०५

पञ्चमो मन्त्रः
तदेजति तदु नैजति तद्दूरे तद्वन्तिके ।
तदन्तरस्य सर्वस्य तदु सर्वस्याऽस्य बाह्यतः ।।5।।
B.5
श्रीरङ्गाचार्यभाष्यम्
" पुनरपि तस्यैव परमात्मनो विभुत्वादिलक्षणं"
महिमान्तरमाह - तदेजति इत्यादिना पञ्चमेन मन्त्रेण ।।
(एजतिनैजत्योर्विरोधः तत्परिहारश्च)
" अस्य पदविवरणम् । तत् - पूर्वोक्तं"
परमात्मलक्षणमेकमात्मवस्तु, एजति - आश्रितकार्यार्थं
तत इतो गमनेन चलत्यपि, तदु - तदेव । उकारोऽवधारणार्थः। माध्यन्दिनानान्तु तन्नैजति
इत्येव पाठो दृश्यते । नैजति - न चलत्यपि । कथमेकस्य विरुद्धधर्मद्वयसम्भव इति चेत्,
विग्रहविशिष्टवेषेण चलनं स्वरूपतः चलनाभावश्च सम्भवतीति न विरोधः । परमात्मस्वरूपस्य
विभुत्वेन तस्य चलनं हि न सम्भवति ; तथाऽपि कृष्णो बृन्दावनं गच्छति, मधुरा गमिष्यति
इत्यादिव्यवहाराणां विग्रहविशिष्टवेषविषयाणां दर्शनेन विशिष्टवेषेण चलनमपि सम्भवति ।
(भगवतः परमकारुणिकत्वानन्याधीनत्वोक्तिः)
" यद्वा - आश्रितजनदुःखप्रसंगभयनिबन्धनं"
कम्पनम्, नियन्त्रन्तरदण्डभय- निबन्धन कम्पनाभावश्च
विवक्षित इति न विरोधः । अनेन आश्रितजनपरम- कारुणिकत्वम् अनन्याधीनत्वं चेति गुणद्वयं
प्रतिपादितं भवति । तत्, दूरे - अतिविप्रकृष्टदेशेऽप्यस्ति ;
तदु -तदेव अन्तिके - समीपेऽप्यस्ति
; तत् , अस्य सर्वस्य चिदचिल्लक्षणस्य कृत्स्नस्य
वस्तुजातस्य, अन्तः - अन्तरप्यस्ति ; तदु - तदेव,
सर्वस्यास्य बाह्यतः - बहिः प्रदेशेऽप्यस्ति विभुत्वात्सर्वत्रास्तीत्यर्थः ।
(सौलभ्यदौर्लभ्यगुणाविष्कारः)
" तद्दूरे तद्वन्तिके इत्यनेन —-"
" पराङ््मुखानां गोविन्दे विषयासक्तचेतसाम् ।"
" तेषां तत्परमं ब्रह्म दूराद्दूरतरे स्थितम् ।।"
" तन्मयत्वेन गोविन्दे ये नरा न्यस्तचेतसः ।"
" विषयत्यागिनस्तेषां विज्ञेयं च तदन्तिके ।।(वि.ध.99-13-14)"
" इति शौनकवचनोक्तम्, अनाश्रितजनानां दुर्ग्नहत्वलक्षणा"
दूरस्थितिः, आश्रितजनानां सुग्रहत्वलक्षणा
समीपस्थितिश्चेत्युभयं वा विवक्षितम् । अनेन च भक्तजनसौलभ्यम् अभक्तजनदौर्लभ्यं चेति
गुणद्वयं भगवतः प्रतिपादितं भवतीति बोध्यम् ।
(इवकाराध्याहारानावश्यता)
" तदेजति इत्यत्र एजतीव इति इवकाराध्याहारगर्भम् अन्यैः कृतं व्याख्यानम् अनुपादेयम्,"
विभोः परमात्मनः स्वरूपतश्चलनाश्रयत्वासम्भवेऽपि विशेषणीभूतविग्रहद्वारागमनाभिप्रायेण,
