०४

चतुर्थः मन्त्रः
अनेजदेकं मनसो जवीयो नैनद्देवा आप्नुवन् पूर्वमर्षत् ।
तद्धावतोऽन्यानत्येति तिष्ठत्तस्मिन्नपो मातरिश्वा दधाति ।।4।।
B.4
श्रीरङ्गाचार्यभाष्यम्
(विचित्रशक्तियोगमुखेन परमात्मनः इतरवैलक्षण्यम्)
" आत्मनां बहुत्वस्य तत्रैकस्य परं सकलेतरातिशायिशक्तिमत्त्वस्य च प्रतिपादनेन, ईट््"
शब्दनिर्दिष्टपरमात्मनः अन्येषां च प्राक्प्रस्तुतम् ईशेशितव्यभावशेषशेषिभावादिकं दृढीकर्तुं
सर्वेश्वरं सकलेतरेभ्य आत्मभ्यो विशिनष्टि - अनेजत् इत्यादिना चतुर्थेन मन्त्रेण ।
" अस्य पदविवरणम् - एकम् - परमात्मशब्दितमात्मतत्त्वम्, अनेजत् एजृ कम्पने (पा.धा.234)"
इति भौवादिकाद्धातोश्शत्रन्तरूपम् एजदिति । एजत् न भवतीति अनेजत् - स्वस्थानात् स्वयमचलदेव
, मनसः - वेगकाष्ठापन्नतया लोके प्रसिद्धात् मनसोऽपि, जवीयः - अतिशयेन जववत् वेगवत्तरम्,
जववच्छब्दात् ईयसुनि विन्मतोर्लुक्् (पा.सू.5-3-65) इत्यनुशासनेन मतुपो लुक्् । यद्वा
, तरस्वी त्वरितो वेगी प्रजवी जवनो जवः (अ.को. 2-8-73)
इति कोशेन जवशब्दस्यापि वेगवत्पर्यायपाठात्
तत एव ईयसुनि जवीय इति भवति ।
(परमात्मनः मनसो जवीयस्त्वप्रतिपादनम्)
" चलनरहितस्य कथं जवीयस्त्वम् इति चेत्,"
एकत्रावस्थितस्य अल्पकालेऽपेक्षितकार्यार्थातिदूरदेशसन्निधानयोग्यतावत्त्वाभिप्रायेण
इह परमात्मनो जवीयस्त्वव्यपदेशः । यथा अन्यत्रापि अपाणिपादो जवनो ग्रहीता (श्वे.उ.3-19)
इति ; आसीनो दूरं व्रजति शयानो याति सर्वतः (क.उ.2-21) इति च ।
" एकत्र एककार्यानुगुणाकारेणावस्थितस्यैव सत्यसंकल्पस्य विभोः परमात्मनः स्वरूपतः सदा"
सर्वत्र व्याप्तत्वेन अतिदूरदेशेऽप्यतिशीघ्रमेव संकल्पमात्रेण स्वेष्टानुगुणाकारेण
स्फुरणसम्भवेन चिन्तिततत्रत्यकार्यानुगुणाकारेण तत्र सन्निधानं हि नानुपपन्नम्, प्रसिद्धं
च वैकुण्ठदुग्धाब्धिप्रभृतिस्थानेषु अचञ्चलं तिष्ठत एव भगवतः ततोऽतिविप्रकृष्टस्थले
प्रहलादचिन्तासमकालम् अतिक्षिप्रमेव स्तम्भे स्फुरणतस्तद्रक्षणानुगुणाकारेण सन्निधानम्
। तथा च मनोजवगतिभ्योऽपि अन्येभ्यस्सर्वेभ्यः अतिक्षिप्रमेवचिन्ताप्रदेशात््
चिन्तितप्रदेशेकार्यानुगुणसन्निधानयोग्य-
तावत्त्वमेवमनसो जवीयस्त्वम् इह विवक्षितम् ।
" 1यद्वा - एकाकारेण क्वचित्तिष्ठत एव भगवत आकारान्तरेण 2अतिक्षिप्रमतिवेगगमनेनाऽपि"
अतिविप्रकृष्टस्थले चिन्तितकार्यार्थसन्निधानयोग्यत्व- रूपमेव 3जवीयस्त्वम् इह विवक्षितम्
। दृश्यते हि भगवतः तादृशमपि सन्निधानं ग्राहग्रस्तगजेन्द्ररक्षणादौ । तथा च चिन्तासमकालमेव
