इति श्रुतिबलेन तेषामपि दुरपहनवतया कर्माधीनपरकीयप्राकृतशरीरप्रवेशस्यापीच्छया कदाचित्
    सम्भवेन कर्माधीनप्राकृतशरीरसम्बन्धाभावपर्यवसितापि असम्भूतिः तेषां दुरुपपादा । तथापि
    तादृशशरीरसम्बन्धस्य तेषाम् इच्छामात्राधीनतया तत्प्रयोज्यकर्माधीनफलभोगस्य तेषामसम्भवेन
    स्वप्रयोज्यकर्माधीनफलभोगाश्रयत्वसम्बन्धेन शरीरसम्बन्धाभावरूपा हि असम्भूतिः तेषां
    सूपपादैव इति नोक्तानुपपत्तिः इत्यवधेयम् ।
    (असम्भूतेः प्राकृतशरीरपरिग्रहनिवृत्तिरूपत्वम्)
    सिद्धान्ते कपालत्वावस्थायाः प्राक्् स्थितघटत्वावस्थानिवृत्तिरूपाया
    एव तद््ध्वंसरूपत्वांगीकारेण
    अतिरिक्तध्वंसाख्यपदार्थस्यैव अनंगीकारात् असम्भूतेरपि
    प्राक्स्थितप्राकृतशरीरपरिग्रहरूपसम्भूत्यवस्थानिवृत्तिरूपत्वेन
    तद्विनाशरूपत्वादेव विनाशशब्देन तन्निर्देशः ।
    (श्रीशङ्करव्याख्यानुपपत्तिप्रदर्शनम्)
    यत्पुनरत्र सम्भूत्यसम्भत्युपासनयोर्व्याकृताव्याकृतलक्षणप्रकृतितत्त्वोपासनपरं
    शांकरं व्याख्यानम् ; तदसमंजसम् - ईट््छब्दितस्य परस्य
    ब्रह्मणः स्वेतरसर्वचेतनाचेतनविलक्षणत्वसर्वात्मकत्वादिप्रतिपादनेन
    सर्वोत्कृष्टत्वं प्रतिपाद्य मुमुक्षोस्तदुपासनमेव कर्तव्यं नान्यस्य इति प्रतिपादनपरतया
    ब्रह्मविद्यैकपरेऽस्मिन् प्रकरणे मध्ये पूर्वोत्तरग्रन्थसंगतिमन्तरेणैव
    तद्विरुद्धार्वाचीनफलहेतुव्याकृताव्याकृत-
    लक्षणप्रकृतितत्त्वोपासनविधानस्य प्रसंगलेशाभावात् ।
    किञ्च - अस्मिन् प्रकरणे सम्भूत्यसम्भूत्युपासनयोः व्यस्तयोः प्रत्येकमनुष्ठितयोः
    अनिष्टफलाभिधानपूर्वकं समुच्चयेन तयोर्द्वयोः अनुष्टानावश्यकतां प्रदर्श्य तथाऽनुष्ठाने
    मृत्युतरणपूर्वकामृतप्राप्तिलक्षणं फलं सिद्ध्यतीत्यभिधीयत इत्यवगम्यते । इदंच शंकरकृतव्याख्याने
    संगतं न भवति - यतः तेन असम्भूत्युपासनस्य अव्याकृतप्रकृतितत्त्वोपासनरूपस्य प्रकृतिलयात्मकम्
    अमृतशब्दितं फलमिति सम्भूत्युपासनस्य व्याकृतप्रकृतितत्त्वोपासनरूपस्य
    कार्यब्रह्मोपासनपर्यवसन्नस्य
    अणिमाद्यैश्वर्यं फलमिति - तदुभयमपि अमुमुक्षुसंसारिकांक्षितफलशेषरूपमेवेति च अभिधीयते
    । एवं सति हि प्रत्येकं क्रियमाणयोः एतयोः उपासनयोः तत्तत्संसार्यधिकारिकांक्षिफलविशेषसिद्धिरेव
    भवतीति तयोः प्रत्येकं कृतयोरनिष्टफलावाप्त्यभिधानम् - अन्धं तमः प्रविशन्ति(ई.उ.12)
    इत्यादिना कृतं नोपपद्यते ।
    (शाङ्करमते सम्भूत्यसम्भूत्योस्समुच्चयेन अनुष्ठानानुपपत्तिः)
    एवं समुच्चयेन तयोः उभयोरुपासनयोः अनुष्ठानविधानमपि न
    संगच्छते। अणिमाद्यैश्वर्यप्राप्तिप्रकृतिलयलक्षणयोः
    फलयोः परस्परविरुद्धत्वेन युगपत्साधनासम्भवात्, प्रत्युत प्रत्येकमेवानुष्ठिताभ्यां
