सप्तमो मन्त्रः
यस्मिन् सर्वाणि भूतानि आत्मैवाभूद्विजानतः ।
तत्र को मोहः कश्शोकः एकत्वमनुपश्यतः ।।7।।
B.7
श्रीरङ्गाचार्यभाष्यम्
" पूर्वमन्त्रोक्तमेव जगतो ब्रह्मात्मकत्वं तदनुसन्धानफलं च पुनर्भड्यन्तरेण निर्दिश्य"
दृढीकरोति सप्तमेन मन्त्रेण, अनयोः अर्थयोः सकृदभिधानमात्रेण निश्शङ्कं दुरवधरत्वात् ।
" अस्य मन्त्रस्य पदविवरणम् - विजानतः - शास्त्रतः शनैश्शनैः सर्वं तत्त्वं विविच्य जानतः"
, शास्त्रजन्यविशुद्धज्ञानपरिपाकविशेषवत इत्यर्थः । मुमुक्षोः, यस्मिन् दशाविशेषे आत्मैव
- यथोक्तलक्षणः परमात्मैव,सर्वाणि भूतानि - शरीरशरीरिभाव-
रूपापृथक्सिद्धविशेषणविशेष्यभावलक्षणाविनाभावसम्बन्धेनसम्मिलिततयासर्वभूतरूपः
। अत्र असन्धिश्छान्दसः । अभूत्् - निश्चयविषयो भवति, छन्दसि लुङ्् लङ्् लिटः (पा.सू.3-4-6)
इत्यनुशासनेन लडर्थे लुङ्् । धात्वर्थसत्ताया निश्चयविषयत्वस्वरूपाया इह विवक्षिततया
धातुनाऽयमर्थस्सुलभः । तत्र - तस्मिन््दशाविशेषे, एकत्वम् - सर्वभूतैस्सह परमात्मन
एकवस्तुत्वं यथोक्तं सर्वभूतशरीरकत्वमिति यावत् । अनुपश्यतः - सम्यङ्् निध्यायतो मुमुक्षोः,
मोहः कः, शोकः कः - मोहो वा शोको वा कथं भवति ? न भवत्येव इत्यर्थ इति बोध्यम् ।
(मोहशोकनिर्वचनम् तन्निवृत्युपायश्च)
" अत्र मोहः कथम्भूतः ? शोको वा कथम्भूतः ? सर्वभूतानां परमात्मनश्चेह विवक्षितमेकत्वं"
वा कथम्भूतम् ? तज्ज्ञानेन कथं वा मोहशोकनिवृत्तिर्भवतीति चेत् ; इदमत्रावधेयम् - मोहोऽत्र
स्वसजातीयेष्वात्मान्तरेषु स्वातन्त्र्येण स्वखेदजनकत्वज्ञान- रूपः । शोकश्चात्र परैस्स्वपरिभवे
कृते कथं तूष्णीं स्थेयमिति चिन्तया तूष्णीमवस्थानासहिष्णुः
परदुःखजननप्रवृत्तिहेतुर्दुःखविशेषः । सर्वभूतानां परमात्मनश्च
इह विवक्षितमेकत्वं शरीरशरीरिभावरूपापृथक्सिद्धविशेषणविशेष्यभावलक्षणा-
विनाभावसम्बन्धेन परस्परसम्मिलितैकवस्तुसंघातान्तः पातित्वरूपम् । तच्च सर्वभूतानां
नियन्तृतयाऽन्तर्यामिभूतपरमात्मात्मकत्वरूपमेव । तस्मिंश्च निश्चिते परेषु स्वातन्त्र्येण
स्वखेदजनकत्वमोहो निवर्तते —
" ईश्वरस्सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति ।"
" भ्रामयन् सर्वभूतानि यन्त्रारूढानि मायया ।।भ.गी.18-61)"
इत्युक्तरीत्या नियन्तृतया अन्तर्यामिभूतपरमात्मनैव प्रधानभूतेन नियाम्यभूतैरात्मान्तरैः