एजति इति व्यवहारस्य कृष्णो मधुरां गच्छति, द्वारकां गच्छति इत्यादिव्यवहारवत् निर्वाहसम्भवेन
“इवकाराध्याहारस्य अनावश्यकत्वात् । "
(अन्तर्व्याप्ति-बहिर्व्याप्तिविषये पक्षान्तरम्)
" 1यदप्याहुः अत्रोत्तरकलाख्याः - अणुद्रव्यविषयेऽन्तर्व्याप्तेर्विभुद्रव्यविषये-”
बहिर्व्याप्तेश्च दुर्वचतयाऽन्तर्व्याप्तिवचनमणुद्रव्यविषयेऽप्रतिघातादविभक्तदेशं
वर्तमानत्वमात्रविषयम् ; बहिर्व्याप्तिवचनन्तु विभुभिन्नपरिमितद्रव्यमात्रविषयम् - इति ।
(पक्षान्तरे असामञ्जस्योपपादनम्)
" अत्रोच्यते - इह तावत् अणुद्रव्यवाचकं"
पदम् एकम्, तदितरद्रव्यवाचकं पदम् अन्यदिति पदद्वयं
नोपलभ्यते । यतोऽणुद्रव्यान्वितान्तः पदस्य एकार्थकत्वम्, इतरद्रव्यान्वितान्तःपदस्य
अन्यार्थकत्वं च सुवचं स्यात् । किन्तु इह सर्वस्यास्य इत्येकमेव पदं सर्वद्रव्यवाचकमन्तः
पदान्वय््यस्ति । अतः तत्पदप्रतिपाद्यसर्व- द्रव्यान्वययोग्यैकविधार्थकताया एवान्तः
पदस्य वक्तव्यात्वेन अन्तवर्तित्वोक्तेः
अणुद्रव्यविषये परम् अप्रतिघातादविभक्तदेशतया वर्तमानत्वाभिप्रायकताया अन्यद्रव्यविषये
अन्यादृशाभिप्रायकतायाश्च वर्णनम् असम्बद्धमेव ।
" एवम् अप्रतिघातादविभक्तदेशतया वर्तमानत्वम् अनवच्छिन्नवृत्तिमत्त्वपर्य-"
वसन्नं तत्तद्वस्तुसम्बन्धिसर्वप्रदेशसम्बन्धित्वमेवेति
तादृशस्य तस्याणु-तद््भिन्नसर्वद्रव्यविषय एव परमात्मनि सम्भवादपि तथा वर्णनम् अनावश्यकम् ।
" अपि च - अन्तर्वर्तित्वस्य उक्तलक्षणानवच्छिन्नवृत्तिमत्त्वरूपत्वे"
सर्वद्रव्यसर्वप्रदेशसम्बन्धिताया
इह वाक्यद्वयप्रतिपिपादयिषितायाः तदन्तरस्य सर्वस्य इत्येकवाक्येनैव सिद्धया तदु सर्वस्यास्य
बाह्यतः इति वाक्यान्तरं निरर्थकमेव स्यात् ।
(सर्वशब्दसंकोचे मानाभावः)
" किञ्च तदु सर्वस्यास्य बाह्यतः इति वाक्यस्य स्वरसतः"
प्रतीयमानस्वभिन्नसर्वद्रव्यविषयकत्वभङ्गप्रसङ्गदोषम्
अगणयित्वा विभुभिन्नसर्वद्रव्य विषयकत्वेन सङ्कोच सहमानैः तदन्तरस्य सर्वस्य इति
पूर्ववाक्यस्यापि अणुभिन्नसर्वद्रव्यविषयकत्वेन सङ्कोचस्वीकारसम्भवेन अन्तः इत्यस्य
यथाश्रुतार्थप्रहाणस्यैव अनावश्यकत्वेन वाक्यान्तरवैयर्थ्यापादकोऽन्यादृशार्थः किमर्थं
कल्पित इति तु न जानीमः ।
(सङ्कोचकल्पनस्य अयुक्तत्वम्)
" एवमत्र परमात्मनः स्वभिन्नयावद््द्रव्येषु अन्तर्व्याप्तेः"
बहिर्व्याप्तेश्च पृथक्पृथक्सर्वशब्दघटितेन
