एकादशो मन्त्रः
विद्यां चाविद्यां च यस्तद्वेदोभयं सह।
अविद्यया मृत्युं तीर्त्वा विद्ययाऽमृतमश्नुते ।। 11 ।।
B.11
श्रीरङ्गाचार्यभाष्यम्
(पूर्वानुवादेन प्रकृतसंगतिप्रदर्शनम्)
" इमं मन्त्रं काण्वा एकादशमन्त्रतया, माध्यन्दिनाः"
चतुर्दशमन्त्रतया च पठन्ति। अस्यामुपनिषदि
प्रथममन्त्रे विद्यालक्षणं परावरतत्त्वज्ञानं संग्रहेण मुमुक्षोः उपदिश्य ततो द्वितीयमन्त्रे
- कुर्वन्नेवेह कर्माणि (ई.उ.2) इति विद्यांगतया कर्मयोगानुष्ठानमपि आवश्यकमिति संक्षेपतो
दर्शयित्वा ततः तृतीयमन्त्रे प्रथम- द्वितीयमन्त्रोक्तज्ञानकर्मयोगनिष्ठाविहीनानां
विपरीतफलप्राप्तिप्रदर्शनमुखेन
तादृश -निष्यावश्यकतां च दर्शयित्वा ततश्चतुर्थप्रभृति अष्टमपर्यन्तमन्त्रैः प्रथम
मन्त्रोक्तविद्यालक्षणविज्ञाने परावरतत्त्वयाथात्म्यानुसन्धानप्रकारं मोहशोकनिवृत्ति
लक्षणं तदवान्तरफलविशेषं च प्रदर्श्य ततो द्वितीयमन्त्रे संग्रहेणोक्तं विद्यांगतया
कर्मणोऽपि सहानुष्टानावश्यकत्वं सम्यक्् स्थापयितुं नवमदशममन्त्रयोः
विद्या- कर्मणोरेकैकमात्रानुष्ठानं
न कर्तुमर्हम् , विपरीतफलप्रसंगात्, द्वयोरपि फलभेदात्, विद्याकर्मसाध्ययोः द्वयोरपि
फलयोः मुमुक्षोरपेक्षितत्वेन एकमात्रानुष्ठाने तदभिमतासिद्धेश्च इत्युक्तम् ।
(विद्याकर्मणोरंगांगिभावेन अनुष्ठानम्)
" अथ कौ तावन्मुमुक्षोरपेक्षितौ विद्याकर्मसाध्यौ फलभेदौ; तत्र किं किं फलं केन केन साध्यते"
? इत्याशंकां विविच्य तत्प्रतिपादनेन परिहृत्य, तत एव हेतोः
विद्याकर्मणोः साहचर्येण अंगांगिभावेन च अनुष्ठानावश्यकतां स्थापयति एकादशेन मन्त्रेण
विद्यांचाविद्यां च इत्यादिना ।
" अस्य मन्त्रस्य पदविवरणम् - यः -मुमुक्षः । विद्यां च - यथोक्तविज्ञान - विशेषलक्षणां"
ब्रह््मविद्यां च, अविद्यांच - विद्याभिन्नम् अदृष्टफलोपकारकत्वेन तत्सदृशम् अंगतया
तत्प्रत्यासन्नं वर्णाश्रमादिविहितं कर्मयोगं च, तदुभयम्। सह - परस्परसहचरम् । वेद -
जानाति, ज्ञानस्य अनुष्ठानफलत्वात् ज्ञात्वा अंगांगिभावेन सह अनुतिष्ठति इत्यार्थः
। कर्मणां फलाभिसन्धिपूर्वकम् अनुष्ठीयमानानामेव
मोक्षविरोधिफलान्तरहेतुत्वेन विद्याविरोधसम्भवात्,
फलाभिसन्धिं परित्यज्य अनुष्ठीयमानानां तेषां विज्ञानैकहेतुत्वेन विद्याविरोधविरहाच्च,
फलाभिसन्धिं परित्यज्य विद्याविरोधं परिहृत्य अंगांगिभावेन परस्परसाहचर्येण उभयमनुतिष्ठतीति
यावत् । स इति शेषः; यत्तदोर्नित्यसम्बन्धात् । सः - तादृशो मुमुक्षुः । अविद्यया -
यथोक्तलक्षणेन कर्मणा । मृत्युम् - विद्योत्पत्तिविरोधि पुण्यपापरूपं प्राचीनं कर्म
। तीर्त्वा - व्यपोह्म । विद्यया - ब्रह््मविद्यालक्षणेन विज्ञानेन । अमृतम् -ब्रह््म