स्वापराधानुगुणफलभोगहेतुरयं दण्डो दाप्यते ; न तु स्वातन्त्र्येण तैरयं क्रियत इति निश्चयात्
। निवृत्ते च तादृशमोहे तदधीनो यथोक्तलक्षणश्शोकोऽपि निवर्तते ; अस्मदपराधानुगुणदण्डस्य
ईश्वरेणैव करस्थानीयैरन्यैः कार्यमाणतया न तेषु कश्चिदपराध इति चित्तसमाधिसम्भवात् ।
इत्थं समाहितचित्तस्य तेषु प्रतिक्रियाकरण- प्रवृत्तिरपिनिवर्तत इति ।
गीताभाष्ये निर्वैरस्सर्वभूतेषु
(भ.गी.11-55) अद्वेष्टा सर्वभूतानाम् (भ.गी.12-13) इत्यादिवचनव्याख्यानावसरे भाष्यकारैरपि
ईदृशानुसन्धानेनैव स्वापकारिपरप्रतिक्रियाप्रवृत्तिनिवृत्तिसिद्धिः मुमुक्षोः प्रतिपादिता।
यथोक्तं तत्र - स्वदुःखस्य स्वापराधनिमित्तत्वानुसन्धानात् सर्वभूतानां परमपुरुषपर-
तन्त्रत्वाऽनुसन्धानाच्च सर्वभूतेषु वैरनिमित्ताभावात् तेषु निर्वैरः इति अद्वेष्टा
सर्वभूतानाम् (भ.गी.12-13) द्विषतामपकुर्वतामपि सर्वेषां भूतानाम् अद्वेष्टामदपरा-
धानुगुणम्् ईश्वरप्रेरितान्येतानि भूतानि द्विषन्ति अपकुर्वन्ति च इत्यनुसन्दधानः इति च।
(सर्वं खल्विदं ब्रह्म इत्यादि श्रुतिसम्मतिः)
" सर्वस्य जगत इत्थं ब्रह्मात्मकत्वलक्षणैक्यज्ञानस्य"
ईदृशानुसन्धानद्वारा मोहशोकनिवृत्तिलक्षणशान्तिहेतुत्वादेव
सर्वं खल्विदं ब्रह्म तज्जलानिति शान्त उपासीत (छां.उ.3-14-1) इ
ति श्रुतिरपि जगतो ब्रह्मात्मकत्वानुसन्धानस्य
शान्तिहेतुत्वमाह । शान्तिश्च दर्शितमोहशोकनिवृत्तिरेव ।
(सामानाधिकरण्यशब्दार्थनिष्कर्षः)
" आत्मैव सर्वाणि भूतान्यभूत्् इत्यत्र सामानाधिकरण्यविवक्षितमैक्यं न स्वरूपैक्यरूपम्,"
जडाजडयोः स्वरूपैक्याभवात् ; स्वरूपैक्यस्यैव
अभिमतत्वे पूर्वमन्त्रे सर्वभूतानाम् आत्मवृत्तित्वस्य
आत्मनस्सर्वभूतान्तर्व्याप्तत्वस्य च अभिधानेन तद्विरोधाच्च स्वरूपैक्यलक्षणात्यन्ताभेदे
सति आधाराधेयभावोऽपि हि न सम्भवति, आत्माश्रयदोषप्रसङ्गात् । न हि घटादयः पदार्थाः
स्वस्मिन्नेव अवस्थातुं शक्नुवन्ति । अपि तु सर्वाणि
भूतान्यन्तःप्रविश्य अपृथक्सिद्धविशेषणविशेष्यभावलक्षणसम्बन्ध-
विशेषेण तद्विशिष्टत्वरूपमेवैकत्वम् इह आत्मनो विवक्षितम् । तथा सत्येव विशिष्टवेषेणैकत्वस्य
स्वरूपभेदसत्त्वेन आधाराधेयभावस्य च द्वयोरंशयोः मन्त्रद्वयाभिहितयोः उपपत्तिः सम्भवति
