दशमो मन्त्रः
अन्यदेवाहुर्विद्ययाऽन्यदाहुरविद्यया ।
इति शुश्रुम धीराणां ये नस्त1द्विचचक्षिरे ।।10।।
B.10
श्रीरङ्गाचार्यभाष्यम्
" अस्मिन्मन्त्रे तृतीयान्तयोर्विद्याशब्दयोः स्थाने पंचम्यन्तौ तौ, व्याचचक्षिरे इति"
स्थाने विचचक्षिरे इति शब्दं च माध्यन्दिनाः पठन्ति । मुमुक्षोः कर्मणा सह विद्याया
अंगांगिभावेन अनुष्ठानस्यैव स्थापनीयतया तयोरेकानुष्ठानानौचित्यप्रति- पादनमन्तरेण
तदसम्भवात् तत्र विपरीतफलप्राप्तिप्रतिपादनरूपेणैकेन प्रकारेण पूर्वमन्त्रे तदनौचित्यं प्रतिपाद्य
पुनरवान्तरफलभेदप्रतिपादनरूपेण प्रकारान्तरेणापि तदनौचित्यं प्रतिपादयति दशमेन मन्त्रेण ।
" अस्य पदविवरणम् - विद्यया - यथोक्तलक्षणज्ञानरूपपरविद्यया;"
अन्यदेव- अविद्याशब्दितकर्मयोगसाध्यफलात्
अन्यदेव फलम् । पूर्वे ब्रह्मविदः इति शेषः । आहुः - वदन्ति । एवम्, अविद्यया - कर्मयोगेन
। अन्यदेव - पूर्व एवकारः अत्रापि अनुषज्यते । विद्यासाध्यफलात् अन्यदेव फलम् आहुः -
धीराणाम् - ब्रह्मविदाम् । इति - एवम्भूतं वचनम् । शुश्रुम - अश्रौष्म । के ते ब्रह्मविदः
? येभ्यः इत्थंभूतं वचनं श्रुतमित्यत्राह - य इत्यदि । ये - ब्रह्मविदः अस्मदाचार्यभूताः
। नः - अस्मभ्यम् । तत् - विद्याविद्ययोः फलभेदविषयं वचनम् । व्याचचक्षिरे -उपादिक्षन्
। पूर्वपूर्वब्रह्मवित्सम्प्रदायपरम्पराप्राप्तमेव अमुमर्थं विधिवत् उपसन्ना वयम् यथावदुपासितेभ्यः
स्वाचार्येभ्य एव अश्रौष्म । न तु 1प्रामाणिकत्वाप्रामाणिकत्वनिश्चयानर्हसाधारणलोकमुखात्
। अतः परमार्थभूत एवायम् इति भावः । शुश्रुम - व्याचचक्षिरे इत्युभयत्रापि लुडर्थे केवलभूते
लिट््, भूतानद्यतनपरोक्षार्थस्य इह असम्भवात् । छन्दसि लुड्् लड्् लिटः (पा.सू.3-4-6)
इत्यनुशासनेन लुहर्थेऽपि छन्दसि लिट््भवतीति न विरोध इति बोध्यम् ।
(विद्याविद्ययोः एकमात्रानुष्ठानस्य अयुक्तत्वम्)
" इदमत्र तात्पर्यम् - अविद्याशब्दितस्य कर्मणः तत्तदसाधारणफलाभिसन्धि- पूर्वकम् अनुष्ठितस्य"
तत्तदैहिकामुष्मिकपूत्रपश्वादिस्वर्गादिरूपप्राकृतभोगैश्वर्यलक्षणं फलम् ;
तत्तदसाधारणफलाभिसन्धिमन्तरेण
मुमुक्षुणाऽनुष्ठितस्य तस्य विद्योत्पत्त्यु- पचयविरोधिमृत्युशब्दितपुण्यापुण्यकर्मनिवृत्तिमात्रं
च फलम् ; विद्यायास्तु अमृतशब्दितब्रह्मप्राप्तिः फलम् । तथा च विद्यासाध्यफलात् अविद्यासाध्यफलं,
अविद्यासाध्यफलात् विद्यासाध्यफलं च परस्परं भिन्नमेव ; तत्र प्रथमफलहेतुभूतस्य कर्मणः
केवलस्य अनुष्ठानं पूर्वमन्त्रोक्तरीत्या मोक्षविरोधिफलहेतुत्वात्
अन्ततो अन्धतमसप्राप्तिलक्षणमहानर्थहेतुत्वाच्च