“। अश्नते - प्राप्नोति इति । "
(विद्याऽविद्याशब्दयोः श्रीभाष्योक्तं अर्थवर्णनम्)
" अत्र अविद्याशब्दस्य कर्मपरता; मृत्युशब्दस्य”
ज्ञानोत्पत्तिविरोधिपुण्यपापरूप- प्राचीनकर्मपरता
; अमृतशब्दस्य ब्रह््मपरता च श्रीभाष्यकारैरेव जिज्ञासाधिकरण- श्रीभाष्ये भाषिता ।
यथोक्तं तत्र अत्राविद्याशब्दाभिहितं वर्णाश्रमविहितं कर्म ; अविद्यया- कर्मणा, मृत्युम्
-ज्ञानोत्पत्तिविरोधि प्राचीनं कर्म, तीर्त्वा - व्यपोह्म, विद्यया - ज्ञानेन, अमृतम्
-ब्रह््म प्राप्नोति इत्यर्थः । मृत्युतरणोपायतया प्रतीताऽविद्या
विद्येतरद्विहितं कर्मैव इत्यादि ।
( विद्याकर्मणोः अंगांगिभावेनाऽनुष्ठानावश्यकता)
" तथा च - मृत्युशब्दितविद्यानिष्पत्तिविरोधिपुण्यपापरूपप्राचीनकर्मनिबर्हणम्"
अविद्याशब्दितवर्णाश्रमविहितकर्मफलम्
। अमृतशब्दितब्रह््मप्राप्तिश्च विद्याफलम् ।
तत्र प्रथमफलमन्तरेण विद्यानिष्पत्त्ययोगात्, तदभावे परमपुरुषार्थभूतब्रह््म-
प्राप्तिलक्षणद्वितीयफलासिद्धेश्च
प्रथमफलसाधनभूतवर्णाश्रमविहितकर्मलक्षणा अविद्या द्वितीयफलसाधनभूतविज्ञानलक्षणा विद्या
च इति, उभयोरपि परस्परविरोधप्रसंगपरिहारपूर्वकम् अंगागिभावेन साहचर्येण अनुष्ठानम् मुमुक्षोः
अवश्यापेक्षितम् इति भावः ।
(कर्मानुष्ठाननिवर्त्यमृत्युस्वरूपनिर्णयः)
न च -
अपि चेदसि पापेभ्यस्सर्वेभ्यः पापकृत्तमः ।
" सर्वं ज्ञानप्लवेनैव वृजिनं सन्तरिष्यसि ।।"
यथैधांसि समिद्धोऽग्निर्भस्मसात्कुरुतेऽर्जुन ।
ज्ञानाग्निस्सर्वकर्माणि भस्मसात्कुरुते तथा ।।
न हि ज्ञानेन सदृशं पवित्रमिह विद्यते । (भ.गी.4-36,37,38)
इति गीताचतुर्थाध्यायवचनैः ज्ञानस्यैव सर्वकर्मनिबर्हणसामर्थ्यावगमात्, तमेव विदित्वाऽतिमृत्युमेति
नान्यः पन्थाः (श्वे.उ.3-8) इति श्रुत्यापि ज्ञानस्यैव मृत्युतरणोपायताप्रतिपत्तेश्च,
मृत्युतरणं कर्मलक्षणाविद्यासाध्यं फलम्, ब्रह्मप्राप्तिस्तु विद्यासाध्यं फलमिति विद्याऽविद्ययोः
व्यवस्थितफलभेदकल्पनम्, ततश्च तयोरंगांगिभावेन साहचर्येण अवश्यानुष्ठेयत्वकथनं च कथं
संगच्छत इति वाच्यम्; विद्यानिष्पत्त्यनन्तरं ब्रह्मप्राप्तिविरोधिसर्वकर्मणां तया निबर्हणसम्भवेऽपि
विद्योत्पत्तिविरोधिप्राचीनकर्मणां स्वयमनिष्पन्नया तया पूर्वमेव निबर्हणायोगेन तन्निबर्हणस्य
दर्शितशास्त्राभिप्रेतत्वासम्भवात्, तन्निबर्हणपूर्वकविद्यानिष्पत्तेः
अनभिसंहितफलानुष्ठितवर्णाश्रमविहितकर्मयोगाधीनतायाः शास्त्रेणैव सिद्धत्वाच्च,
ब्रह्मप्राप्तेर्विद्योत्पत्तिविरोधिप्राचीनकर्मनिबर्हणस्य च विद्याविद्ययोःव्यवस्थित-
फलरूपतायाः तत एव हेतोः तयोः साहचर्येण अनुष्ठेयतायाश्च अभिधाने क्षतिलेशादर्शनात् ।
अत एव - न हि ज्ञानेन सदृशं पवित्रमिह विद्यते