। ईदृशैक्येन हेतुना लोकवेदयोस्सामानाधिकरण्यनिर्देशो हि समन्ततः प्रसिद्धः । लोके देवोऽहम्,
मनुष्योऽहम्, स्थूलोऽहम्, कृशोऽहम् इत्यादिसामानाधिकरण्यनिर्देशेषु
अपृथक्सिद्धविशेषणविशेष्यभावसम्बन्धेन
देहविशिष्ट- त्वनिबन्धनमैक्यमेव निमित्तं दृश्यते, देहात्मनोः स्वरूपभेदं जानद््भिरपि
तथा निर्देशकरणदर्शनेन तेषां केवलभ्रान्तवाक्यताया दुर्वचत्वात् ।
(अन्तःप्रविश्य स्थितेः सामानाधिकरण्यहेतुता)
" वेदेऽपि तैत्तिरीयकोपनिषद्यानन्दवल्ल्यां षष्ठानुवाके तत्सृष्ट््वा तदेवाऽनुप्राविशत्"
। तदनुप्रविश्य । सच्च त्यच्चाभवत् इति निर्देशेन, षष्ठप्रश्ने नारायणे दशमे नारायणानुवाके —
" यच्च किञ्चिज्जगत्यस्मिन् दृश्यते श्रूयतेऽपि वा ।"
" अन्तर्बहिश्च तत्सर्वं व्याप्य नारायणः स्थितः ।। (तै.ना.25)"
इति निर्देशपूर्वकम् ,
" स ब्रह्म स शिवस्सेन्द्रस्सोऽक्षरः परमस्वराट्् । (तै.ना.25)"
" इति निर्देशेन, तत्रैव पञ्चाशानुवाके - येन सर्वमिदं प्रोतं पृथिवी चान्तरिक्षंच द्यौश्च"
दिशश्चावान्तरदिशाश्च स वै सर्वमिदं जगत् । स च भूतं स च भव्यम् (तै.ना.146) इति निर्देशेन
च अन्तःप्रविश्य व्याप्तेः सामानाधिकरण्यनिर्देशहेतुता अवागम्यते । गीतासु एकादशाध्याये
सर्वान्तःप्रविष्टं भगवत्स्वरूपं भगवद्दत्तदिव्य- चक्षुषा यथावत्साक्षात्कृत्य सर्वं
समाप्नोषि ततोऽसि सर्वः (भ.गी.11-40) इति वदता अर्जुनेन च परमात्मनः सर्वजगत्सामानाधिकरण्येन
निर्देशस्य सर्वजगदन्तरात्मतया अवस्थाननिबन्धनम् एकसङ्गघातान्तःपातित्वरूपं विशिष्टवस्त्वैक्यमेव
हेतुः न तु स्वरूपैक्यमिति प्रस्फुटमेव अभिहितम् ।
(शाङ्करव्याख्यानासामंजस्यम्)
" यत्पुनरत्र शाङ्करव्याख्यानम् - पूर्वमन्त्रोक्तमेवार्थम् अयं मन्त्र आह - विजानतः" - परमार्थवस्तु विजानतः, यस्मिन् - काले यथोक्तात्मनि वा, आत्मैव, सर्वाणि भूतानि पूर्वोक्तान्येव
अव्यक्तादिस्थावरान्तभूतानि, अभूत् - संवृत्तः, एकत्वम् - आत्मैकत्वम्, अनुपश्यतः, तत्र - तस्मिन्काले तस्मिन्नात्मनि वा, कश्शोकः, को मोहः । अनेन
शोकमोहयोः अविद्याकार्ययोः असम्भवप्रदर्शनेन सकारणस्य संसारस्य अत्यन्तमेवोच्छेदः प्रदर्शितो
भवति इति ; तदसमंजसम् - अत्र विवक्षितस्य अर्थस्य अनुवर्तमानप्रकरणविरूद्धत्वात् अप्रामाणिकत्वात्,