अतिदूरदेशेऽपि संकल्पमात्रेण अतिवेगेन सन्निधानयोग्यतावत्तया प्रसिद्धात् मनसोऽपि
अतिवेगेन तादृशसन्निधानयोग्यतावत् परमात्मवस्तु इति पक्षद्वयेऽपि फलितोऽर्थः ।
" जवीयस्त्वं 4विवृणोति - नैनद्देवाः इत्यादिना तिष्ठत् इत्यन्तेन वाक्यद्वयेन देवाः"

  • चिन्तासमकालं मनोजवगत्या चिन्तितस्थानसन्निधानयोग्यतावत्परमयोगि- व्यासजामदग्न्यादिभ्यो
    मनुष्येभ्योऽपि अधिकशक्तिमत्तया प्रसिद्धा
    ब्रह्मादयोऽपि देवाः ; स्वयं धावन्तोऽपीति शेषः , वक्ष्यमाणवाक्यानुरोधात् ।
    " पूर्वम् - तद्धावनारम्भात्किञ्चित्पूर्वम् , अर्षत् - गच्छत्, न तु धावत्, ऋषी गतौ"
    (पा.धा.1288) इति धातोः शत्रन्तरूपमेतत् । यद्यपि तौदादिकोऽयं धातुः ; तथाऽपि छान्दसो
    गुणः । यद्वा धातुपाठे बहुलमेतन्निदर्शनम् (पा.ग.सू.208) इत्यस्य दशगणीपाठो बहुलम् इत्येतदर्थ-
    परत्वमाश्रित्यापठितलौकिकवैदिकधातूनामपि यथाप्रयोगम् एष्टव्यताया अपि स्वीकारात्
    प्रयोगदर्शनाच्च भौवादिकोऽप्येवंभूतो वैदिकः कश्चिद्धातुः अस्तीत्यभ्युपगम्यत इति न
    दोषः । एवमेव माध्यन्दिनपाठे दृश्यमानस्य अर्शत् इति रूपस्यापि
    ऋषी गतौ इति भौवादिकधातुसद््भावमाश्रित्य
    निर्वाहो बोध्यः । एनत् - पूर्वोक्तं परमात्माख्यमेकमात्मवस्तु , नाप्नुवन् - न प्राप्नुवन्ति
    प्राप्तुं न शक्नुवन्तीत्यर्थः । छन्दसि लुड्् लङ् लिटः (पा.सू.3-4-6) इत्यनुशासनेन
    लोडर्थे लुङ्् । तत् -
    पूर्वोक्तमेकमात्मवस्तु , धावतः - प्रागेव धावतः, अन्यान् - प्रागुक्तान् ब्रह्मादिदेवान्
    , तिष्ठत् - तद्धावनानन्तरं चिरं तिष्ठदपि , अत्येति -
    पश्चात्क्षणेनैव स्ववेगशक्त्या अतिक्रामति ।
    " तथा चेदमुक्तं भवति - आत्मानः अनन्तास्सन्ति ;"
    तत्रैकस्तावदात्मा सकलेतरव्यावृत्तनिरतिशयवेगशक्तिशाली
    ; यतः , इतर आत्मानस्स््वदेशा- त्किञ्चित्पूर्वं गच्छन्तमेतं स्वयं पश्चाद्धावन्तोऽपि
    प्राप्तुमेव न शक्नुवन्ति ; किमुत अतिक्रमितुम् ! अयं पुनरात्मा स्वदेशात्पूर्वमेव धावतः
    अन्यांस्तद््गमनात्पश्चात् स्वयं स्वदेशे चिरं तिष्ठन्नपि ततः क्षणेनैव स्ववेगशक्त्या
    अतिक्रम्य गच्छति इति।
    (परमात्मनो निखिलजद्धारकत्वशक्तिः)
    " अथास्यात्मनो निखिलजगद्धारकत्वशक्तिं तन्मुखेन कारणत्वंचाह - तस्मिन्नप इत्यादिना ।"
    मातरिश्वा - मातरि अन्तरिक्षे श्वयति गच्छतीति मातरिश्वा; निरालम्बे नभसि एकत्र अवस्थानरहितः
    सततगमनशीलः स्वयं स्थूलगुरुद्रव्यानात्मकतया
