द्वादशो मन्त्रः
अन्ध तमः प्रविशन्ति येऽसम्भूतिमुपासते ।
ततो भूय इव ते तमो य उ सम्भूत्याँ रताः ।। 12।।
(सम्भूत्यसम्भूत्योरेकैकस्यानुष्ठाने दोषः)
B.12
श्रीरङ्गाचार्यभाष्यम्
(मन्त्रत्रयस्य अवतारिका)
इमं मन्त्रं नवममन्त्रतया माध्यदिनाः द्वादशमन्त्रतया काण्वाश्च पठन्ति । इतः
पूर्वं प्राप्यपुरुषार्थोपायभूतं कर्मांगकब्रह्मोपासनरूपविद्यालक्षणं परमहितम् अभिहितम्
। इतः परं पुरुषार्थानाम् ऐश्वर्यकैवल्यभगवत्प्राप्तिलक्षणानां त्रैविध्यात्- -
ब्रह्मविदम् ऐश्वर्यकैवल्याभ्यामर्वाचीनपुरुषार्थाभ्याम् अस्थिरत्वाल्पत्वदोषदुष्टाभ्यां
निवर्त्य भगवत्प्राप्तिलक्षणपरमपुरुषार्थे एव प्रवर्तयितुम् इतरपुरुषार्थयोः दोषज्ञापनेन
तन्निष्ठान्विनिन्द्य, परमपुरुषार्थप्रयोजकेतरपुरुषार्थव्यावर्तक अवान्तरफलान्तरानु-
सन्धानमपि विद्याङ्गतया उपादेयमिति प्रतिपाद्यते द्वादशादिभिस्त्रिभिर्मन्त्रैः ।
(प्रत्येकं सम्भूत्यसम्भूत्युपासकानां प्रकृतिसम्बन्धस्यापरिहार्यता)
अत्र द्वादशस्यास्य मन्त्रस्य पदविवरणम् - ये - पुरुषाः, असम्भूतिम्-सम्भूतिस्सम्भवः-तस्याः
निवृत्तिरसम्भूतिः-विग्रहपरिग्रहनिवृत्तिरिति यावत् । ताम् असम्भूतिम् - उत्तरार्धस्थ
एवकारार्थक उकारः प्रागिव अर्थसामर्थ्यात् इहापि सम्बध्यते । असम्भूतिम् उ - एकान्ततो
विग्रहपरिग्रहनिवृत्तिमेव । उपासते - तन्मात्रोद्देश्यकोपासननिष्ठाः भवन्ति इत्यर्थः
। ते - पुरुषाः । अन्धं तमः प्रविशन्ति - गाढमज्ञानं प्रविशन्ति प्रकृष्टमज्ञानमेव प्राप्ता
भवन्तीति यावत् । न ह वै स शरीरस्य सतः प्रियाप्रिययोरपहतिरस्ति अशरीरं वाव सन्तं न
प्रियाप्रिये स्पृशतः (छां.उ.8-12-1) इति श्रुत्यनुरोधात्
अनुभवानुरोधाच्च यावच्छरीरपरिग्रहानुवृत्तिसुखदुःखानुवृत्तिरपरिहार्या,
शरीरपरिग्रहानुवृत्तिश्चयावत्प्रकृति सम्बन्धमपरिहार्येव ।
अत आत्यन्तिकशरीरपरिग्रहनिवृत्तिरेव
मे भवतु इत्यभिसन्धाय असम्भूतिमात्रोद्देश्यकोपासननिष्ठा ये भवन्ति तेषां ताद्रशोपासनेन
कैवल्यपुरुषार्थ एव पर्यवसानेन तस्य च नित्यत्वेन ततःपरं
कदाचिदपि भगवत्प्राप्तिलक्षणपरमपुरुषार्थानवकाशाच्च
तत्प्रतिबन्धकं महदेव तमः ते प्राप्तवन्तो भवन्तीति भावः । ये - पुरुषाः, सम्भूत्याम्
उ - शरीरपरिग्रह एव, रताः- उपादेयत्वबुद्धया सक्ताः -
पुनः पुनर्भोगोपकरणशरीरपरिग्रहोद्देश्यकोपासनैकनिष्ठाः,
ते, ततः- असम्भूत्युद्देश्यकोपासननिष्ठापेक्षया, भूय इव - अत्यन्तमेव
प्रागिव इहापि इवकार एवकारार्थकः । तमः प्रविशन्ति
इत्यन्वयः । तदीयाज्ञानापेक्षयाऽत्यधिकमज्ञानं
प्राप्तवन्तो भवन्त्येव इति यावत् ।
करणकलेबराद्युपकरणाभावे भोग एव न सम्भवति, अनुभवानुरोधात् ।
आनन्दलक्षणो भोग एव च सर्वापेक्षितः, तदर्थमेव च
सर्वेषां प्रवृत्तिदर्शनात् । निर्दुःखमात्रावस्थानं
च नेष्टतमम् । अत आनन्दलक्षणभोगोपकरणदेहादिपरिग्रह एव
मे भवतु इत्यभिसन्धाय सम्भूतिमात्रोद्देश्यकोपासननिष्ठा
ये भवन्ति, तेषां तादृशोपासनेन भोगैश्वर्यलक्षणपुरुषार्थ
एव पर्यवसानेन तस्य च कैवल्यपुरुषार्थादपि
अल्पत्वादस्थिरत्वादवर्जनीयपुनःपुनरागन्तुकदुःखमिश्रत्वाद्् भगवत्प्राप्तिलक्षणपरम-
पुरुषार्थप्रतिबन्धकत्वाविशेषाच्च कैवल्यनिष्ठेभ्योऽपि अत्यन्ताधिकं तमः प्राप्तवन्तो
“भवन्त्येव इति भावः ।। "