शब्देन कथञ्चिदपि अलाभात्, विवेचनासहत्वात् संसारात्यन्तोच्छेदहेतुत्वासम्भवाच्च ।
" इदं तावदत्र प्रष्टव्यम् ; कस्तावदर्थोऽत्र भवतो विवक्षित इति ? आत्मैक एव परमार्थः"
अन्यत्सर्वं मिथ्या इत्येवंरूपेण आत्मैकत्वविज्ञानेन संसारनिश्शेषनिवृत्तिः भवति इत्ययमेवार्थ
इति चेत् ; न ईशावास्यम् इत्यारभ्य पूर्वमन्त्रपर्यन्त 1ग्रन्थे प्रथमम् ईट्् छब्देन
ईश्वरत्वेन कंचिदात्मानं निर्दिश्य तदितरस्य कृत्स्नस्य चेतनाचेतनात्मकस्य जगतः तदीशितव्यरूपतां
ज्ञापयित्वा पश्चात्, ईशितव्यजगदन्तर्गतस्य चेतनजातस्य तदाज्ञापरिपालननैयत्यं च विधाय
ईश्वरत्वेन निर्दिष्टस्य आत्मनः स्वेतरसर्वचेतनाति- शायिशक्तिमत्वं च निरूप्य तत एव
तस्येश्वरत्वसिद्धिं च ज्ञापयति सति, प्रस्फुटमीशेशितव्यभावेन
परमात्मनः तदितरस्य चेतनाचेतनात्मकस्य
कृत्स्नस्य जगतश्च सत्यतां भेदं च प्रतिपादयता अनेन प्रकरणेन विरुद्धत्वात् ।
" न च ईदृशोऽर्थः क्वापि अनन्यथासिद्धेन प्रमाणेन प्रतिपद्यते । न च शब्देन वाऽत्र"
अयमर्थो लभ्यते । आत्मैक एव परमार्थः इति परमार्थशब्दघटितस्य आत्मैकपारमार्थ्यप्रतिपादकस्य
वा, अन्यत्सर्वमिथ्या इति मिथ्याशब्दघटितस्य इतरमिथ्यात्वप्रतिपादकस्य वा, वाक्यस्य
अत्र अनुपलम्भात् । न च - आत्मैव सर्वाणि भूतान्यभूत् इति निर्देशेनैव आत्मन एव सत्यत्वम्
; अन्येषां सर्वभूतानां मिथ्यात्वं च लभ्यत इति - वाच्यम् ; समानाधिकरणपदद्वयनिर्देशेन
पदद्वयप्रतिपन्नयोरर्थयोः ऐक्यस्यैव लाभेन तत्रैकपदप्रतिपन्नार्थस्य
सत्यताया अपरपदप्रतिपन्नार्थस्य
असत्यतायाश्च कथञ्चिदपि अलाभात् ; भिन्नप्रवृत्तिनिमित्तानां शब्दानाम् एकस्मिन्नर्थे
वृत्तिस्सामानाधिकरण्यम् इतिवदद््भिः शाब्दिकैरपि नानापद-
प्रतिपन्नार्थानाम् ऐक्यप्रतिपत्तेरेवसमानाधिकरणशब्दनिर्देशायत्ततायाः
प्रतिपादनात् । सामानाधिकरण्यस्य हि ऐक्य एव तात्पर्यमिति सर्वसम्मतमिति समानाधिकरण-
निर्देशस्य पदद्वयप्रतिपन्नार्थयोः ऐक्य एव तात्पर्यमङ्गी-कुर्वाणैः भवद््भिरपि तत्त्वमसि
(छां.उ.6-8-7) इत्यादौ तत्-त्वं पदप्रतिपन्नयोरर्थयोः ऐ
क्यप्रतिपादनाङ्गीकारेण इह सामानाधिकरण्यस्य
अन्यार्थपरताकथनायोगाच्च ।
" एवम् अत्र पूर्वमन्त्रोक्तमर्थमेव अयमपि मन्त्र आह इति वदद््भिर्भवद््भिः,"