वाक्यद्वयेन स्वरसतः प्रतिपाद्यमानत्वात्, श्रौतस्यार्थस्य यथाश्रुत्येव प्रतिपत्तव्यत्वात्
न हि वचनविरोधे न्यायः प्रभवति इति न्यायेन प्रस्फुटार्थकवचनविरोधेन व्यायप्रचारायोगाच्च,
कतिपयद्रव्येषु अन्तर्व्याप्तेः कतिपयद्रव्येषु बहिर्व्याप्तेश्च असम्भवं मत्वा श्रुतेः
स्वतर्कानुरोधेन स्वैरं सङ्कोचकल्पनमपि एतेषाम् अयुक्तमेव ।
(यच्चकिञ्चित् इति श्रुत्यर्थासंकोचप्रदर्शनम्)
" यच्च किञ्चिज्जगत्यस्मिन् दृश्यते श्रूयतेऽपि वा ।"
" अन्तर्बहिश्च तत्सर्वं व्याप्य नारायणः स्थितः ।। (तै.ना.94)"
" इति सम्प्रतिपन्नसमानार्थकनारायणानुवाकगतश्रुत्यन्तरमपि ईदृशसङ्कोच-"
कल्पनं निरुणद्धि ।
" अत्र हि तत्सर्वम् इत्येकशब्दप्रतिपन्नस्यैवार्थस्य अन्तर्बहिः"
व्याप्तिकर्मतया अन्वयात्
तत्सर्वम् इत्यस्य यच्च किञ्चित् इत्यादि पूर्ववाक्यप्रतिपन्नसर्वार्थपरामर्शिनः
कतिपयद्रव्यभिन्नद्रव्यविषयकत्वेन
सङ्कोचकल्पनासम्भवात् ; तथा सङ्कोचस्वीकारे च कतिपयद्रव्येषु व्याप्तेरेव परमात्मनः
असिद्धिप्रसङ्गात्, द्वयोरेतयोश्श्रुत्योः सर्वसम्प्रतिपन्नसमानार्थकताव्याहतिप्रसङ्गाच्च
दर्शितश्रुतेः यथोक्तरीत्या सङ्कोचकल्पनं नैव संजाघटीति ।
" तस्मात्स्वरसतः प्रस्फुटं श्रुतिप्रतिपन्नं स्वभिन्नयावद््द्रव्येषु"
अन्तर्बहिर्व्याप्तिमत्वं
परमात्मनः अस्तीत्येव अभ्युपगन्तव्यम् इति प्रागुक्तलक्षणार्थान्तरसङ्कोचादिकल्पनम्
एतेषाम् अनुपपन्नमेव ।
(अन्तर्यामिब्राह्मणेन अणुषु अन्तर्व्याप्तिसमर्थनम्)
" य आत्मनि तिष्ठन्नात्मनोऽन्तरो यमात्मा न वेद यस्यात्मा शरीरं य आत्मानमन्तरो यमयति"
स त आत्माऽन्तर्याम्यमृतः (बृ.उ.मा.पा.3-7-30) इत्यन्तर्यामिब्राह्मणश्रुतिश्च अणुभूते
प्रत्यगात्मनि अन्तः प्रविश्य
नियन्तृतयाऽवस्थितं परमात्मानं प्रतिशरीरतांप्रतिपादयन्तीपरमात्मनः
अणुषु अन्तर्व्याप्त्यसम्भववादम्
असमञ्जसम् इििति अतिस्फुटमेव आवेदयति ।
" अत्र हि य आत्मनि तिष्ठन् (बृ.उ.मा.पा.3-7-30) इति पूर्वमभिधाय पश्चात् आत्मनोऽन्तरः"
(बृ.उ.मा.पा.3-7-30) इति पुनरभिधानं परमात्मनः प्रत्यगात्मनि
बहिर्व्याप्तिमात्रशङ्काव्युदासार्थम्
इत्यापण्डितपामरं प्रस्फुटम् ।
" अत्र परमात्मनः प्रत्यगात्मनि अन्तः प्रविश्य"
नियन्तृतयाऽवस्थितत्वं प्रतिपाद्य प्रत्यगात्मपरमात्मनोः
शरीरशरीरिभावोपपादनादपि परमात्मनः अणुभूतप्रत्यगात्मनि अन्तर्व्याप्तिः दुरपह््नवा ।
