०९

नवमो मन्त्रः
अन्धं तमः प्रविशन्ति येऽविद्यामुपासते ।
ततो भूय इव ते तमो य उ विद्यायाँ रताः ।।9।।
B.9
श्रीरङ्गाचार्यभाष्यम्
[केवलयोः कर्म - ब्रह्मविद्ययोः अनर्थफलत्वम्]
" अयं मन्त्रः अस्यामुपनिषदि काण्वैः नवममन्त्रतया माध्यन्दिनैः द्वादशमन्त्रतया च पठयते"
। इतः प्राचीनेन भागेन
कर्मयोङ्गागिकां यथोक्तलक्षणज्ञानविशेषरूपां परविद्यां परमनिश्श्रेयसलक्षणमोक्षसाधनम्
अभिधाय अंगांगिभावेन समुच्चयेनैव कर्मयोगपरविद्ययोः अनुष्ठानावश्यकतां ज्ञापयितुं प्रत्येकं
स्वातन्त्र्येण तयोरनुष्ठाने सम्भवद्विपरीतफलमाह नवमेन मन्त्रेण ।
" अस्य पदविविरणम् - ये - पुरुषाः, अविद्याम् - विद्येतरत् विहितं कर्मैव,"
अस्मिन् प्रकरणे अविद्याशब्दो विद्येतरवर्णाश्रमविहितकर्मपर एव, उत्तरत्र एकादशमन्त्रे
अविद्यया मृत्युं तीर्त्वा (ई.उ. 11) 1इत्यत्रत्याविद्याशब्दसमानविषयविद्याशब्दनिर्दिष्टस्य
मृत्युतरणोपायताप्रतीतेः,अज्ञान रूपतच्छब्दार्थस्य तथात्वासम्भवाच्च । उत्तरार्धस्थउकारः
अत्राप्याकर्षणीयः, उत्तरार्धानुरोधात् एकमात्रानुष्ठानस्यैव अत्रापि प्रतिपिपादयिषितत्वात्
। स च एवकारार्थकः । न च - अविद्याशब्दस्य विद्येतरविषयत्वे कर्मपरत्वनिर्बन्धो हि
न सुवचः, विद्येतरत्वस्य विद्यातिरिक्तसर्वसाधारणत्वादिति वाच्यम् ; नञा सादृश्यस्यापि
वोधेन मनुष्यत्वादिसादृश्येन अब्राह्मणादिशब्दस्य ब्राह्मणभिन्नक्षत्रिया- दिमात्रबोधकत्ववत्
अत्राविद्याशब्दस्यापि अदृष्टोपकारकत्वादिसादृश्येन विद्यासह-
चरितवर्णाश्रमादिकर्ममात्रबोधकत्वसम्भवात्
। उपासते - पुरुषार्थसाधकतया अनुतिष्ठन्ति । विद्यामन्तरेण केवलकर्मैव पुरुषार्थसाधकत्वाभिमानेन
अनुतिष्टन्ति इत्यर्थः । अत्र यच्छब्दानुरोधात् तच्छब्दोऽध्याहार्यः । ते - पुरुषाः,
अन्धम् - अन्धयतीत्यन्धम् - अतिगाढम् इति यावत् । तमः - असुर्या नाम ते लोका अन्धेन
तमसा वृता (ई.उ.3) इति प्रागुक्तं तमोलोकमेव, प्रविशन्ति - क्रमेण प्राप्नुवन्ति, केवलकर्मणां
राजसतामसप्राकृतैश्वर्यभोगमात्रहेतुतया क्रमेणतदधीनरजस्तमोगुणाभिवृद्धेः
तदधीनायथावज्ज्ञानान्यथाज्ञानमूलविपरीतकर्म-
प्रवृत्तेरपि प्रसंगाच्च प्रागुक्तरीत्या तादृशलोकप्राप्तिप्रसंगोऽप्यवर्जनीय एवेति भावः ।
" ये - पुरुषाः, विद्यायाम् उ - केवलज्ञान एव, रताः - निरताः,"
कात्स्न्येन कर्मयोगं त्यक्त्वा
ज्ञानयोगमात्रं पुरुषार्थसाधकत्वाभिमानेन अनुतिष्ठन्तीत्यर्थः । ते - पुरुषाः, ततः -
केवलकर्मयोगमात्रानुष्ठायिपुरुषेभ्यः, भूय इव - भूय एव अधिकमेव इवकारोऽत्र एवकारार्थकः,
निपातानामनेकार्थत्वात् । अन्धं तमः प्रविशन्ति इत्यन्वय इति बोध्यम् । केवलकर्मानुष्ठायिनां
नित्यनैमित्तिककर्मप्रहाणा- भावेन तदधीनप्रत्यवायप्रसंगाभावात्
शनैश्शनैरेव भूयसा कालेन रजस्तमोगुणाभि-
वृद्धिमूलविपरीतकर्मप्रवृत्तिनिबन्धनपातकप्रसंगसम्भवात्, प्रथमत एव
कात्स्नर्येन कर्मप्रहाणपूर्वकं
केवलविद्यानुष्ठायिनां प्राथमिकपादप्रक्षेपप्रभृत्यवश्यकर्तव्यनित्य-
नैमित्तिक-कर्मप्रहाणनिबन्धन-पापपरम्पराप्रसङ्गसम्भवाच्च
तेभ्योऽपि एतेषाम् अचिरेणैव विपरीतफलप्राप्तिरिति भावः । अन्यदत्र वक्तव्यं सर्वम्
एकादशमन्त्रव्याख्याने वक्ष्यामः ।।