षष्ठमन्त्रः
यस्तु सर्वाणि भूतान्यात्मन्येवानुपश्यति ।
सर्वभूतेषु चात्मानं ततो न विजुगुप्सते ।।6।।
B.6
श्रीरङ्गाचार्यभाष्यम्
(जगतो ब्रह्मात्मकतयाऽनुसन्धानस्य फलम्)
" प्राक् मन्त्रद्वयेन ईट््छब्दवाच्यस्य आत्मनः"
स्वेतरसर्वातिशायिशक्तिमत्त्व- सर्वान्तरात्मत्वलक्षणस्वरूपकथनेन
जगतः सर्वात्मना तन्नियाम्यत्वपर्यवसन्नं तदात्मकत्वम्
उक्तवा ब्रह्मविदः तदनुसन्धानावश्यकत्वज्ञापनाय
तदनुसन्धानफलम् अभ्युदयमपि आह - षष्ठेन मन्त्रेण ।
अस्य पदविवरणम् - यस्तु -ब्रह्मविन्मुमुक्षुस्तु, अत्र तुकारेण -
" मनुष्याणां सहस्नेषु कश्चिद्यतति सिद्धये ।"
" यततामपि सिद्धानां कश्चिन्मां वेत्ति तत्त्वतः ।।(भ.गी.7-3)"
इति गीतावचनोक्तरीत्या ज्ञानविशेषपरिपाकलक्षणवक्ष्यमाणमहिमा कस्यचिदेव सम्भवति ; न तु
सर्वस्य इति तादृशमहिमशालिनो दौर्लभ्यं ज्ञाप्यते । सर्वाणि भूतानि - ब्रह्मादीनि स्थावरान्तानि
परमात्मव्यतिरिक्तसर्वभूतानि, आत्मन्येव पूर्वोक्तईट््छब्दवाच्यपरमात्मलक्षणैकात्मन्येव,
अनुपश्यति - अनुसन्धत्ते, तदायत्तस्थितिकान्येव अनुसन्धत्ते
इत्यर्थः । तेषां पृथिव्यादिधार्यत्वेऽपि
पृथिव्यादीनामपि आधारपर्यालोचने अन्ततः परमात्मन एव प्रधानाधारत्वात् तदायत्तैव सर्वभूतस्थितिः
; नान्यायत्ता, इत्यंशः एवकारेण इह विवक्षितः । किञ्च - सर्वभूतेषु - यथोक्तलक्षणेषु,
आत्मानम् - यथोक्तलक्षणं परमात्मरूपम् एकात्मानम्, अनुपश्यति - अत्र परमात्मनो नियमनार्थसर्वान्तः
स्थितिरूपान्तर्यामित्वमात्रमुच्यते ; न तु परमात्मस्थिंतेः सर्वभूतायत्तत्वमुच्यते,
अन्योन्याश्रयप्रसंगात् प्रमाणान्तरानु- रोधाच्च। इदं च वैचित्र्यं गीताशास्त्रे -
" मया ततमिदं सर्वं जगदव्यक्तमूर्तिना ।"
" मत्स्थानि सर्वभूतानि न चाहं तेष्ववस्थितः ।।भ.गी.9-4) इत्यनेन,"
" भूतभृन्न च भूतस्थो ममात्मा भूतभावनः । (भ.गी.9-5) इत्यनेन च भगवता स्वयमेवोक्तम् ।"
" तथा च कृत्स्नं जगत् स्वान्तर्नियन्तृतया अवस्थितब्रह्मात्मकमिति योऽनुसन्धत्त इत्यर्थः"
। स इत्यध्याहार्यम् यत्तदोर्नित्यसम्बन्धात् । सः - तादृशो
ब्रह्मवित्, ततः - यथोक्तलक्षणब्रह्मात्मकतयाऽनुसंहितेभ्यः
सर्वभूतेभ्यः, न विजुगुप्सते - खेदजनकत्वानुसन्धानमूलमनोनिवृत्तिः जुगुप्सा, तां न भजते ।
" ध्रुवमपायेऽपादानम् (पा.सू.1-4-24) इति सूत्रभाष्योदाहृतेन"
जुगुप्साविराम- प्रमादार्थानामुपसंख्यानम्
(वा.10-79) इति वार्तिकेन अपादानसंज्ञया तत इत्यत्र पञ्चम्यर्थे