    ताभ्यामुपासनाभ्यां क्रमेणैव तयोः फलयोः साधनसम्भवेन तयोरुपासनयोः प्रत्येकानुष्ठाने
    अनिष्टफलावाप्त्यभिधानेन निन्दनपूर्वकं समुच्चयेन युगपदनुष्ठानविधानस्य उपपत्तिलेशानुपलम्भाच्च ।
    न च समुच्चयेनानुष्ठितयोः तयोरुपासनयोःअन्यदेव किंचित् अविरुद्धं फलमुच्यत इति
    तेनाभिधीयते, येन प्रत्येकानुष्ठाननिन्दापूर्वकं समुच्चयेन द्वयोरुपासनयोर्विधानं कथंचिदुपपद्येत
    । उच्यते च प्रत्युत तेन - मृत्युं तीर्त्वा इत्यस्य
    अणिमाद्यैश्वर्यप्राप्तिलक्षणफलपर्यवसन्नानैश्वर्याधर्मकामादिलक्षणमृत्युतरण-
    परत्वम् ।अमृतमश्नुते इत्यस्य प्रकृतिलयलक्षणफलपरत्वं च व्याकुर्वता समुच्चयेन अनुष्ठितयोरपि
    तयोरुपासनयोः प्रत्येकानुष्ठिततत्साध्यफलद्वयप्राप्तिप्रतिपादनपरत्वमेव अस्याश्श्रुतेः
    । तच्च असम्बद्धं - परस्परविरुद्धयोर्द्वयोः फलयोः युगपत्प्राप्त्यसम्भवात्, क्रमेणैव
    तत्प्राप्तेर्विवक्षितत्वे च तयोरुपासनयोः
    प्रत्येकानुष्ठानदूषणपूर्वकं समुच्चयेन युगपदनुष्ठानविधानानुपपत्तेश्च ।
    एवं मुमुक्षुविषयपरविद्याप्रकरणेऽस्मिन्- मृत्युं तीर्त्वा इत्यनेन प्रतिपन्नस्य
    मृत्युतरणस्य संसारतरणरुपताम् अमृतमश्नुते इत्यनेन
    प्रतिपन्नायाः अमृतप्राप्तेर्ब्रह्मप्राप्तिरूपतां
    च स्वरसतः प्रतीयमानां विहाय मध्ये संगतिलेशविधुरपबुभुक्षूपासनप्रसंगं स्वैरं परिकल्प्य
    तदानुगुण्येन मृत्युतरणामृतप्राप्त्योः सांसारिकफलविशेषरूपाणिमाद्यैश्वर्यप्रकृतिलयरूपतावर्णनं
    च असमंजसमेव । तत्रापि प्रकृतिलयस्य अमृतशब्दार्थतावर्णनं सुतराम् असमंजसम्,
    मरणाभावपरामृतशब्देन तद््बोधनासम्भवात्, उपासनविशेषेण प्रकृतिलीनानामपि विनैव उपासनविशेषं
    कालवशान्महाप्रलये प्रकृतिनिर्लीनवदेव पुनःपुनःस्सृष्टिषु
    यावत्प्रकृतिसम्बन्धं जननमरणाद्यवस्थाया दुर्वारत्वात् ।
    एवं - सम्भूतिं च विनाशं च इत्यत्र - असम्भूतेः
    म्भूतिनिवृत्तिरूपायाः सम्भूतिविनाशरूपतासम्भवेन
    विनाशशब्दप्रतिपाद्यतासम्भवस्य प्रागुपपादितत्वेन विनाशशब्दप्रतिपाद्यतायामित्थं स्वरसतः
    सम्भवन्त्यां प्राकरणिकनिर्देशस्वभावतोऽपि स्वरसतः प्राप्तायां तदसम्भवम् मत्वा विनाशशब्दस्य
    विनाशधर्मिपरत्वेन सम्भूतिपरतायाः सम्भूतिशब्दस्य छान्दसाकारलोपकल्पनेन असम्भूतिपरतायाश्च
    प्रकरणस्वरसविरूद्धाया वर्णनमपि अव्युत्पन्नकृत्यमेव । तस्मात् सर्वथैव असम्बद्धम्
    अत्रत्यशांकरव्याख्यानम्।
    (व्याख्यान्तराणामपि असंगतिः)
    एतेन - अत्र मन्त्रत्रये सम्भूतिशब्दः - एतमितः प्रेत्याभिसम्भवितास्मि (छां.उ.3.14.4)
    धूत्वा शरीरमकृतं कृतात्मा ब्रह्मलोकमभिसम्भवामि (छां .उ8.13.1) इत्यादिष्विव ब्रह्मप्राप्तिपरः
    ; असम्भूतिशब्दस्तत्स्थाने तत्समानार्थपरतया प्रयुक्तो
    विनाशशब्दश्च ब्रह्मप्राप्तिप्रत्यासन्नतत्प्रतिबन्धकविनाशपरः।