सर्वभूतानाम् आत्मेतरावृत्तित्वविशिष्टात्मवृत्तित्वे, आत्मनस्सर्वभूतवृत्तित्वे च,
आधाराधेयसर्वपदार्थसत्यतामंगीकृत्यैव पूर्वमन्त्रेण प्रतिपाद्यमाने ; आत्मन एकस्यैव
परमार्थत्वम् अन्यस्य कृत्स्नस्य मिथ्यात्वं च प्रतिपादयति अयम्मन्त्र इति कथन्नु वा
वक्तुं शक्यम् । आत्मव्यतिरिक्तानि सर्वभूतानि न पश्यतीति भवदुक्तार्थपरत्वं पूर्वमन्त्रस्य
न कथञ्चिदपि सम्भवतीति प्रागेव अवोचाम ।
(बाधार्थसामानाधिकरण्यशंका तत्परिहारश्च)
" न च - रज्जुसर्पभ्रमवता स्थाणुचोरभ्रमवता च"
भ्रमनिवृत्यनन्तरं भ्रमस्थले सर्पचोराभावज्ञापनतात्पर्येण
प्रयुक्तयोः इह रज्जुस्सर्पः, इह स्थाणुश्चोरः इति वाक्ययोः
रज्जुस्थाणुसत्यत्वसर्पचोराभावप्रतिपादनपरत्वदर्शनात्
बाधार्थमपि सामानाधिकरण्य- मस्ति । तद्वत् इदमपि सामानाधिकरण्यं
सर्वभूतानाम् अभावप्रतिपादनमुखेन
असत्यताम् आत्मसत्यतां च प्रतिपादयितुं क्षमत इति वाच्यम् ;
नानापदप्रतिपन्नार्थैक्यप्रतिपादकत्वस्यैव
सामानाधिकरण्यलक्षणरूपतायाः प्रागेवोक्तत्वात् सामानाधिकरण्यनिर्देशेषु
सर्वत्र नानापदप्रतिपन्नार्थैक्यप्रतिपत्तेरेव
सर्वानुभव- सिद्धत्वाच्च सामानाधिकरण्यस्य बाधार्थकताया अप्रामाणिकत्वात् ;
दर्शितसामानाधिकरण्यनिर्देशयोरपि
तात्पर्यवशेन अवधारणगर्भत्वेन, इह रज्जुरेव सर्पः, इह स्थाणुरेव चोरः इत्येवंरूपयोः
सर्पचोरशब्दाभ्यां स्वारसिकलक्षणया सर्पचोरप्रतीतिविषयपराभ्यां रज्जुस्थाणुरूपाधिष्ठानयोः
सर्पचोरप्रतीतिविषयैक्यप्रतिपत्तेः एवकारबलेनैव इतरव्यवच्छेदप्रतिपत्तेश्च
दर्शनेन सामानाधिकरण्यनिर्देशस्य
बाधार्थत्वादर्शनाच्च ।
" सामानाधिकरण्यस्य बाधार्थत्ववादिन इदं तावत्प्रष्टव्याः, दर्शितनिर्देशयोः सर्पचोरशब्दयोः"
कोऽर्थः ? इति । सर्पत्वचोरत्वयोर्वा सर्पचोरयोर्वाऽभाववन्तावर्थ इति चेत् किं तत्र
शक्तिः ? उत निरूढलक्षणा ? पक्षद्वयमप्यसंगतम् ; 1तथा सति घटस्सर्पः पटस्सर्पः, घटश्चोरः,
पटश्चोर, इत्यादेः प्रयोगस्य सर्वत्रैव स्वरसतः सम्भवापत्तेः ।
(सिद्धान्ते स्वारसिकलक्षणाङ्गीकारः)
" अस्माकं तु स्थलविशेषेष्वेव पूर्वोत्पन्नभ्रान्त्यनुरोधेन स्वारसिकलक्षणाबलेनैव यथोक्तरीत्या"
इह रज्जुस्सर्पः इह स्थाणुश्चोरः इत्यादि स्वारसिकप्रयोगसम्भवात् । अन्यत्र
तथाविधभ्रान्त्यभावेनैव दर्शितविरुद्धप्रयोगासम्भवाच्च न दोषः ।