" न हि बहिरेवावस्थितं कञ्चित्प्रति किञ्चिद््द्रव्यं"
शरीरं भवितुमर्हति; - तथा सति बहिरेवावस्थाय
नियन्तारं राजानं प्रति राष्ट्रस्यापि शरीरत्वव्यपदेशप्रसङ्गात् ।
(जीवान्तर्व्याप्तौ व्यासार्याभिमतिप्रदर्शनम्)
" तदिदं सर्वमभिसन्धाय उक्तं व्यासार्यैः एतां"
श्रुतिं व्याकुर्वद््भिः - आत्मनि तिष्ठन्
इत्युक्ते वेद्यामग्निस्तिष्ठति, तिले तैलं तिष्ठति इतिवत् बहिरबहिस्स्थिति- साधारण्यात्
तद्वैशद्यार्थमाह - आत्मनोऽन्तर इति; अन्तरो यमयति इत्यनेन शरीरलक्षणमुक्तम् इति ।
" "
" उक्तं च तैरैव अन्तः प्रविष्टश्शास्ता जनानां सर्वात्मा (तै.ना.3-11-10) इति श्रुतिं"
व्याकुर्वद््भिः - अन्तः प्रविष्टश्शास्ता इत्येतत् सर्वात्मशब्दव्याख्यानरूपम्, अनेन
शरीरात्मभाव उक्तः, अन्तः प्रविश्य नियाम्यत्वं हि शरीरत्वम् इति ।
" एवं यच्च किञ्चित् इत्याद्युदाहृतश्रुतिप्रतिपन्नां परमात्मनः स्वेतरसर्वद्रव्येषु"
अन्तर्बहिश्च व्याप्तिम् उपपादयितुं प्रवृत्तया अणोरणीयान्महतो महीयान् (क.उ.2-20) इति
श्रुत्या परमात्मनः स्वेतरसर्वसूक्ष्मद्रव्यापेक्षया सूक्ष्मतत्वस्य तदन्तर्व्याप्तिप्रयोजकस्य,
स्वेतरमहाद्रव्यापेक्षया महत्तमत्त्वस्य च
तद््बहिर्व्याप्ति- प्रयोजकस्य, प्रतिपादनमुखेन
स्वेतरेषु सर्वेषु सूक्ष्मेषु महत्सु च द्रव्येषु
अन्तर्बहिर्व्याप्तियोग्यताया एव प्रतिपादनात्
परमात्मनः स्वेतरेषु सर्वेषु द्रव्येषु अन्तर्बहिर्व्याप्तिः निराबाधैव प्रतिपाद्यते ।
" न च - निरवयवेषु अणुद्रव्यभूतेषु प्रत्यगात्मसु"
कथम् अन्तर्व्याप्तिः परमात्मनस्सम्भवति
? अन्तः प्रवेशप्रयोजकविवराभावात् इति वाच्यम् ; इतरवस्तुप्रवेशप्रयोजकविवराऽभावेऽपि
प्रमाणबलेन परमात्मप्रवेशप्रयोजकविवर- स्वीकारे क्षत्यभावात् ।
(अन्तःप्रवेशे प्रत्यक्षदृष्टान्तप्रतिपादनम्)
" यथा हि दर्पणादिस्वच्छद्रव्येषु पृथिवीजलादीतरवस्तुप्रवेशप्रयोजकविवरा-"
नङ्गीकारेऽपि
सूर्याद्यालोकप्रवेशप्रयोजकविवरम्, अयः पिण्डे
वस्त्वन्तरप्रवेश- प्रयोजकविवरानङ्गीकारेऽपि
अग्निप्रवेशप्रयोजकविवरंच प्रत्यक्षमाणबलेनङ्गीक्रियते ; तथैव प्रत्यगात्मस्वपि प्रमाणबलेन
परमात्मप्रवेशप्रयोजकविवरस्वीकारे हि न काचिदस्ति क्षतिः ।
" न च एतावता प्रत्यगात्मनां छेदभेदादिप्रसंगः,"
दर्पणादिद्रव्येषु आलोकादिप्रवेशतः छेदाद्यसम्भववदेवोपपत्तेः ।