(भ.गी.4-38) इत्युक्त्यनन्तरमेव - तत्स्वयं योगसंसिद्धः कालेनात्मनि विन्दति (भ.गी.4-38)
इति तादृशं ज्ञानं चिरकालानुष्ठितानभिसंहितफलकर्मयोगाधीनविद्यो
-त्पत्तिविरोधिप्राचीनकर्मनिबर्हणरूपसंसिद्धिमानेव विन्दति इत्यभिहितम् ।
" अत एव गीताशास्त्रे अष्टादशाध्यायान्ते वर्णाश्रमप्रतिनियतकर्मणां"
विविच्य प्रतिपादनानन्तरम् अंगांगिभावेन साहित्यसमर्थनम्
" स्वे स्वे कर्मण्यभिरतस्संसिद्धिं लभते नरः ।"
" स्वकर्मनिरतस्सिद्धिं यथा विन्दति तच्छृणु ।। (भ.गी.18-45)"
इत्यादिना ग्रन्थेन अनभिसंहितफलानुष्ठितस्वस्ववर्णाश्रमधर्मलक्षणकर्मयोगस्य विद्योत्पत्तिरूपम्
अर्वाचीनफलं विद्यानिष्पत्तिद्वारा ब्रह्मप्राप्तिलक्षणं परमफलं च प्रति हेतुत्वं प्रतिपादयता
भगवता वासुदेवेनैव विद्याविद्ययोः यथोक्तलक्षणफलभेदहेतुत्वेन अविद्याया अपि परमफलप्रयोजकत्वसद््भावेन
च हेतुना तयोः साहचर्येण अंगांगिभावेन अनुष्ठेयत्वमेव दर्शितम् । एवं श्रीविष्णुपुराणेऽपि -
" इयाज सोऽपि सुबहून् यज्ञान् ज्ञानव्यपाश्रयः ।"
ब्रह्मविद्यामधिष्ठाय तर्तुं मृत्युमविद्यया ।। (वि.पु.6-6-12)
इति वचनेनापि साक्षात् एतन्मन्त्रोपबृम्हणभूतेन अयमर्थस्स्पष्टमभिहितः ।
" अत्र - आगमोक्तब्रह्मज्ञानाश्रयः केशिध्वजो ब्रह्मप्राप्तिहेतुभूतां ब्रङ्मविद्यां"
प्रितिरूपापन्नदर्शनसमानाकारध्रुवानुस्मृतिशब्दितब्रह्मध्यानधारारूपां साध्यत्वेन उद्दिश्य
तत्सिद्धये तद्विरोधिप्राचीनकर्मलक्षणं मृत्युं फलाभिसन्धिरहितवर्णाश्रमविहितकर्मयोग-
लक्षणाविद्यया तर्तुं बहून् यज्ञानकार्षित् इति हि उक्तम् ।
एवम् -
" तपो विद्या च विप्रस्य निश्श्रेयसकरं परम् ।"
" तपसा किल्बिषं हन्ति विद्ययाऽमृतमश्नुते ।। म.स्मृ.12-104)"
इति मनुवचनेनापि साक्षादेतच्छुत्युपबृम्हणभूतेन अयमर्थः उक्तः । एवम् - धर्मेण पापमपनुदति
(तै.ना.144) इति तैत्तिरीयोपनिषदि षष्ठप्रश्ने नारायणे
त्रिषष्ठितमानुवाकगतश्रुत्यैककण्ठ््यात् अविद्यया मृत्युं तीर्त्वा इत्यत्र मृत्युशब्दो
विद्योत्पत्तिविरोधिप्राचीनसुकृतदुष्कृतरूपद्विविधकर्मपरः, मोक्षविरोधित्वाविशेषेण अत्रत्यपापशब्दस्य
उभयपरताया एव विवक्षितत्वात् ।
(कर्मणा पितृलोकः इति बृहदारण्कश्रुतिविरोधपरिहारः)
न च एवं सति - कर्मणा पितृलोको विद्यया देवलोकः (बृ.उ.3-5-16) इति बृहदारण्यकश्रुतिविरोधः,
कर्मविद्ययोः परस्परविरुद्धफलकत्वावगमात् इति -वाच्यम्;-
तादृशश्रुतौ-कर्मशब्दस्य-फलाभिसन्धिसहितकेवलस्वयंप्रधानपुण्यकर्मवि-षयत्वात्,
तावता फलाभिसन्धिरहितकर्मणां परविद्यांगतया तदन्तर्भूतानाम् अनुष्ठाने विरोधाभावात्,
विनियोगपृथक्त्वेन फलाभिसन्धिसहितकर्मणां तद्रहितकर्मणां च फलभेदस्य शास्त्रेणैव सिद्धत्वाच्च ।