    यद्वा विनाशेन मृत्युं तीर्त्वा इति पूर्वोक्तसरूपशब्दे विरूपार्थपरिहाराय विनाशशब्देन
    तत्समानस्थानप्रयुक्तेन असम्भूतिशब्देन च मानदम्भादीनां हिंसास्तेयादीनां बहिर्मुखेन्द्रियवृत्तीनां
    च समाधिविरोधिपापहेतूनां विनाशो विवक्षितः, सम्भूतिशब्देन ब्रह्मसमाधिनिष्पत्तिः विवक्षिता
    इत्यभिप्रायेण वेदान्ताचार्यैस्तदनुयायिभिः अन्यैश्च कैश्चित्कृतमपि व्याख्यानम् अयुक्तमेवेति
    सिद्धम् । यथोक्तरीत्या सम्भूत्यसम्भूतिशब्दयोर्विग्रहपरिग्रहतन्निवृत्तिस्वारसिकयोः
    तत्परतयैव निर्वाहे ब्रह्मप्राप्तितत्प्रतिबन्धकविनाशपरतायाः
    समाधिनिष्पत्तितत्प्रतिबन्धकविनाशपरतायाश्च
    महता क्लेशेन बलात्कल्पनस्य अनावश्यकत्वात् । अभिसम्भवितास्मि अभिसम्भवामि इत्यादिषु
    अभ्युपसर्गयोगबलात् सकर्मकेण धातुना अभिसम्भूतेः
    प्रप्तिरूपायाः स्वरसतो लाभसम्भवेऽपि तद्विधुरेण कर्मवाचिपदसमाभिव्याहारविधुरेण च स्वरसतः
    अकर्मकेण धातुना प्रतिपद्यमानायास्सम्भूतेः प्राप्तिरूपता हि 1न
    स्वरसतस्सुवचा । समाधिनिष्पत्तिरूपता
    तु सुतरामेव न सुवचा । एवं सम्भूतिशब्दस्य ब्रह्मप्राप्तिपरतायाः समाधिनिष्पत्तिपरताया
    वा कथंचित् क्लिष्टकल्पनया वर्णनेऽपि असम्भूतिशब्दस्य सम्भूत्यभावपरताया एव सम्भवदुक्तिकतया
    सम्भूतिप्रतिबन्धकविनाशपरता हि सुतरामेव दुर्वचा । एवम् असम्भूत्युपासनस्य सम्भूत्युपासनस्य
    च तत्तत्प्राप्त्युद्देश्यकानुसन्धानरूपस्य प्रत्येकं करणे - अन्धं तमः प्रविशन्ति (ई.उ.9)
    इत्यादिमन्त्रे महानर्थप्रतिपादनं च असम्बद्धम् ।
    (स्वव्याख्याने आसंकापरिहारौ)
    " न च - भवदीयव्याख्यानेऽपि - सम्भूतिशब्दस्य अप्राकृतविग्रहपरिग्रहपरताया असम्भूतिशब्दस्य"
    प्राकृतविग्रहपरिग्रहाभावपरतायाश्च स्वीकारे शब्दास्वारसिकतापत्तिर्दुर्वारा ।
    सम्भूतिशब्दप्रतिपन्नार्थसामान्याभावस्यैव
    असम्भूतिशब्देन स्वरसतो बोधसम्भवेन प्राकृतविग्रहपरिग्रहाभाव- लक्षणविशेषाभावबोधासम्भवात्;
    एवं सम्भूत्यसंभूत्युपासनयोः दिव्यविग्रह- परिग्रहप्राकृतविग्रहपरिग्रहाभावफलोद्देश्यकोपासनरूपयोः
    प्रत्येकानुष्ठाने महानर्थ- वर्णनानुपपत्तिश्च भवतोऽपि तदवस्थैवेति वाच्यम्; सम्भूत्यसम्भूतिशब्द-
    योर्विग्रहपरिग्रहतदभावपरतायाः- स्वारसिकत्वेनात्र समुच्चते परस्पराविरोधाय सम्भूतिशब्दस्य
    एकविधविग्रहपरिग्रहपरताम्, असम्भूतिशब्दस्य एकविधविग्रहपरि- ग्रहाभावपरतांच स्वीकृत्य
    अस्य मन्त्रस्य समुच्चयेनोभयोपासनपरत्वस्वीकारे स्वार- स्यभंगाभावात् । अजायमानो बहुधा
    विजायते (तै.आर.3-13) इत्यादिषु समुच्चयेन प्रतियोगितदभावोभयप्रतिपादनपरप्रकरणेषु सर्वत्र
    अविरोधाय सामान्यशब्दस्य विशेषपरताया एव स्वीकारदर्शनात्, अत्र सम्भूत्यसम्भूत्युपासनयोः