    स्थूलगुरुद्रव्यान्तरधारणशक्तिगन्धसम्भावनानर्हो वायुरपि इत्यर्थः ।
    " तस्मिन् - यथोक्तलक्षणैकात्मनि , अपः -"
    निखिलजगदण्डमण्डल - कारणत्वेन आदिसृष्टस्थूलगुरुद्रव्यरूपाणि
    तदाधारत्वेन समन्ततः तदावरणत्वेन च स्थूलगुरुद्रव्यान्तरावष्टम्भलेशमन्तरेणैव
    अवतिष्ठमानानिकारणोदकानि
    ; दधाति - धारयति । प्रासादशिखरे चैत्रो ध्वजं धारयति
    इत्यत्र चैत्रः प्रासादशिखरोपष्टब्धस्सन्नेव
    ध्वजं धारयतीतिवत् , तस्मिन्नपो मातरिश्वा दधाति
    इत्यत्र परमात्मोपष्टब्धस्सन्नेव मातरिश्वा
    कारणोदकानि दधातीत्यर्थः अनेन लभ्यत इति बोध्यम् । सविवरोदरतया
    स्वेषु प्लवमानानां निखिलजगदण्डमण्डलानाम्
    आधारभूतानि आदिसृष्टानि कारणजलानि स्थूलगुरुद्रव्यान्तरोपष्टम्भमन्तरेण निरालम्बे नभसि
    केवलपरमात्मशक्तञ्चुपष्टब्धवातोत्तम्भितान्येव हि अवतिष्ठन्ते ।
    (अप्सृष्टेः प्राथमिकत्वम्)
    " उक्तं हि मनुना जगत्कारणतया स्थूलगुरुद्रव्यान्तरापेक्षया"
    प्रथमसृष्टत्वमपामेव प्रथमाध्याये -
    " सोऽभिध्याय शरीरात्स्वात्सिसृक्षुर्विविधाः प्रजाः ।"
    " अप एव ससर्जादौ तासु वीर्यमवासृजत् ।। (मनु.स्मृ.1-8)"
    " तदण्डमभवद्धैमं सहस्त्रांशुसमप्रभम् ।"
    " तस्मिन् जज्ञे स्वयं ब्रह्मा सर्वलोकपितामहः ।।इति ।(म.स्मृ.1-9)"
    विष्णुपुराणे प्रथमांशे द्वितीयाध्याये -
    " तत्क्रमेण विवृद्धं सज्जलबुद््बुदवत्समम् ।"
    " भूतेभ्योऽण्डम्महाबुद्धे महत्तदुदकेशयम् ।।(वि.पु.1-2-55)"
    इति कारणोदकाधारकत्वम् अण्डस्य उक्तम् ।
    एवं तत्रैव -
    " वारिवहन्यनिलाकाशैस्ततो भूतादिना बहिः ।"
    " वृतं दशगुणैरण्डं भूतादिर्महता तथा ।। (वि.पु.1-2-59)"
    इति 1कारणजलाद्यावरणावृतत्वम् अण्डस्याभिहितम् ।
    " तथा च , अनन्तेष्वात्मसु एक आत्मा स्वेतरसर्वातिशायिमहिमा"
    जगत्कारणभूतश्चेति प्रतिपादयताऽनेन
    मन्त्रेण प्राक्् ईट्् शब्देन निर्दिष्टस्य परमात्मनः
    स्वेतरसर्वनियन्तृत्वादिकम् उपपादितं भवति ।
    (शङ्करादिव्याख्यायाः असंगतत्वम्)
    " शङ्करकृतमेतद्वयाख्यानम् अक्षराननुगुणम् आपण्डितपामरातिस्फुटप्रतीय-"
    मानार्थप्रहाणेन
    स्वमताभिनिवेशमात्रेण बलाद्यथेष्टविपरीतार्थकल्पनेन च
    असमंजसंचेति , अन्येषां केषांचिद्वयाख्यानमपि
    शब्दस्वारस्याननुगुणमिति च विलोकयतां विदुषां स्वत एव विशदं
    “भवतीति तदुपपादनमुपेक्षामहे ग्रन्थगौरवभयात् ।। "