" (मुमुक्षोरपि कर्मानुष्ठानविधानप्रपंचनम्) यथा हि - अथ ये"
यज्ञेन दानेन तपसा लोकान् जयन्ति ते धूममभिसम्भवन्ति (बृ.उ.8-2-16) । अथ य इमे ग्राम
इष्टापूर्ते दत्तमित्युपासते ते धूममभिसम्भवन्ति (छां.उ. 5-10-3) इत्यादि श्रुतिभिः -
" त्रैविद्या मां सोमपाः पूतपापा यज्ञैरिष्ट््वा स्वर्गतिं प्रार्थयन्ते ।"
" ते पुण्यमासाद्यसुरेन्द्रलोकमश्नन्ति दिव्यान्दिवि देवभोगान् ।। (भ.गी.9-20)"
इत्यादिस्मृतिभिश्च कर्मणां नश्वरलोकावाप्त्यादिफले विनियोगोऽवगम्यते ; तथैव तमेतं
वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसाऽनाशकेन (बृ.उ. 6-4-22) । धर्मेण
पापमपनुदति (तै.ना. 144) यक्ष्यमाणो ह वै
भागवन्तोऽहमस्मि (छां.उ.5-11-5) इत्यादिश्रुतिभिः, भगवता वासुदेवेन गीतायाम् अष्टादशाध्याये-
" त्याज्यं दोषवदित्येके कर्म प्राहुर्मनीषिणः ।"
" यज्ञदानतपः कर्म न त्याज्यमिति चापरे ।। (भ.गी.18-3)"
इति पक्षद्वयमुपक्षिप्य -
" यज्ञदानतपः कर्म न त्याज्यं कार्यमेव तत् ।"
" यज्ञो दानं तपश्चैव पावनानि मनीषिणाम् ।। (भ.गी.18-5)"
इति मुमुक्षूणामपि विद्याविरोधिपापनिवर्तकत्वरूपपावनत्वेन हेतुना कर्मणाम् अनुष्ठेयत्वपक्षस्यैव
सिद्धान्तितत्वात् ; तृतीयाध्यायेऽपि कर्मणैव हि संसिद्धिमास्थिता जनकादयः (भ.गी.3-20)
इति ज्ञान्यग्रेसरजनकादीनां कर्मानुष्ठानप्रदर्शनात् ; चतुर्थाध्याये -
" एवं ज्ञात्वा कृतं कर्म पूर्वैरपि मुमुक्षुभिः ।"
" कुरु कर्मैव तस्मात्त्वं पूर्वैः पूर्वतरं कृतम् ।। (भ.गी.4-15)"
इति मुमुक्षूणामेव पूर्वेषाम् अनुष्ठानप्रदर्शनपूर्वकं कर्मणोऽवश्यानुष्ठेयत्वविधानात्,
" इयाज सोऽपि सुबहून् यज्ञान् ज्ञानव्यपाश्रयः ।"
" ब्रह्मविद्यामधिष्ठाय तर्तुम्मृत्युमविद्यया ।। (वि.पु.6-6-12)"
इति प्रागुदाहृतविष्णुपुराणवचनात् एवं जातीयाभ्यो अन्याभ्यो बह्वीभ्यः स्मृतिभ्यश्च
कर्मणां पापनिवृत्तिज्ञानोत्पत्त्यादिफलेऽपि विनियोगोऽवगम्यत इति विनियोगपृथक्त्वेन
बुभुक्षोर्मुमुक्षोश्च द्वयोरपि कर्मानुष्ठानं प्राप्तमेव ।
" ( बुभुक्षुमुमुक्षुभेदेन कर्मद्वैविध्यम्)"
" एतान्यपि तु कर्माणि संगं त्यक्तवा फलानि च ।"
" कर्तव्यानीति मे पार्थ निश्चितम्मतमुत्तमम् ।। (भ.गी.18-6)"
" अनिष्टमिष्टं मिश्रं च त्रिविधं कर्मणः फलम् ।"
" भवत्यत्यागिनां प्रेत्य न तु सन्न्यासिनां क्वचित् ।। (भ.गी.18-12)"
" सर्वकर्माण्यपि सदा कुर्वाणो मद्वयपाश्रयः ।"
" मत्प्रसादादवाप्नोति शाश्वतं पदमव्ययम् ।।(भ.गी.18-56)"
" चेतसा सर्वकर्माणि मयि सन्नयस्य मत्परः ।"
" बुद्धियोगमुपाश्रित्य मच्चित्तस्सततं भव ।। (भ.गी.18-57)"
इत्यादिभिर्वचनैः गीताशास्त्रे फलाभिसन्धिपूर्वकम् अनुष्ठितकर्मणामेव