" तस्मात् सूर्याद्यालोकः स्वव्याप्त्यप्रतिघातेन"
स्वच्छद्रव्याणि अन्तर्बहिश्च व्याप्यावतिष्ठते
; न च तावता तेषां काचिदस्ति क्षतिरिति यथा प्रत्यक्षप्रमाणबलादङ्गीक्रियते ; तथैव परमात्मापि
स्वव्याप्त्यप्रतिघातेन प्रत्यगात्मनः अन्तर्बहिश्च व्याप्यावतिष्ठते ; न च तावता तेषां
नित्यतादिक्षतिरिति श्रुतिबलादङ्गीक्रियत इति न कश्चिद्दोषः ।
" किं बहुना ; प्रत्यगात्मनां परमात्मव्याप्तिप्रतिघातकत्वस्वीकारे विभौ परमात्मनि छिद्रकरणं"
विना क्वचिदप्यवस्थानस्यैवासम्भवेन ते तस्मिन् प्रतिक्षणं छिद्रं कुर्वन्त एव तिष्ठन्ति
; तत इतस्सञ्चरन्ति च इत्यभ्युपगमस्यावश्यकतया परमात्मस्वरूपस्य छेदभेदादिप्रसंगो हि
दुर्निवारस्स्यात् इत्यवधीयताम् ।
" किञ्च, निरवयवत्वहेतुना प्रत्यगात्मनां परमात्मनः स्वान्तः प्रवेशप्रतिघातकत्वे तेनैव"
हेतुना परमात्मनोऽपि अन्येषां स्वान्तःप्रवेशप्रतिघातकताया दुर्वारतया परमात्मनि वा
अन्येषां कथम् अन्तरवस्थानसम्भवः ।
(निरवयव आत्मनि अन्तःप्रवेशे दृष्टान्तः)
" तस्मात्, यथा मणिदीपादिप्रभाणां बहूनाम् एकत्र प्रवृत्तानां परस्परव्याप्त्यप्रतिघातकतया"
परस्परान्तः प्रवेशः प्रत्यक्षप्रमाणसिद्धः ; यथा च स्वाप्नास्वाप्नपदार्थानाम् एकत्र
प्रसक्तानां परस्परान्तः प्रवेशो दुरपह््नवः ; यथा च कालदिगात्मनां विभुत्वेन अभ्युपगतानां
परस्पराप्रतिघातेनैव सर्वत्र व्याप्तिः नैयायिकादिसिद्धा ; यथा च अत्यल्पपरिमाणे वटपल्लवशायिनि
भगवति निखिलजगदण्डमण्डलस्य अन्तः- स्थितिश्च प्रमाणसिद्धा ; तथैव प्रत्यगात्मान्तर्नियन्तृतया
परमात्मनः स्थितिः परमात्मान्तरन्येषां तदायत्ततयैव स्थितिश्च श्रुत्यादिप्रमाणबलेनैव
दुरपह््नवा सिद्धयतीति निरवयवत्वमात्रेण अन्तस्स्थित्यसम्भववर्णनम्
अप्रतिष्ठितकेवलकुतर्कमात्रमूलमेव इति न किञ्चिदेतत् ।
(विभुद्रव्यापेक्षया बहिर्व्याप्तिसमर्थनम्)
" अथ एवमपि विभुद्रव्याणां देशपरिच्छेदरहितत्वेन तद््बहिर्देशसद््भावस्यैव दुर्वचतया"
कथं तद््बहिर्व्याप्तिः परमात्मनः सुवचा इति चेत्, न महतो महीयान् (क.उ.2-20) इति श्रुत्या
स्वेतरसर्वमहाद्रव्यापेक्षया परमात्मनो महीयस्त्वप्रतिपादनेन तद्विरोधेन कस्यापि द्रव्यस्य
परमात्मसमानमहत्त्वासिद्धेस्तदपकृष्टमहत्त्वेभ्यो द्रष्येभ्यः
परमात्मनो बहिर्व्याप्तिसम्भवे क्षतिविरहात् ।