(बाधार्थत्वस्वीकारेऽपि मिथ्यात्वासिद्धिः)
" तस्मात् सामानाधिकरण्यस्य बाधार्थत्वमेवाप्रामाणिकम् । अपि च इह सामानाधिकरण्यस्य बाधार्थत्वस्वीकारेऽपि"
वा, परमात्मनि सर्वभूतत्वाद्यभावप्रति- पादनमात्रेण सर्वभूतानामेवासद््भावो मिथ्यात्वम्,
परमात्मन एकस्य परं परमार्थत्वम् इत्येते अंशाः कथमिव प्रतीयेरन् ? न हि रज्जवादौ सर्पत्वाद्यभावप्रतीतिमात्रेण
सर्पादिपदार्थस्यैव क्वाप्यसद््भावम्मिथ्यात्वं रज्जवादिमात्रस्य सत्यत्वं च, इह रज्जुस्सर्पः
“इत्यादिनिर्देशात् कश्चित्प्रत्येति । प्रत्युत पूर्वमन्त्रे सर्वभूतानां परमात्मनि”
वृत्तेरेव प्रतिपन्नतया तद्विरोधेन न अस्मिन्मन्त्रे सामानाधिकरण्यनिर्देशेन तदसत्यत्वं
कश्चित्प्रतियात् । 1एतेन भवन्मतेऽपि, इह रज्जुस्सर्पः इह स्थाणुश्चोरः इत्यादौ रज्जवादीनां
सर्पादिधीविषयैक्यप्रतीतिरूपशाब्दबोधे सर्पाद्यभावभानाभावेऽपि उदीच्यमानसबोधे वा सर्पाद्यभावभानस्वीकारेण,
तद्वदेवेहापि आत्मैव सर्वाणि भूतान्यभूत् इति सामानाधिकरण्यनिर्देशवशादुदीच्यमानसबोधे
वाऽऽत्मनि सर्व भूताभावभावनं दुर्वारमिति शंकापि दूरोत्सारिता । किञ्चिद्देशविशेषकालविशेषावच्छेदेन
भूताभाव- ज्ञानमात्रेण सर्वेषु देशकालेषु तदभावनिश्चयासिद्ध्या भवदभिमततन्मिथ्यात्वात्मैक-
परमार्थत्वयोरसिद्धेः ; प्रतियोग्यप्रसिद्धौ अभावप्रतीतेः क्वाप्युदयादर्शनेन क्वचित्प्रसिद्ध-
स्यैव अन्यत्राभावज्ञानोदयस्य वक्तव्यतया सर्वेषु देशकालेषु कस्यापि वस्तुनः अभावज्ञानस्य
क्वाप्युदयासम्भवात् ; इह रज्जुस्सर्पः, इह स्थाणुश्चोरः इत्यादि- दृष्टान्तभूतवाक्यादपि
पूर्वसंजातसर्पचोरभ्रमस्थल एव तदभावप्रतीतेः अन्यत्र तदभावाप्रतीतेश्च सर्वानुभवसाक्षिकत्वाच्च ।
" एवम् आत्मन एकत्वज्ञानात् सर्वसंसार बन्धगन्धनिवृत्तिपर्यवसन्नमोहशोक- निवृत्तिसिद्ध्यभिधानमप्यसमंजसम्"
। क्वचिदपि ईदृशैकत्वज्ञानमात्रेण दर्शितलक्षण- मोहशोकनिवृत्त्यदर्शनेन तस्य तन्निवृत्तिप्रयोजकताया एवासम्भवात् ।
(आत्मैकत्वस्य विकल्पेन दूषणम्)
" एवं भवदभिमतमात्मन एकत्वं किंरूपमिति विवेचयामः । न तावदेकत्वसंख्यारूपं तत्, तस्य"
सर्वसाधारण्येन भवदभिमतवस्त्वन्तरसद््भावव्या- वर्तकत्वायोगात् ; तज्ज्ञानस्य भवदभिमतमोहशोकनिवृत्तिप्रयोजकत्वसम्भावनागन्धान-