स्वर्गादिफलप्राप्तिः, फलाभिसन्धिरहितमेव त्रिविधत्यागपूर्वकमनुष्ठितकर्मणां
मोक्षविरोधितादृशफलराहित्यं,
परम्परया विरोधिपापनिवृत्तिज्ञानोत्पत्तिद्वारा ब्रह्मप्राप्तावेव पर्यवसानं च इति प्रतिपादयता
भगवता वासुदेवेनैव बुभुक्षुभिरनुष्ठेयानि फलाभिसन्धिसहितकर्माणि, मुमुक्षुभिरनुष्ठेयानि
फलाभिसन्धिविधुरत्रिविधत्यागसहित- कर्माणि इति कर्मद्वैविध्यमपि सम्यगुपपादितम्।
" अतः - कर्मणा पितृलोकः (बृ.उ.3-5-16) इत्यत्र कर्मशब्दः"
फलाभिसन्धिसहितविद्यानन्तःपातिकर्मविषयः
। इह अविद्याशब्दः फलाभिसन्धि- विधुरत्रिविधत्यागसहितविद्यान्तःपातिकर्मविषय
इति न कश्चिद्विरोधगन्धः ।
" (पितृलोकशब्दस्य अन्तरिक्षलोकपरत्वम्)"
अत्र पितृलोकशब्दः - उपलक्षणविधया वा, पितृशब्दविवक्षित- कर्मफलानुभवितृकत्वेन
वा,ब्रह्मलोकपर्यन्तसर्वपुण्यलोकात्मकान्त
रिक्षलोकमात्रपरः अथ त्रयो वाव लोका मनुष्यलोकः पितृलोको देवलोकः (बृ.उ.3-5-16) इति
। इत्येतत्प्रकरणस्थलोकत्रयनिर्देशस्य त्रयो लोका एत एव वागेवायं लोको मनोऽन्तरिक्षलोकः
प्राणोऽसौ लोकः (बृ.उ.3-5-4) इति पूर्वप्रकृतलोकत्रयनिर्देशसमानविषयत्वात्, ईक्षतिकर्माधिकरणे
त्रित्वेन लोकनिर्देशघटकान्तरिक्षलोकशब्दस्य चतुर्मुखलोकपर्यन्तोपरितनसर्वपुण्यलोकप-
रताया भाष्यकारैः निर्णीतत्वाच्च ।
(देवलोकशब्दस्य परमपुरुषलोकपरत्वम्)
" विद्यया देवलोकः (बृ.उ. 3-5-16) इत्यत्र देवलोकशब्दस्तु"
सर्वपुण्यलोकोत्तीर्णपरमपदाख्यनित्यसूर्यावासभूतभगवल्लोकपरः, तद्रघटकदेव-
शब्दस्य यत्र पूर्वे साध्यास्सन्ति देवाः (तै.आर.3-12) इत्युक्तनित्यसूरिलक्षणदे-
वपरत्वात् देवलोको वै लोकानां श्रेष्ठस्तस्माद्विद्यां प्रशंसन्ति (बृ.उ. 1-5-16)
इत्यत्र प्रकरणविवक्षितदेवलोकस्य सर्वलोकश्रेष्ठतायाः,
तत्प्राप्तिहेतुविद्यायाः सर्वप्रशस्ततायाश्च
अभिधानेन ते तं भुक्त्वा स्वर्गलोकं विशालं क्षीणे पुण्ये मर्त्यलोकं
विशन्ति (भ.गी.9-21) । आब्रह्मभुवनाल्लोकाः पुनरावर्तिनोऽर्जुन (भ.गी.8-16) इत्यादिषु
निन्द्यमानपुण्यलोकपरत्वासम्भवात्, ईक्षतिकर्माधिकरणे आथर्वणिक- श्रुतिघटकलोकत्रयनिर्देशे
ब्रह्मलोकशब्दनिर्दिष्टतृतीयलोकस्य परमपुरुषलोकताया निर्णीतत्वेन तत्स्थानीयत्वात् तमेवं
विद्वानमृत इह भवति । नान्यः पन्था अयनाय विद्यते (तै.आर.3-12) इत्यादिनिर्देशवत्
विद्यया देवलोकः (बृ.उ.3-5-16) इति निर्देशस्यापि विद्याया एव परमपदप्राप्तिं प्रति
प्रधानहेतुत्वाभिप्रायकत्वाच्च । एतदभिप्राणैव च इहापि विद्ययाऽमृतमश्नुते इति निर्देशः ।
" न च एतावता कर्मयोगस्य विद्यां प्रति तद्वारा"
परमपुरुषार्थलक्षणमोक्षं प्रति च न प्रयोजकत्वम्