" अत एव गीतासु -"
" अथवा बहुनैतेन किं ज्ञानेन तवार्जुन ।"
" विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत् ।।(भ.गी.10-42)"
इति दशमाध्यायवचनेन,
" इहैकस्थं जगत्कृत्स्नं पश्याद्य सचराचरम् ।"
" मम देहे गुडाकेश यच्चान्यद्रष्टुमिच्छसि ।। (भ.गी.11-7)"
" तत्रैकस्थं जगत्कृत्स्नं प्रविभक्तमनेकधा ।"
" अपश्यद्देवदेवस्य शरीरे पाण्डवस्तदा ।। (भ.गी.11-13)"
इत्येकादशाध्यायवचनाभ्याम्,
" यस्यायुतायुतांशांशे विश्वशक्तिरियं स्थिता ।"
" परब्रह्मस्वरूपस्य प्रणमामस्तमव्ययम्् ।। (वि.पु.1-9-53)"
इति श्रीविष्णुपुराणप्रथमांशनवमाध्यायवचनेन च सचराचरस्य कृत्स्नस्य जगतो भगवत्येकदेश
एव परिसमाप्तत्वं प्रस्फुटमेवाभिहितम् ।
" भगवतोऽपकृष्टपरिमाणानामेवकतिपयद्रव्याणांविभुत्वव्यवहारस्तु भगवदितर-"
कतिपयमहाद्रव्यापेक्षयापकृष्टपरिमाणराहित्यमात्रनिबन्धनः ।
(विभुद्रव्यविमर्शः)
" अथ - किं तावत् तादृशं विभुद्रव्यम् ? यद््बहिर्व्याप्तिर्ब्रह्मणो न"
सम्भवीत्युच्यत - इति विवेचयामः ।
" न तावदाकाशस्तथा - वेदान्तसिद्धान्ते तस्य प्राकृततत्त्वरूपतया महदादिभ्योपि"
अपकृष्टपरिमाणस्यापरिच्छिन्नत्वशङ्कागन्धानवकाशात्
। नापि शुद्धसत्त्वमिश्रसत्त्वद्रव्ये तथा तयोः परस्परदेशव्यावृत्तत्वात् ।
" नापि नित्यमुक्तधर्मभूतज्ञानानि तथा - तेषां सङ्कोचविकासशीलतया"
कदाचित्सङ्कोच्यावस्थापनस्यापि
सम्भवेन तद््बहिःप्रदेशस्यापि सूपपादत्वात् ।
" नापि कालस्तथा - सचराचरस्य कृत्स्नस्य जगतः भगवत्स्वरूपैकदेश"
एव परिसमाप्ततायाः प्रागुदाहृतप्रमाणसिद्धतया
तदन्तः पातिकार्योपयोगितयैव क्लप्तस्यास्य तद््बहिस्सद््भावे
प्रमाणाभावेन परिच्छिन्नताया दुरपह््नवत्त्वात् ।
" किञ्च - कालो लीलाविभूतौ अनित्यः, त्रिपाद्विभूतौ नित्यः"
इत्यप्यङ्गीकारदर्शनेन नित्यत्वानित्यत्वयोर्विरुद्धयोरेकत्रासम्भवेन
परस्परविभिन्नयोर्दूयोः कालयोः परस्परदेशव्यावृत्तयोरेव सिध्या
तयोः परिच्छिन्नता हि दुरपह््नवा ।
(भगवत्समपरिमाणवस्त्वभावः)
" किं बहुना ! परमात्मनस्स्वेतरसर्वमहाद्रव्यापेक्षया महीयस्त्वस्य परमात्मैकदेश एव"
सचराचरस्य कृत्स्नस्य जगतः परिसमाप्ततायाश्च प्रागुदाहृतानन्यथासिद्धप्रमाणसिद्धतया
तद्विरोधेन भगवदितरस्य कस्यापि द्रव्यस्य भगवत्समपरिमाणत्वं न
सिद्धयत्येवेति स्वेतरसर्वद्रव्यापेक्षया