र्हत्वाच्च । नापि द्वैतशून्यत्वरूपं तत्,
द्वैतस्य प्रसिद्धौ तदभावस्य आत्मन्यसम्भवात् ; अप्रसिद्धौ च प्रतियोग्यप्रसिद्ध्या
सुतरामेव तदभावसम्भवाच्च । नहि खलु क्वचिदप्य- प्रसिद्धस्य कस्यचिद्वस्तुनोऽभावं क्वचित्कश्चित्पश्यन्
दृश्यते । पश्यति च - तत्र स्थितमिदं वस्त्विह नास्ति ; अत्र स्थितमिदं वस्तु तत्र नास्ति इत्येव च ।
(पराऽभिमतयोजनायां आत्माश्रयदोषदुष्टता)
" एवम् आत्मन्यात्मैव सर्वाणि भूतान्यभूत् इति या योजना कृता ; सा चात्यन्तासम्बद्धा,"
आत्माश्रयदोषप्रसंगेन आत्मनः आत्माधारत्वायोगात् । तस्मात्सर्वर्थैवासम्बद्धं शांकरव्याख्यानमिति सिद्धम् ।
(अन्यप्रकारेण ऐक्यनिर्वाहस्यायुक्तताप्रदर्शनम्)
" एवं घटशरावादीनां मृत्पिण्डस्य च ऐक्यवत् जगद््ब्रह्मणोः स्वरूपैक्यमाश्रित्य कैश्चित्क्रियमाणस्सामानाधिकरण्यनिर्वाहोऽपि"
असमंजस एव, विकारादिसर्वदोषरहित- त्वेन सर्वतश्श्रुतिस्मृत्यादिप्रमाणप्रतिपन्नस्य
ब्रह्मणः सर्वदोषाकरत्वप्रसंगात् । राजैव प्रजाः इतिवत्, आत्मैव सर्वाणि भूतानि इत्यपि
सामानाधिकरण्यनिर्देशः तदधीन्य- मात्रतात्पर्येण औपचारिक इति निर्वाहोऽप्ययुक्तः,
मुख्यवृत्त्यैव निर्वाहे
सम्भवत्युपचाराश्रयणायोगात् ।
(ऐक्योक्तेः मुख्यवृत्त्या निर्वाहः)
" सिद्धान्ते तु सेयं देवतैक्षत हन्ताहमिमास्तिस्नो देवता अनेन जीवेनात्मनाऽनु- प्रविश्य"
नामरूपे व्याकरवाणि (छा.उ.6-3-2) इति सेयं देवतेमास्तिस्नो देवता अनेनैव जीवेनात्मनाऽनुप्रविश्य
नामरूपे व्याकरोत् (छा.उ.6-3-3) इति च छान्दोग्यश्रुत्या परेण ब्रह्मणा स्वात्मकजीवस्वरूपेण
अचित्तत्वानुप्रवेशं कृत्वा तत्तद्वस्तूनां नामानि रूपाणि च करवाणीति संकल्पपूर्वकम्
अचित्तत्वविशिष्टजीव- विशिष्टस्वस्वरूपपर्यन्तसंघातात्मकानां तत्तद्वस्तूनां नामरूपव्याकरणप्रतिपादनात्,
प्रागुदाहृतश्रुत्यन्तरैरपि सर्वभूतेषु परमात्मानुप्रवेशस्य तेषां परमात्मनश्च सामानाधिकरण्यव्यपदेशहेतुताप्रतिपादनाच्च,
सर्वभूतवाचिशब्दानां तद्विशिष्टे शक्तेरेव सद््भावोपगमेन आत्मैव सर्वाणि भूतान्यभूत््
इति सामानाधिकरण्यनिर्देशो मुख्य एव निर्वहति । नापि च सर्वभूतविशिष्टैक्यस्य ततः प्रतीयमानस्य
परमात्मनि बाधः । तादृशैक्यमेव च एकत्वमनुपश्यतः इत्यत्रैकत्वशब्देनापि विवक्षितम् । अतः सर्वं समञ्जसम्
।।