इति कथंचिदपि वक्तुं शक्यम् । तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन
तपसाऽनाशकेन (बृ.उ.6-4-22) इत्यादि प्रागुदाहृतश्रुतिस्मृत्यादिप्रमाणगणविरोधात्, क्रियावानेष
ब्रह्मविदां वरिष्ठः (मुं.3-1-4), यक्ष्यमाणो ह वै भगवन्तोऽहमस्मि (छां.उ. 5-11-5)
,कर्मणैव हि संसिद्विमास्थिता जनकादयः (भ.गी.3-20)
इत्यादि प्रमाणप्रतिपन्नब्रह्म- विदाचारविरोधात्,
सर्वापेक्षा च यज्ञादिश्रुतेरश्ववत् (ब्र.सू.3-4-26), सहकारित्वेन च (ब्र.सू. 3-4-33)
इति सूत्राभ्यां कर्मणा विद्योपकारकत्व-
सहकारित्वप्रतिपादकब्रह्ममीमांसकर्तृभगवद््बादरायणाशयविरोधाच्च
। इत्थं सर्वत एव कर्मणां ब्रह्मविद्योपकारकत्वसहकारित्वयोः प्रतिपन्नत्वादेव इहापि
— कुर्वन्नेवेह कर्माणि (ई.उ.2) इत्यादिना विद्यां च
अविद्यां च इत्यादिना च ब्रह्मविदमुद्दिश्यैव
ब्रह्मविद्याकर्मयोगयोः उभयोः अनुष्ठानं विधीयत इति न कश्चिद्विरोधः ।
" (शङ्करतदनुयायिमतानौचित्यम्)"
" एतेन - ब्रह्मविद्याकर्मयोगयोः परस्परविरुद्धफलकत्वेन तयोरुभयोः अनुष्ठानं ब्रह्मविदो"
न सम्भवति इत्यभिसन्धाय - कुर्वन्नेव इत्यादेः — विद्यां चाविद्यां च इत्यादेश्च
अविद्वदधिकारिपरतया शङ्करतदनुयायिकृतं व्याख्यानमसमंजसमेव ।
दर्शितप्रमाणगणैः कर्मणां विद्योपकारकत्व-
सहकारित्वयोस्सिद्ध्या ब्रह्मविदः कर्मयोगब्रह्मविद्ययोः अनुष्ठानासम्भववादस्य अयुक्तत्वात्,
अविद्वदधिकारिणं प्रति वक्तव्यं कृत्स्नं कर्मयोगं प्रागेव कर्मकाण्डे विविच्याभिधाय
तन्निरूपणसमापनानन्तरं प्रवृत्ते ज्ञानकाण्डेऽस्मिन् पुनः सामान्येन तं प्रति कर्मयोगविधानस्य
निष्प्रयोजनत्वात्, विद्वत्प्रकरणमध्ये अविदुषः प्रसंगस्यैव असम्बद्धत्वात्, अविद्वदधिकारिणं
प्रति अमृतप्राप्तिप्रयोजकविद्याभिधानायोगाच्च । अत्र
विद्यापरत्वम् अस्वीकृत्य अर्वाचीनदेवताज्ञानपरत्वेन
– अमृतमश्नुते इत्यस्य ब्रह्मप्राप्तिपरत्वमस्वीकृत्य अर्वाचीनदेवतात्मभावप्राप्तिपरत्वेन
च शङ्करकृतं व्याख्यानमपि अनुपादेयं, क्षादेतच्छुत्युपबृम्हणभूतप्रमाणविरुद्धत्वात्,
ब्रह्मवित्प्रकरण- विरुद्धत्वाच्च ।
(अमृतशब्दस्य मुक्त्यर्थकत्वस्थापनम्)
इयाज सोऽपि सुबहून् यज्ञान् ज्ञानव्यपाश्रयः ।
ब्रह्मविद्यामधिष्ठाय तर्तुम्मृत्युमविद्यया ।। (वि.पु.6-6-12)
इति विष्णुपुराणवचनम् -
तपो विद्या च विप्रस्य निश्श्रेयसकरं परम् ।
तपसा किल्बिषं हन्ति विद्ययाऽमृतमश्नुते ।। (म.स्मृ.12-104)
इति मनुवचनं च हि साक्षादेतच्छुत्युपबृम्हणभूतम् । अत्र हि ब्रह्मविद्यामधिष्ठाय इत्यनेन
— परं निश्श्रेयसकरम् इत्यनेन च दर्शितश्रुतिगतस्य विद्याशब्दस्य
ब्रह्मप्राप्तिलक्षणपरमपुरुषार्थहेतुपरविद्यापरत्वम् अमृतमश्नुते इति शब्दस्य तादृश