परमात्मनो बहिर्व्याप्तिरपि सूपपादैव ।
" एवमेव परमात्मनस्स्वेतरसर्वाणुद्रव्यापेक्षयाऽणीयस्त्वस्य प्रत्यगात्मान्तर्या-"
मित्वस्य च प्रागुदाहृतप्रमाणसिद्धतया तस्य प्रत्यगात्मान्तर्व्याप्तिरपि दुरपह््नवैव ।
" न हि खलु कस्मिंश्चिद्वस्तुनि बहिर्मात्रसम्बद्धं"
किञ्चिद्वस्तु तदन्तर्यामित्वेनानुन्मत्तः कश्चिद्व्यपदिशेत् ।
(सावयवत्वे अनित्यत्वप्रसङ्गपरिहारः)
" अथान्तःप्रदेशाभावेऽन्तर्व्याप्तिर्न सुवचा ;"
तत्स्वीकारे च प्रत्यगात्मनां सावयवत्वप्रसङ्गः
; तत्स्वीकारे च अनित्यत्वप्रसङ्गो दुर्वार इति चेत् । इदं चोद्यं परमात्मन्यपि समानम्
; परमात्मन्यपि अन्तःप्रदेशसत्त्व एव तदन्तरितरेषां वस्तूनां स्थितिः सुवचा ; तत्स्वीकारे
च तस्यापि सावयवत्वं प्रसज्यते ; तत्स्वीकारे च अनित्यत्वप्रसङ्गोऽपीति ।
(कृत्स्नप्रसक्त्यधिकरणवत् चोद्यपरिहारः)
" किं बहुना - कृत्स्नप्रसक्त्यधिकरणे ब्रह्मणो निरवयवत्वे"
बहुभवनं कार्यत्वानुपयुक्तांशस्थितिश्च
नोपपद्यते ; सावयवत्वे च निरवयवत्वश्रुतिविरोध इति चोद्यं श्रुतेस्तु शब्दमूलत्वात्
(ब्र.सू.2-1-27) इति सूत्रे श्रुत्या ब्रह्मणो निरवयवत्वस्य तत एव विचित्रसर्गस्य च
प्रतिपादनात्, श्रौतस्यार्थस्य यथाश्रुत्येव प्रतिपत्तव्यत्वाच्च,
ब्रह्मणश्शब्दैकप्रमाणकत्वेन
धर्मिग्राहकप्रमाणेन यादृशस्वभावं तत्प्रतिपद्यते, तादृशस्वभावमेव तत्स्वीकर्तव्यमिति
न तत्र लोकदृष्टविरोधशङ्कावकाश इति सूत्रकारो यथा पर्यहार्षित्, तथेहापि परमात्मप्रत्यगात्मनां
निरवयवत्वनित्यत्वयोः परमात्मनस्स्वेतरसर्वद्रव्यान्तर्बहिर्व्याप्ततायाः कृत्स्नस्य
जगतः परमात्मान्तरेवावस्थित- तायाश्च श्रुत्यैव प्रतिपादनाच्छ्रुत्येकसमधिगतस्यार्थस्य
यथाश्रुत्येव प्रतिपत्तव्यात्वाच्च लोकदृष्टन्यायेन न विरोधशङ्कावकाश इति चोद्यपरिहारः सुकर एव ।
" इह विपरीतार्थकरणेन श्रुतेरन्यथानयने च तत्रापि"
श्रुतेरन्यथानयनं प्रसज्यत इति सूत्रकारोक्तान्यादृशसमाधानं
निरर्थकमेव स्यात् । स्पष्टार्थकश्रुतेः अन्यथानयनम् असङ्गतमिति सूत्रकारः तथा समादधौ
इति चेत् ? इहापि तत्तुल्यम् । ब्रह्मणः स्वेतरसर्वद्रव्येषु अविशेषेण अन्तर्बहिर्व्याप्ततायाः
समन्ततः प्रस्फुटमेव जोघुष्यमाणत्वात् ।
(स्वोक्तांशे श्रुतिसूत्रसम्मतिप्रदर्शनम्)
" इदं पुनरत्रावधेयम् - अन्तश्शब्दो हि नानांशमध्यावकाशपरः ।"
