०८

अष्टमो मन्त्रः
स पर्यगाच्छुक्रमकायमव्रणमस्नाविरँ शुद्धमपापविद्धम् ।
कविर्मनीषी परिभूस्स्वयम्भूर्याथातथ्यतोऽर्थान्
व्यदधाच्छाश्वतीभ्यस्समाभ्यः ।।8।।
B.8
श्रीरङ्गाचार्यभाष्यम्
(मुमुक्षोरवश्यानुसन्धेयाकारान्तराणामुपदेशः)
" जगद््ब्रह्मणोः ईशेशितव्यभावं ब्रह्मणः सकलजगदन्तरात्मत्वं सकलेतरातिशायिशक्तिमत्वं"
च पूर्वोक्तरीत्या जानतो मुमुक्षोः पुनरपि तादृशज्ञानस्य ब्रह्मप्राप्त्यादिलक्षणफलप्रतिपादनेन
आवश्यकताम्, अन्येषामपि अवश्यानुसन्धेयानां ब्रह्मगतानाम् आकाराणाम् अनुसन्धानार्थं
तानाकारांश्च दर्शयति अष्टमेन मन्त्रेण।
" अस्य पदविवरणम् - सः - पूर्वोक्तलक्षणसर्वभूतान्तरत्वादिपरमात्मप्रत्य- गात्माद्याकारपरिज्ञानवान्"
मुमुक्षुः, अपापविद्धम् - पापैःसुकृतदुष्कृतलक्षणैः कर्मभिः, विद्धम् - व्याप्तं न भवति
इति तथोक्तम्, अपहतपाप्मतया कर्मवश्यतागन्धरहितम् इत्यर्थः । अत एव शुद्धम् - सुखदुःखरूपकर्मफलभोगहेतु
रहितम्, अत एव अकायम् - सर्वशरीरमप्यशरीरम् ।
(ब्रह्मणोऽशरीरत्वशोधनम्)
" अत्र अशरीरत्वं न सामान्यतः शरीरशून्यत्वम् ; नापि प्राकृतशरीरशून्यत्वं ; यस्य सर्वाणि"
भूतानि शरीरम् (बृ.उ.5-7-19) जगत्सर्वं शरीरं ते (रा.यु.120-27) इत्यादि श्रुतिस्मृतिभिः
ब्रह्मणः प्राकृताप्राकृतसर्वतत्त्वशरीरत्व- प्रतिपत्तेः, नापि
कर्माधीनशरीरशून्यत्वम्, कर्माधीनसंसारिशरीराणामपि जगदन्तः पातिनां दर्शितप्रमाणैरेव
ब्रह्मशरीरताप्रतीतेः ; अपि तु - 1स्वप्रयोज्यकर्मफलसुख- दुःखभोगाश्रयत्वसम्बन्धेन शरीरशून्यत्वं
। नियमनार्थमन्तःप्रविष्टं परं ब्रह्म प्रति प्राकृताप्राकृतसर्वतत्त्वानां शरीररूपत्वेऽपि
तदधीनकर्मफलभूतसुखदुःखभोगाश्रय- त्वस्य ब्रह्मणि अभावेनैव अत्र अशरीरत्वनिर्देश इति न विरोधः ।
" अत एव - अव्रणम् -व्रणरहितम्, व्रणशब्दः सर्वव्याध्युपलक्षकः, अत्रापि व्रणरहितत्वं"
न सम्बन्धान्तरेण । बाधात् ; अपि तु- स्वजन्यदुःखाश्रयत्वसम्बन्धेन व्रणशून्यत्वम्
। अस्नाविरम् - सिराः - ष्णु-प्रस्नवणे (पा.धा.1038) इति धातुना स्नावयन्ति एकदेशस्थमपि
कल्मषं कृत्स्नशरीरे प्रस्नावयन्ति इति व्युप्तत्त्या निष्पन्नः स्नावशब्दो नाडीपरः
; तैत्तिरीयोपनिषदि शिक्षवल्यां सप्तमानुवाके - चर्ममांसँस्नावास्थि मज्जा इत्यत्र स्नावशब्दस्य
नाडीपरतया प्रयोगात् । तुन्दादिभ्य इलच्च (पा.सू.5-2-117) इति सूत्रानुसारिणा स्वांगाद्विवृद्दौ
च (पा.ग.सू.124) इति वार्तिकानुशासनेन विवृद्धाः स्नावा अस्मिन् सन्तीति मत्वर्थीयेलच्प्रत्यये
रलयोरभेदेन लकारस्थाने रेफे च सति स्नाविरम् इति भवति । तन्न भवतीत्यस्नाविरं । स्वप्रसार्यमाणकलुषप्रयोज्यदुःखभोगाश्रयत्वसम्बन्धेन
नाडीयुक्तं न भवतीति यावत् । शरीरव्यापिन्यो हि नाड््यः शरीरैकदेशवर्तिनो व्रणादेः सम्बन्धि-
दुःखंहेतुभूतम्मलं शरीरे प्रदेशान्तरावच्छेदेनापि सम्बन्धयन्त्यः प्रत्यगात्मनि दुःखं
जनयन्ति ; न तु तथा परमात्मनि, तद्धेतुकर्माभावात् इत्यर्थः ।
" अत एव - शुक्रम्- शुक्लं, रलयोरभेदात् ; निष्कलंकं परं ब्रह्म ; पर्यगात््- परितः प्राप्नोति,"