पुरुषार्थपरत्वं च प्रस्फृटमेव व्याख्यातम् । प्रसिद्धश्च उपनिषत्सु ब्रह्मप्राप्तिलक्षण-
परमपुरुषार्थपर एव अमृतप्राप्तिनिर्देशो बहुधा ।
" बृहदारण्यके चतुर्थाध्याये पंचमब्राह्मणे प्रथमादिषु"
चतुर्दशसु खण्डिकासु— एष त आत्माऽन्तर्याम्यमृतः
(बृ.उ.5-7) इति । एवम् अन्यत्रापि च बहुलम् अमृतशब्दो ब्रह्मपर एव प्रयुज्यते । एवम् -
- कर्मणा पितृलोकः (बृ.उ.3-5-16) इति श्रुतौ विद्याशब्दस्य देवतात्मज्ञानपरत्वम्
आश्रित्य तदैककण्ठयेन
अत्रत्याविद्याशब्दस्यापि तत्परत्ववर्णनमपि असंगतम्, तथा सति कर्मविद्ययोः परस्परविरुद्धफलत्वेन
समुच्चयासम्भवाभिप्रायकस्य तत्र तदश्रवणस्य अत्र तत्सम्भवाभिप्रायकस्य तच्छ्रवणस्य च
सन्दर्भविरुद्धत्वात् । कर्मसामान्यस्य
ब्रह्मविद्याविरोधित्वाभिमानेन इह विद्याविद्ययोः समुच्चयश्रवणात् न
इयं श्रुतिः ब्रह्मविद्विषया
किन्तु अविद्विषयैव इत्यभिप्रायेण व्याख्यानमप्यसत्,
फलाभिसन्धिसहितस्य कर्मणो मोक्षविरोधितत्तदर्वाचीनफलहेतुत्वेन ब्रह्मविद्याविरो-
धित्वसम्भवेऽपि फलाभिसन्धिरहितप्रागुक्तलक्षणत्रिविधत्यागसहितकर्मणां प्रत्युत
ब्रह्मविद्यानिष्पत्तिप्रयोजकत्वस्य प्रागुक्तप्रमाणगणसिद्धत्वेन कर्मसामान्यस्य ब्रह्म-
विद्याविरोधिताया असम्भावितत्त्वात् ।
" (शाङ्करदिव्याख्यानस्य निर्युक्तिकत्वम्, प्रकरणविरोधश्च)"
" यदापि – बृहदारण्यकोपनिषदि षष्ठाध्याये किं प्रजया करिष्यामो येषां नोऽयमात्माऽयं"
लोकः (बृ.उ.6-4-22) इति – ब्रह्मविदाम् गार्हस्थ्यत्यागदर्शनं,
श्वेताश्वतरोपनिषदि अत्याश्रमिभ्यः परमं पवित्रं प्रोवाच सम्यगृषिसंघजुष्टम्, (श्वे.उ.6-21)
इति तुर्याश्रमिषु ब्रह्मविद्योपदेशदर्शनं च उपजीव्य तादृशानामेव विद्याधिकारं, तेषु
अग्निहोत्रादिकर्माभावेन कर्मणो विद्यानपेक्षितत्वं च निश्चित्य मुमुक्षोः ब्रह्मविद्यानिष्ठस्य
विद्यासाहचर्येण कर्मणः अनुष्ठानप्रसंगाभावेन विद्याविद्ययोः समुच्चयेन अनुष्ठानविधायिनी
विद्यां चाविद्यां च इत्यादिरियं श्रुतिः अविद्वद्विषयैव इत्यभिप्रायकं शांकरव्याख्यानम् ।
" सन्न्यासिनां गृहस्थानां च ब्रह्मविद्याधिकारः"
" तदप्यसत् — सूत्रकारेण तमेतं वेदानुवचनेन"
ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसाऽनाशकेन
(बृ.उ.6-4-22) इत्यादिश्रुत्या कर्मणां ब्रह्मविद्यासाधनत्वावगमादुपनिषत्सु गृहस्थानामेव
प्रायशो ब्रह्मविद्यानुष्ठानदर्शनाच्च हेतोः तुर्याश्रमिणां विद्यासाधनकर्माभावेन विद्यानधिकारमेव
आशंक्य तेषामपि अग्निहोत्रादिकर्माभावेऽपि स्वाश्रमानुगुणजपतपःप्रभृतिविद्योपकारककर्मसम्भ
वमुपपाद्यकथंचिदेव तेषां विद्याधिकारस्थापनात् गृतहस्थानामेव विद्यायाम् अधिकारस्य मुख्यतया