" इत्थंच परमात्मनो जीवात्मान्तः प्रवेशप्रतिपादकश्रुतिबलात् जीवात्मनाम् अणुस्वरूपाणामपि"
नानांशात्मकत्वं तन्मध्ये परमात्मप्रवेशयोग्यावकाशश्च अस्तीत्येव अभ्युपगन्तव्यं ; श्रौतस्यार्थस्य
“यथाश्रुत्येव प्रतिपत्तव्यत्वात् । "
" न च तावता अनित्यत्वापादकसावयवत्त्वप्रसङ्गः, वस्तुस्वरूपारम्भकाने- कांशात्मकत्वस्यैव”
तथाविधसावयवत्वरूपत्वेन अनादिसिद्धानेकांशात्मकत्वस्य
तथात्वासम्भवात् । ईदृशं विचित्रमनेकांशात्मकत्वमेव
“लोके क्वाप्यदृष्टमपि श्रुतिप्रमाणैकबलात् इह अङ्गीक्रियते । "
" यथा निरवयवस्य एकस्य ब्रह्मणो बहुभवनं, चेतनाचेतनादिलक्षणविचित्र- कार्योपादानत्वम्,”
कार्यत्वानुपयुक्तांशस्थितिः, जातिवादिपक्षे एकस्या एव
जातिव्यक्तेरिव युगपदनेकत्र परिपूर्णस्थितिश्च
इत्येवमादयो श्रुतिप्रामाण्यबलात् विचित्रशक्तियोगसम्भवाच्च
सूत्रकारेण कृत्स्नप्रसक्त्यधिकरणे स्थापिताः ।
" इत्थं च निरवयवत्वेन प्रतिपन्नस्य ब्रह्मणः कार्यत्वानुपयुक्तांशान्तरस्वीकारेऽपि"
प्रमाणप्रतिपन्ननित्यत्वभङ्गभिया अनादिसिद्धानेकांशात्मकत्वं
यथा स्वीकृतं ; तथैव प्रत्यगात्मनामपि
तत्स्वीकारे क्षतिविरहेण अणोरणीयसः परमात्मनः तदन्तर्व्याप्तिः निराबाधा ।
" एवमत्र परमात्मनस्सर्वकार्यबहिर्भूतकार्यत्वानुपयुक्तांशान्तरसद््भावाङ्गीकारेण महतो"
महीयसः तस्य विभ्वपेक्षया बहिर्व्याप्तिरपि निराबाधैव ।
" न च -विभुद्रव्यापेक्षया बहिर्भूतांशान्तरसद््भावः"
प्रमाणाप्रतिपन्न इति वाच्यं ; प्रागुदाहृतगीताविष्णुपुराणवचनैः
कृत्स्नस्य जगतः परमात्मनि अत्यल्पतमैकांश एव पर्याप्ततां
प्रतिपादयदभिः तत्सिद्धेः दुरपह््नवत्वात् ।
(जीवपरयोः सांशत्वनिरवयवत्वनिरूपणम्)
" इत्थं च परमात्मप्रत्यगात्मनां निरवयवत्वव्यवहारो"
वस्तुस्वरूपारम्भकाने- कांशात्मकत्वाभावनिबन्धनः ;
सांशत्वव्यवहारः अनादिसिद्धानेकांशात्मकत्वनिबन्धन इति न कश्चिद्विरोध इति ।
" तस्मात् अणुद्रव्येषु अन्तर्व्याप्तिः, विभुद्रव्येषु बहिर्व्याप्तिश्च, परमात्मनो"
न सम्भवतीति वादः केवलकुतर्कमूलः असमञ्जस एवेति सिद्धं भवति इति 1अलं बहुना ।
(जगतो ब्रह्मात्मकत्वनिगमनम्)
" तथा च अनेन मन्त्रद्वयेन ईट््च्छब्दवाच्यस्य"
एकस्यात्मनो ब्रह्मणः स्वेतरसर्वातिशायिशक्तिमत्त्व

  • सर्वान्तर्यामित्वपर्यवसन्नविभुत्वयोः प्रतिपादनात् जगतो ब्रह्मात्मकत्वमप्युक्तं भवति ।