मुमुक्षोः अनुपादेयमेव, द्वितीयफलहेतुभूतस्य कर्मणोऽपि
केवलस्य अनुष्ठानं विरोधिनिवृत्तिमात्रहेतुत्वात्
विद्याया एव ब्रह्मप्राप्तिहेतुत्वाच्च मुमुक्षोः न अभिमतसाधने पर्याप्तम् ।
" विद्यायाः केवलाया अनुष्ठानमपि नित्यनैमित्तिककर्माननुष्ठाननिबन्धनप्रत्य- वायबलेन"
विपरीतमहानर्थप्राप्तेः विद्योत्पत्त्युपचयविरोधिनां पुण्यापुण्यलक्षणानां प्राचीनकर्मणां
निवृत्त्यसिद्धया विद्यानिष्पत्तेरेव असम्भवाच्च मुमुक्षोर्नाभिमतसाधन- क्षमम् ; तस्मान्मुमुक्षोः
विद्याविद्ययोरेकमात्रे अनुष्ठानम् अयुक्तमेव इति ।
" फलाभिसन्धिरहितमनुष्ठितस्यापि कर्मणो ज्ञानविरोधिप्राचीनकर्मनिवृत्तिः फलमिति, विद्याया"
ब्रह्मप्राप्तिः फलमिति च फलभेदः - अविद्यया मृत्युं तीर्त्वा विद्ययाऽमृतमश्नुते (ई.उ.11)
इत्युत्तरमन्त्रे व्यक्तीभविष्यति ।
(विभक्तिव्यत्ययस्वीकारपक्षानादरः)
" अत्र अन्यपदयोः द्वयोरपि परस्परसमभिव्याहृतविद्याऽविद्यासाध्यफलभेद- परतायाः स्वरसत"
एव लाभेन अन्यपदानन्वयहेतुना विद्याऽविद्याशब्दगततृतीययोः
छान्दसव्यत्ययेन अवधिपंचम्यर्थपरतास्वीकारेण
केषांचिद्वयाख्यानमयुक्तमेव । एवम् - अन्यदेवाहुस्सम्भवात् इति वक्ष्माणमन्त्रनिर्देशस्य
इह तृतीयायाः अवधिपंचम्यर्थपरतास्वीकारगमकत्ववर्णनमपि अयुक्तम् । तृतीयापंचम्योः उभयोरऽपि
हेतुपरतयैव स्वरसतो निर्वाहसम्भवे छान्दसव्यत्यमाश्रित्य
तृतीयायाः अवधिपंचम्यर्थपरतास्वीकारस्य अनावश्यकत्वात् ।
" एतेन - माध्यन्दिनपाठे अत्रापि विद्याऽविद्याशब्दयोः"
पंचम्यन्तताश्रवणमपि काण्वपाठसिद्धतृतीयायाः
अवधिपंचम्यर्थपरतास्वीकारगमकम् इत्यपि निरस्तम्, तृतीयायाः
स्वरसत एव हेतुपरतास्वीकारे बाधकलेशविरहेण छान्दसव्यत्यय- कल्पनस्य अयुक्तत्वात् ।
" एवं - विद्यां चाविद्यां च इत्याद्येकादशमन्त्रे विद्याऽविद्ययोः अमृतप्राप्तिमृत्यु"
तरणरूपे द्वे फले निर्दिश्य मुमुक्षोः तदुभयावश्यकत्वेन तद्धेतूभयानुष्ठानम् उपादेयमिति
समर्थनात् तदुपष्टम्भकतयैव अस्य मन्त्रस्य प्रवृत्तत्त्वाच्च तदैककण्ठ यानुरोधेनापि
अस्य मन्त्रस्य फलभेदप्रतिपादनपरत्वमेव स्वारसिकम्, न तु अप्रसक्तस्य विद्यमानशब्दालभ्यस्य
अध्याहारैकलभ्यस्य मोक्षसाधनस्य विद्याऽविद्याभिन्नत्वपरत्वम् इत्यलं बहुना ।
(विद्योपदेष्टृपुरुषविशेषनिर्णयः)
" ननु अत्र विद्योपदेष्टा पुरुषः कः ? वेदपुरुष इति चेत् - स किं नित्यसूरिषु कश्चित्"
? आहोस्वित् सर्वेश्वर एव ? अथवा - ऐहलौकिक एव कश्चित्पुरुषविशेषः ? न तावत् प्रथमद्वितीयपक्षौ
सम्भवतः - स्वतस्सिद्धसार्वकालिकसार्वज्ञयोः नित्यसूरिसर्वेश्वरयोः पूर्वाचार्याधीनज्ञानत्वाभावेन