तसिः । गुपधातोर्भौवादिकात्
निन्दार्थे गुप्तिज््किद््भयस्सन् (पा.सू.3-1-5) इत्यनुशासनेन गुपेः निन्दायाम् (वा.1687)
इति वार्तिकानुगृहीतेन सन् । गुप्तिज्कितमाना अनुदात्तेतः
इति भाष्येऽनुदात्तेत्त्वाभिधानात्
आत्मनेपदमिति बोध्यम् ।
(जुगुप्सानुदयप्रकारस्य विवरणम्)
" अयमत्र भावः - भूतेषु स्वखेदजनकत्वानुसन्धानेन हि तेभ्यः कश्चिन्निवर्तते- तानि द्विषन्"
; सर्वभूतानां नियन्तृभूतब्रह्मात्मकत्वानुसन्धाने सति
स्वखेदजनकतच्चे- ष्टायाः स्वकर्मानुगुणफलदानायतदन्तर्यामिनियन्तृपरमात्मायत्तत्वानुसन्धानेसति
तेषु स्वखेदजनकत्वानुसन्धाननिवृत्त्या तन्मूला तेभ्यो मनोनिवृत्तिरूपा जुगुप्सा न जायत
इति । ईदृशजुगुप्सानुदयेन किं प्रयोजनम् इति चेत् ? जुगुप्सायां सत्यां तत्प्रतियोगिषु
भूतेषु द्वेषमूलोत्तरोत्तरसंसाराभिवृद्धिप्रसंगेन, 1तदनुदये तदभावलक्षणं मुमुक्षोरपेक्षितं
परमं फलं सिद्ध्यतीत्याशयः ।
" तस्मात् ब्रह्मविदः मुमुक्षोः कृत्स्ने जगति ब्रह्मात्मकत्वानुसन्धानम् अत्यावश्यकम्"
इति मन्त्रतात्पर्यम् ।
(माध्यन्दिनपाठः, तदुपपादनं च)
" अस्मिन्मन्त्रे आत्मन्येवानुपश्यति इत्यत्र, आत्मन्नेवानुपश्यति इति, विजुगुप्सते इत्यत्र"
विचिकित्सति इति च माध्यन्दिनानां पाठः । तत्पक्षे आत्मन्नेव इत्यत्र सप्तम्याः छान्दसो
लुक् । न विचिकित्सति इत्यस्य न संशेत इत्यर्थः । ततः इत्यत्र सप्तम्यर्थे तसिः इति
बोध्यम् । तत्रापि ब्रह्मात्मकत्वेन अनुसंहितेषु भूतेषु प्रागुक्तहेतुना स्वखेदजनकत्वसंशयं
ब्रह्मवित् न प्राप्नोति । ततश्च तेषु द्वेषानुदयेन संसारवृद्धेर्नावकाश इति पूर्वोक्तभाव
एव पर्यवसानं बोध्यम् ।
" कित-निवासे रोगापनये संशये च (पा.धा.993) इति धातोर्भौवादिकात् कितेर्व्याधिप्रतीकारे"
निग्रहेऽपनयने नाशने संशये च (वा.1689) इति वार्तिकानुगृहीतेन पूर्वोक्तानुशासनेन संशयार्थे
सन् । गुप्तिज्कितमाना अनुदात्तेतः इत्यत्र अनुक्रमदर्शनाय कितिः पठितः, न तु अयमनुदात्तेत्
इति कैयटेन कितेः अनुदात्तेत्वे तात्पर्याभाववर्णनात् नात्र आत्मनेपदम् । अनुदात्तेत्त्वनिबन्धनस्य
आत्मनेपदस्य क्वचित् ज्ञापकवशात् अनित्यत्वाश्रयणाद्वा नेह आत्मनेपदम् ।
(शाङ्करव्याख्याऽनुपपत्तिः)
" यत्पुनरत्र, आत्मपदस्य अनुसन्धातुर्मुमुक्षोः स्वात्मस्वरूपपरतामाश्रित्य यस्तु परिव्राट््"
मुमुक्षुः - सर्वाणि भूतानि अव्यक्तादीनि स्थावरान्तानि आत्मन्येव अनुपश्यति - आत्मव्यतिरिक्तानि