सर्वप्रकारेण अनुभवति । ब्रह्मविदाप्नोति परम् (तै.आ.25) इत्युक्तफलनिर्देशोऽयम् ।
छन्दसि लुङ्् लिटः (पा.सू.3-4-6) इत्यनुशासनेन लडर्थे लुङ्् ।
" एवं सः - मुमुक्षुर्ब्रह्मवित् मनीषी - यथोक्तलक्षणब्रह्मवेदनमहिम्ना निरतिशयबुद्धिमान्,"
अत एव - कविः- कवयिता, स्वावगततत्त्वार्थानाम् अन्योभ्योऽपि ज्ञापनाय ग्रन्थग्रथनेऽपि
कुशलः, अत एव परिभूः- विपरीतार्थवादिनः परिभवतीति परिभूः, कुमतिविरुद्धवादनिरसनकुशलः,
अत एव स्वयम्भूः -स्वयम्भवति इति स्वयम्भूः

  • स्वयं सत्तावानेव सन्् - असन्नेव स भवति । असद््ब्रह्मेति वेद चेत् । अस्ति ब्रह्मेति
    चेद्वेद । सन्तमेनं ततो विदुः (तै.आन.6-1) इति श्रुत्युक्तपरावरतत्त्वयाथात्म्यज्ञानलक्षणां
    सत्तां कुमतिविरुद्ध- वादाविचाल्यामेव स्वयं भजमानस्सन्नित्यर्थः ।
    " शाश्वतीभ्यस्सामाभ्यः - चतुर्थ्यन्तमिदम् । बहुभ्यस्संवत्सरेभ्यः, भाविसुचिरकालोपयोगायेत्यर्थः"
    । अर्थान् - परमपुरुषार्थहेतुशास्त्रार्थान्, याथातथ्यतः- यथातथाभावः याथातथ्यम्, ततः-
    वस्तुतो यथाभूताश्शास्त्रार्थाः तथा त्वेनैव -
    पारमार्थिकाकारेणैव, न तु कुमतिपरिगृहीतविपरीताकारेणेति
    यावत् । व्यदधात् - स्वकृतग्रन्थैर्लोकेभ्यो
    विदधाति, ज्ञातव्यत्वेन उपादेयत्वेन च प्रतिपादनलक्षणं विधानमिह विपूर्वकदधात्यर्थः
    ; प्रसिद्धो ह्ययमंशो ब्रह्ममीमांसातद्वूत्त्यादि ग्रन्थकृत्सु भगवद््बादरायणबोधायनादिषु
    ब्रह्मविदग्रेसरेषु महात्मसु । अत्रापि पूर्ववत् लडर्थे लङ््
    इति । तथा च स्वोज्जीवनपरोज्जीवनहेतुतया
    यथोक्तलक्षणं परावरतत्त्वयाथात्मज्ञानं मुमुक्षोः ब्रह्मविदोऽवश्यमुपादेयमिति भावः ।
    " यद्वा - सः इत्यादि प्रथमान्तं सर्वं परमात्मपरं,"
    द्वितीयान्तं सर्वं प्रकृतिविनिर्मुक्तपरिशुद्धप्रत्यगात्मस्वरूपपरमित्यपि
    अस्य मन्त्रस्य योजना सम्भवति। तदानीं तु शुद्धम् -
    प्रकृतिविनिर्मुक्तम् । अत एव अपापविद्धम्
    -अर्थः प्राग््वत् ; विशेषणान्तराणामपि तथा । शुक्रम् -निष्कलंकं प्रत्यगात्मानमपि,
    कविः - सर्वज्ञः, मनीषी - मनसैव सर्वपदार्थसंकल्पनशीलः,
    सहकार्यन्तरापेक्षमन्तरेण संकल्पमात्रेण
    जगत्सृष्टयादिनिर्वहणशील इति यावत् ; परिभूः - परितो भवतीति परिभूः - समन्ततो व्याप्तः
    सर्वव्यापक इति यावत् ; । स्वयम्भूः - स्वयं भवतीति स्वयम्भूः -
    अकर्मायत्तस्वेच्छामात्राधीनलोकरक्षार्थना-
    नावतार इति यावत् । सः - परमात्मा, पर्यगात् - परितो व्याप्नोति,
    अन्तर्बहिश्च व्याप्नोतीत्यर्थः
    । अपि च - शाश्वतीभ्यस्समाभ्यः - अनादिकालात् इति यावत् । अर्थान् -सर्वानप्यर्थान्,
    याथातथ्यतः - सूर्याचन्द्रमसौ धाता यथापूर्वमकल्पयत् (तै.ना.1-44) इत्यादि श्रुत्युक्तरीत्या
    पूर्वपूर्वकल्पानुगुण्येनैव, व्यदधात् - सृजति इति विवरणं बोध्यम् ।
    परमात्मनः परिशुद्धप्रत्यगात्मसु
    अपि व्याप्तत्वम् अनादि- कालात् यथापूर्वमेव सृष्टयादिकर्तृत्वं च अस्यां योजनायाम्
    अभिहितं भवति । लकारव्यत्ययस्तु प्राग्वदेव बोध्यः ।।