“अवगमेन तेषां विद्यानधिकारकथायाः कर्मणां विद्यानुपकारकत्वकथायाश्च सुदूरपराहतत्वात् । "
" गृहस्थस्य ब्रह्मविद्याधिकारव्यवस्थापनम्”
अत एव च श्वेताश्वतरोपनिषदि -
" तपः प्रभावाद्देवप्रसादाच्च ब्रह्म ह श्वेताश्वतरोऽथ विद्वान् ।"
" अत्याश्रमिभ्यः परमं पवित्रं प्रोवाच सम्यगृषिसंघजुष्टम् ।। (श्वे.उ.6-21)"
इत्येतन्मन्त्र एव पूर्वार्धे तुर्याश्रमिणोऽपि
श्वेताश्वतरस्य आचार्यस्य उपासनोपकारकतपःप्रभावशब्दितकर्मसहकारेण
तत्सहकृत उपासनप्रीत- भगवत्प्रसादेन च ब्रह्मविद्यानिष्पत्तिप्रतिपादनेन विद्याविद्ययोः
समुच्चयेन अनुष्ठानमेव दर्शितम् । एवं तत्रैव उपरितनमन्त्रे -
वेदान्ते परमं गुह्मं पुरा कल्पे प्रचोदितम् ।
नाप्रशान्ताय दातव्यं नापुत्रायाशिष्याय वा पुनः ।। (श्वे.उ.6-22)
इत्येवंरूपे पुत्राय विद्योपदेशकर्तव्यताप्रतिपादके गृहस्थानामपि प्रत्युत विद्यायामधिकारसद््भाव
एव प्रतिपाद्यते । अत एव छान्दोग्योपनिषदि अष्टमप्रपाठके पंचदशे खण्डे ब्रह्मविद्योपदेशान्ते
गुरोर्लब्धब्रह्मविद्योपदेशस्य अधिकारिणः – कुटुम्बे शुचौ देशे (छां.उ.8-15-1) इत्यारभ्य
स खल्वेवं वर्तयन् यावदायुषं ब्रह्मलोकमभिसम्पद्यते न च पुनरावर्तते न च पुनरावर्तते
(छां.उ.8-15-1) इति यावदायुषं गार्हश्थ्य एव कर्मानुष्ठानेन सहस्थितिः अन्ते अपुनरावृत्तिलक्षण-
ब्रह्मप्राप्तिरूपपरमपुरुषार्थप्राप्तिश्च अभिहिता । इत्थमेव च सूत्रकारेणापि कृत्स्नभावात्
गृहिणोपसंहारः (ब्र.सू.3-4-47) इति सूत्रे सर्वेष्वाश्रमिषु विद्यासद््भावादेव अत्र
गृहस्थाश्रमेण उपसंहारः कृत इति अस्याश्श्रुतेः अर्थो विवृतः ।
" विद्याविद्ययोस्सहानुष्ठानम् अब्रह्मविद्विषयम् इति मतनिरासः"
" तस्मात् ब्रह्मविद्यायाम् आश्रमान्तरनिष्ठानाम् अनधिकारात्"
तुर्याश्रमनिष्ठानामेव अधिकारात् कर्मणां गृहस्थाश्रममात्रविश्रान्तत्वेन तुर्याश्रमनिष्ठानां
तदभावाच्च कर्मणां ब्रह्मविद्यानपेक्षितत्वेन इह विद्याविद्ययोः सहानुष्ठानप्रतिपादनम्
अविद्वद्विषयमेव इति शांकरव्याख्यानमसमंजसं श्रुतिविरुद्धं सूत्रकारानभिमतं च इति सिद्धम्
। प्रागुदाहृतप्रमाणैः विद्यायाः सर्वाश्रमिसाधारण्यस्यैव
अवगमात्, तुर्याश्रमिणां अग्निहोत्रादिकतिपयकर्माभावेऽपि
जपतपःप्रभृतिस्वाश्रमानुगुणकर्मसद््भावात् तत्सहकारेणैव विद्यासिद्ध्यवगमाच्च विद्यायाः
कर्मसाहचर्यण अनुष्ठेयत्वप्रतिपादने विरोधगन्धाभावात्, विद्वत्प्रकरणमध्येऽविदुषः
प्रसङ्गलेशाभावाच्च । तथा च यथोक्तलक्षण एवार्थः अस्याः स्वीकर्तुम् उचितो विद्वद््भिः
“इत्यलम् अतिविस्तरेण ।। "
" (कर्मणः भक्तियोगद्वारा मोक्षफलकत्वम्)”
- कर्मणा पितृलोकः (बृ.उ.3-5-16) इति श्रुतौ विद्याशब्दस्य देवतात्मज्ञानपरत्वम्