न पश्यतीत्यर्थः । सर्वभूतेषु च तेष्वेव च - आत्मानं - तेषामपि भूतानां स्वम् आत्मानम्
आत्मत्वेन, अनुपश्यति, सः ततः- तस्मादेव दर्शनात्, न विजुगुप्सते - जुगुप्सां-घृणां
न करोति इति शङ्करकृतं व्याख्यानम् ; तदसमंजसम्, उदक्षरत्वात्
अर्थबाधात् व्याघातात् प्रकरणविरोधात् ; न
विजुगुप्सते इत्युक्तघृणानिवृत्तिं प्रति ततः पूर्वभागप्रतिपाद्यतया विवक्षितस्य अर्थस्य
हेतुत्वासम्भवाच्च ।
" यथा हि भूतल एव घटं पश्यति इति वाक्येन घटस्य भूतलवृत्तित्वदर्शन-"
तदितरवृत्तित्वादर्शनैतदुभयविषयकबोध
एव जायते ; न तु घटस्य भूतलव्यतिरिक्त- त्वादर्शनविषयकबोधोऽपि ; तथैव -
सर्वाणि भूतान्यात्मन्येवानुपश्यति
इति वाक्येनापि सर्व भूतानाम् आत्मवृत्तित्वदर्शनतदितरवृत्तित्वादर्शनैतदुभयविषयकबोध
एव भवितुमर्हति ; न तु सर्वभूतानाम् आत्मव्यतिरिक्तत्वादर्शनाभावविषयकबोधोऽपि इत्यतः
- आत्मव्यतिरिक्तानि न
पश्यतीत्यर्थः इति व्याख्यानमक्षराननुगुणमेव ।
" एवं सर्वभूतशब्दस्य अव्यक्तादिस्थावरान्तजडपदार्थजातमात्रस्य अर्थतया विवक्षितत्वेन"
दर्शितव्याख्याने जडाजडयोः परस्परव्यतिरिक्तत्वादर्शनस्य,
देहात्मैक्यदर्शनलक्षणविपरीतज्ञानपर्यवसन्नस्यैव
विवक्षितत्वलाभेन अर्थबाधस्य दुरपह््नवत्वात्, - ईदृशविपरीतज्ञानस्य प्रत्युत
संसारदुःखाभिवृद्धिहेतोः
घृणानिवृत्ति- हेतुत्वासम्भवाच्च असामञ्जस्यं दुर्वारम् ।
" एवं सर्वभूतेषु चात्मानम् इत्यत्र शरीरस्थानीय सर्वभूतानि प्रति स्वात्मस्व- रूपस्य"
आत्मत्वेन दर्शनस्यैव विवक्षिततया सर्वभूतानाम् आत्मनश्च
भेददर्शनस्यैव सिद्धेः ; पूर्ववाक्यार्थस्य
अभेददर्शनपर्यवसायिन एव विवक्षितत्वाच्च परस्परव्याघातोऽपि भवति । यदि च भूतजातस्य
आत्मन इह विवक्षितव्यतिरिक्तत्वा- दर्शनाभावो न तयोः स्वरूपैक्यदर्शनपर्यवसायी ; अपि
तु अपृथक्सिद्धविशेषणविशेष्य भावनिबन्धन परस्पराविनाभावलक्षणाभेददर्शनपर्यवसाय््येव
विवक्षितः ; अतो नात्र व्याघातप्रसङ्ग इति मन्यते ; तदाऽपि, अजडस्य अतिनिर्मलस्य आत्मनः
सर्वदोषाकरजडवस्तुसंसर्गदर्शनस्यैव विवक्षितत्वसिद्ध्या
तस्य प्रत्युत जुगुप्साहेतुताया एव सम्भवेन
तन्निवृत्तिहेतुत्वासम्भवात् वाक्यार्थासंगतिः दुर्वारैव । स्वस्मिन्नमेध्यसम्सर्गदर्शनस्य
हि जुगुप्साहेतुता सर्वलोकसाक्षिका दृश्यते ।
" एवम् - अत्रत्यात्मशब्दस्य मुमुक्षुचेतनस्वात्मस्वरूपपरतावर्णनमपि अयुक्तम् पूर्वं"