- ये नस्तद्वयाचचक्षिरे इत्युक्तयसंगतेः । नापि तृतीयपक्षस्सम्भवति ।
अर्वाचीनैहलौकिकपुरुषोपदेशवचनरूपत्वे वेदस्य अनित्यताप्रसङ्गात्,
पौरुषेयत्वनिबन्धनभ्रमप्रमादविप्रलिप्सामूलत्वसम्भावनर्हतया
स्वतस्सिद्धसुदृढ- प्रामाण्यविलयप्रसंगाच्च इति चेत् ; न, नित्यानामेव सतां वेदानां
स्वाभिप्रायावेदकस्वोपदेशवचनरूपतया तपोविशेषशालिनः चिरोपासितसदाचार्य- सम्प्रदायप्राप्तसकलार्थस्य
लोकरक्षार्थभगवत्कटाक्षविशेषनिश्शेषनिर्धूताज्ञानगन्धस्य ऐहलौकिकस्यैव पुरुषविशेषस्य
मुखादाविर्भावसम्भवात्, तथाविधस्य वेदप्रवचनकर्तृतया वेदाचार्यमात्रभूतस्य पुरुषविशेषस्य
चतुर्मुखादिवत् प्रतिकल्पभाव्याधिकारिकपुरुषरूपत्वात्, वेदानां तादृशपुरुषवचनरूपतया
तदभिप्रायस्यैव वेदाभिप्रायरूपतया च माननीयताया अपि ईश्वरशासनसिद्धतथा-
विधपुरुषविशेषाधिकारविशेषायत्तत्वाच्च
यथोक्तदोषगन्धानवकाशात् ।
(उक्तार्थे महाभारतप्रमाणप्रदर्शनम्)
" तदिदं सर्वमभिप्रेत्यैव उक्तम् - महाभारते शान्तिपर्वणि,"
मोक्षधर्मपर्वणि पंचाशदधिकत्रिशततमे
नारायणीये षोडशे च अध्याये वेदानामपौरुषेयतायाः तदितरशास्त्राणां पौरुषेयतायाश्च प्रतिपादनपरे -
" सांख्यं योगः पांचरात्रं वेदाः पाशुपतं तथा ।"
" ज्ञानान्येतानि राजर्षे विद्धि नानामतानि वै ।।"
" सांख्यस्य वक्ता कपिलः परमर्षिस्स उच्यते ।"
" हिरण्यगर्भो योगस्य वक्ता नान्यः पुरातनः ।"
" उमापतिः पशुपतिः श्रीकण्ठो ब्रह्मणस्सुतः ।"
" उक्तवानिदमव्यग्रो ज्ञानं पाशुपतं शिवः ।।"
" अपान्तरतमा नाम वेदाचार्यस्स उच्यते ।"
" पञ्चरात्रस्य कृत्स्नस्य वक्ता नारायणस्वयम्।।(म.भा.शान्तिमोक्ष- धर्म 356)"
" इति प्रकरणे - अपान्तरतमा नाम वेदाचार्यस्स उच्यते । इति । अत्र सांख्ययोगपाशुपतानां"
कपिलहिरण्यगर्भः पशुपतयः प्रणेतारः - पंचरात्रस्य तु स्वयं नारायणः प्रणेता इति तेषां
पौरुषेयत्वम्, - वेदानां तु उपदेष्टृत्वेन अपान्तरतमा नाम कश्चित् आचार्य एवास्ति -
न तु तत्प्रणेता कश्चिदिति वेदानामपौरुषेयत्वावेदनाय अपान्तरतमसो नाम कस्यचित्पुरुषविशेषस्य
वेदाचार्यत्वलक्षणाधिकारविशेषमात्रं च हि प्रत्यपादिषाताम् ।
(आधिकारिकवेदपुरुषद्वारा वेदाविर्भावः)
" तस्मात् स एव च वेदपुरुषः, तादृशश्चाधिकारिकः पुरुषः चतुर्मुखादिवत् भिन्नभिन्न एव"
च तदातदा प्रतिकल्पभावी, तदुपदेशवचनरूपतया तन्मुखाविर्भाव- मात्रेण च न वेदानामनित्यताप्रसंगः,
नित्यनामेव सतां तेषां तथाऽऽविर्भाव- सम्भवात् ;
पौरुषेयत्वाभावेनैव भ्रमप्रमादादिदोषाभावात्
च न अनित्यत्वाप्रामाण्य- प्रसंगगन्ध इति न कश्चिद्विरोधः ।।