    सामान्यतो विग्रहपरिग्रहतदभावोद्देश्यकयोः व्यस्तयोः प्रत्येकमनुश्ठान एव महानर्थप्रतिपादनस्य
    अन्धं तमः प्रविशन्ति (ई.उ.9) इत्यादि- मन्त्रविवक्षित्वेन अनुपपत्तिलेशाभावाच्च ।
    सामान्यतो विग्रहपरिग्रहस्य केवलस्य प्राप्तयतया अनुसन्धानेऽपि
    पुनः संसारप्राप्त्यादिलक्षणमहानर्थः
    प्राप्नोति, सामान्यतो विग्रहपरिग्रहाभावस्य केवलस्य प्राप्यतया
    अनुसन्धानेऽपि पश्चाद्यावदात्मभाविमहानर्थरूपपकैवल्यपुरुषार्थ
    एव प्राप्नोति; अतः कर्माधीनप्राकृतशरीरलक्षणैकविधविग्रहपरिग्रहाभावस्य
    कर्मानधीनाप्राकृतशरीरलक्षणैकविधशरीरपरिग्रहस्य
    च प्राप्यतयाऽनुसन्धाने कर्माधीनप्रकृतिसम्बन्धलक्षणमृत्युतरणं
    दिव्यविग्रहपरिग्रहसापेक्षभगवत्प्राप्तिलक्षण-
    परमपुरुषार्थश्चेत्युभयं सिद्धयतीत्येव वेदपुरुषोपदेशस्य इहाभिमतत्वात् नात्र कश्चिद्विरोधः ।
    (सम्भूत्यसम्भूत्योरर्थान्तरवर्णनम्)
    " यद्वा - अत्र सम्भूतिशब्दस्य सामान्यतो विग्रहपरिग्रहमात्रपरत्वेऽपि"
    न विरोधः, असम्भूतिशब्दस्य
    स्वप्रयोज्यकर्मफलभोगाश्रयत्वसम्बन्धेन विग्रहपरिग्रहसामान्याभावपरत्वसम्भवेन कर्मा
    धीनविग्रहपरिग्रहमात्राभावतदधीन-
    विग्रहपरिग्रहयोरेव सम्भूत्यसम्भूत्युपासनयोः समुच्चितयोः फलतयाः पर्यवसानसम्भवात्,
    व्यस्तयोः तयोः संसारकैवल्ययोरेव पर्यवसानसम्भवाच्च ।
    (शङ्करमतानुयायि - महीधरमतनिरासः)
    " एवं शंकरमतानुयायिना महीधरेण अन्धं तमः प्रविशन्ति"
    येऽसम्भूतिमुपासते (ई.उ.9) इत्यादिमन्त्रत्रयस्य
    शंकरव्याख्याने किंचिदतृप्तिं भजमानेन कृतम् असम्भूतिम् इत्यादेः बौद्धादिमतनिन्दापरं
    व्याख्यानं तु सुतरामेवासम्बद्धम् । अस्य प्रकरणस्य प्रत्येकं कृतयोस्सम्भूत्यसम्भूत्युपासनयोः
    व्यस्तयोः अनर्थहेतुतायाः, सहकृतयोः समस्तयोरभ्युदयहेतुतायाश्च प्रतिपादने तात्पर्यस्य
    प्रस्फुटत्वेन अन्धं तमः प्रविशन्ति येऽसम्भूतिमुपासते (ई.उ.9) इत्यादिमन्त्रे असम्भूत्युपासनस्य
    मृतस्य पुनस्सम्भव एव नास्ति, अतश्शरीरान्त एवास्माकं मुक्तिः इत्येवंभूतबौद्धोपासनरूपतायाः
    सम्भूत्युपासनरूपतायाः सम्भूत्युपासनस्य कर्मानुष्ठानलेशविधुरकेवलात्मोपासनरूपतायाः
  • सम्भूतिं च विनाशं च इत्यादिमन्त्रे
  • सम्भूतिशब्दस्य - असम्भूतिशब्दस्थाने तत्पर्यायत्त्वाभिप्रायेण प्रयुक्तस्य विनाशशब्दस्य
    च क्रमेण परब्रह्मशरीरपरतायाश्च वर्णनस्य प्रकरणस्वभावानभिज्ञाव्युत्पन्नकृत्यमात्ररूपताया
    आपण्डितपामरम् अतिस्फुटत्वात् ।
    " तथा च शंकरकृतं तदनुयायिकृतं च व्याख्यानं, वेदान्ताचार्यकृतं तदनुयायिकृतं च व्याख्यानं"
    यथोक्तानुपपत्तिभ्यः श्रुत्यक्षरस्वारस्याननुगुणत्वाच्च अनुपादेयमेव इति सिद्धम् ।।