त्रयोदशो मन्त्रः
अन्यदेवाहुस्सम्भवात् अन्यदाहुरसम्भवात् ।
इति शुश्रुम धीराणां ये नस्तद्वयाचचक्षिरे ।। 13।।
B.13
श्रीरङ्गाचार्यभाष्यम्
(मन्त्रविवरणम्)
इमं मन्त्रं दशममन्त्रतया माध्यन्दिनाः पठन्ति । व्याचचक्षिरे इति स्थाने विचचक्षिरे इति च ।
(सम्भूत्यसम्भूतिभिन्नस्य मोक्षफलत्वम्)
अस्य त्रयोदशस्य मन्त्रस्य विवरण्म् - सम्भवात् -
प्रागुक्तलक्षणसम्भूत्युद्देश्यकोपासनसाध्यविग्रहपरिग्रहलक्षणावान्तरफलात्,
अन्यदेव- असम्भूत्युपासनावान्तरफलप्रयोज्यकैवल्यलक्षणपरमफलादन्यदेव भोगैश्वर्यलक्षणं
परमं फलम्, आहुः - जायमानं प्रतिपादयन्ति, शास्त्राणीति
शेषः ।असम्भवात् -
प्रागुक्तलक्षणासम्भूत्युद्देश्यकोपासनसाध्यात्यन्तिकविग्रहपरिग्रहनिवृत्तिलक्षंणावान्तरलात्
अन्यदेव - सम्भूत्युपासनावान्तरफलप्रयोज्यभोगैश्वर्यलक्षणपरमफलादन्यदेव केवलात्मानुभवलक्षणं
परमं फलम्, आहुः । धीराणाम्- विद्वदग्रेसराणाम् इति - इत्थंभूतं वचनम्, शुश्रुम - आकर्णयामः
। इहापि लडर्थे लिट् प्राग्वत् । ये - धीराः अस्मदाचार्याः,
नः - अस्माकं, तत्- पृथक्कृतसम्भूत्यसम्भूत्युपासनपरमफलद्वयम्,
व्याचचक्षिरे - व्याख्यातवन्तः । विचचक्षिरे इति पाठेऽप्ययमेवार्थ इति ।
तथा च - सम्भूत्यसम्भूत्योरेकैकमात्रोद्देश्यकोपासनकरणे
द्वयोरुपासनयोः परस्परविलक्षणपुरुषार्थद्वयपर्यवसानेन
परमपुरुषार्थलक्षणैकपुरुषार्थपर्यवसायित्वं न सम्भवति; अतः
पृथगेकैकावान्तरफलस्य प्राप्यतयाऽनुसन्धानं
न कर्तव्यमिति फलितम् ।