प्रथममन्त्रे, ईशेति ईट्् छब्देन ईश्वरत्वेन कंचिदात्मानं निर्दिश्य तद््भिन्नस्य ईशितव्यस्य
कृत्स्नस्य जगतः तच्छेषतां प्रतिपाद्य, ईश्वरत्वेन
निर्दिष्टस्य आत्मनः शास्तृत्वरूपेश्वरत्वशालितया
तच्छासनातिलङघने तदधीनदण्डप्रसङ्गपरिहाराय तदीशितव्यतच्छेषभूतजगदन्तर्गततदितरचेतनसामान्येन
तच्छासनानुवर्तिना तदधीनेनैव वर्तितव्यमिति तच्छासनानुवृत्तिप्रकारं तेन त्यक्तेन भुञ्जीथाः
इति मा गृधः कस्यस्विद्धनम् इति कुर्वन्नेवेह कर्माणि जिजीविषेच्छतँ समाः इति च प्रथमं
मन्त्रद्वयेन ज्ञापयित्वा ; ईदृश ईशेशितव्य शेषशेषिभावज्ञानतदधीनेश्वरशासनानुवर्तनविरहिणाम्
महानर्थप्रसङ्गं तृतीयमन्त्रेण प्रदर्श्य, ततो बहुषु आत्मसु सत्सु कस्यचित् एकस्य आत्मनः
परम् इतरैः सर्वैः अनुवर्तनीयशासनत्वं कुत इत्याकांक्षायाम् ईट््छब्दनिर्दिष्टस्य आत्मनः
सकलेतरात्मातिशायिशक्तिमत्वसर्वजगत्कारणत्वसर्व-
भूतान्तरात्मत्वलक्षणस्वरूपप्रतिपादनमुखेन नियन्तृतया
अन्तर्यामिभूतेश्वरात्मकत्वं सर्वप्रकारतन्नियाम्यत्वरूपं
जगतः चतुर्थपञ्चममन्त्राभ्यां प्रतिपाद्य, स्वेष्टसाधनतया
कृत्स्नस्य जगतः पूर्वमन्त्रोक्ताकारानुसन्धानं
मुमुक्षोः ब्रह्मविदः आवश्यकमिति ज्ञापनाय प्रवृत्तत्वात् अस्य षष्ठमन्त्रस्य । अस्मिन्
प्रकरणे ब्रह्मविदो मुमुक्षोः स्वात्मस्वरूपे सर्वभूतान्तरात्मत्वानुसन्धानस्य प्रसङ्गलेशाभावात्
; ईट््छब्दनिर्दिष्टस्य आत्मनः एकस्यैवसकलेतरातिशायिशक्
तिमत्वस्वेतरचेतनाचेतनलक्षणसर्ववस्त्वन्तरात्मत्वादिप्रतिपादनेन
अन्यस्यात्मनः कस्यापि तथाविधाकारासम्भवाच्च ।
(आत्मैक्यप्रतिपादनपरत्वाऽसम्भवः)
" न च - आत्मतत्त्वस्य एकत्वेन तस्यैव स्वस्मिन् परेषु च"
वर्तमानत्वात् तस्यैव ईट््छब्दवाच्यात्मस्वरूपत्वाच्च
आत्मभेदाभावेन मुमुक्षोः ब्रह्मविदः स्वात्मस्वरूपे
सर्वभूतशब्दिताव्यक्तादिस्थावरान्ताचेतनभागान्तर्वर्तित्वमात्रलक्षणसर्व-
भूतान्तरात्मत्वाकारानुसन्धानम् इहाभिधीयते इति नात्र विरोध इति - वाच्यम् ; ईट््छब्देन
ईश्वरत्वेन कस्यचिदात्मनो निर्देशेन अन्यस्य कृत्स्नस्य
जगतः ईशितव्यत्वसिद्धेः ईशितव्यान्तर्गतेतरात्मनाम्
ईट््छब्दवाच्यात्मशासनानुवर्तनविधानाच्च पूर्वमात्मभेदस्यैवास्मिन् प्रकरणे सुव्यक्तं
प्रतिपादनदर्शनात् आत्मैक्यप्रतिपादनगन्धानु- पलम्भाच्च ।
" एतेन एतदनुसारिमहीधरादिव्याख्यानमपि निरस्तं वेदितव्यम् ।"
तस्माद्यथोक्त- रीत्यैव अर्थो बोध्यः ।।