०३

तृतीयो मन्त्रः
असुर्या नाम ते लोका अन्धेन तमसावृताः ।
ताँस्ते प्रेत्याभिगच्छन्ति ये के चाऽऽत्महनो जनाः ।।3।।
B.3
श्रीरङ्गाचार्यभाष्यम्
अवतारिका
" प्रथमद्वितीयसूत्रप्रक्रान्तपरविद्यातदंगकर्मानुष्ठाननिष्ठाविरहिणाम्"
अविदुषां तादृशनिष्ठायां
द्रुतप्रवृत्तये तदभावे महानर्थप्रसंगः प्रदर्श्यते - असुर्या नाम इत्यादिना
तृतीयेन मन्त्रेण ।
(असुर्यशब्दे व्युत्पत्तिद्वयनिरूपणम्)
" अस्य पदविवरणम् - अन्धेन - अन्धयतीत्यन्धम् तेन अतिगाढेन,सूर्यालोकप्रसंगविरहिणा इति"
यावत् । तमसा -अन्धकारेण वृताः व्याप्ताः असूर्या नाम - असुर्या इति संज्ञया प्रसिद्धाः,
नामेति प्रसिद्धौ । उगवादिभ्यो यत् (पा.सू.5-1-1-) इत्यनुशासनेन उवर्णान्तात् गवादिभ्यश्च
यत्स्यात् प्राक्क्रीतीयेष्वर्थेषु इत्यर्थकेन, तस्मै हितम्
(पा.सू.5-1-5) इत्यनुशासनसिद्धे अर्थे, असुरशब्दस्य गवादिगणघटकतया यत्प्रत्यये, असुरेभ्यो
हिताः असुर्याः इति व्युत्पत्त्या असुरस्य स्वम् (पा.सू.4-4-123) इत्यनुशासनेन असुरशब्दात्
असुरस्य स्वम् इत्यर्थे यत्प्रत्ययो भवतीत्यर्थकेन यत्प्रत्यये, असुराणांस्वभूताः असुर्या
इति व्युत्पत्त्या वा असुरहितत्वेन असुरस्वामिकत्वेन वा प्रवृत्तिनिमित्तेन असुर्यसंज्ञया
प्रसिद्धाः इत्यर्थः । अनेन विशेषणद्वयेन असुरेतरेषां अतिदुःखदा इति सूचितम् । ते -
तत्र तत्र श्रुतिषु प्रसिद्धाः । श्रुतये हि बृहदारण्यकोपनिषदि षष्ठाध्यायचतुर्थब्राह्मणे -
" अनन्दा नाम ते लोका अन्धेन तमसाऽऽवृताः ।"
" तांस्ते प्रेत्याऽभिगच्छन्त्यविद्वांसोऽबुधो जनाः ।। (बृ.उ.6-4-11)"
कठोपनिषदि प्रथमवल्लयामपि —
" पीतोदका जग्धतृणा दुग्धदोहा निरिन्द्रियाः ।"
" अनन्दा नाम ते लेकास्तान् स गच्छति ता ददत् ।। (क.उ.1-3) "
इति च । अतश्च असुर्यसंज्ञितानामेव लोकानाम् अनन्दा इत्यपि संज्ञान्तरमस्तीति अवगम्यते
; अन्धेन तमसाऽऽवृताः इति स्वरूपस्य द्वयोः तुल्यतादर्शनात् लोकाः- ईदृशा लोकाः केचन
सन्ति । तान् लोकान् ते - प्राणिनः प्रेत्य - मृत्वा, अभिगच्छन्ति - अभिमुखा गच्छन्ति,
कदाचित् तद्धेतुदुष्कृतप्रसङ्गवशात् तत्प्राप्त्युन्मुखास्सन्तः प्राप्नुवन्ति । अपि
गच्छन्ति, इति माध्यन्दिनपाठेऽपि अयमेवार्थो बोध्यः । अपिधानम् इत्यादाविव अत्रापि
अपीत्यस्य उपसर्गत्वात् उपसर्गाणाम् अनेकार्थत्वसम्भवात् पाठद्वयैककण्ठ्यानुरोधाच्च
। के ते प्राणिन इत्यत्राह - ये के च इति । येकेच - ये केचित् ।
" आत्महनः - आत्मानं घ्नन्ति नाशयन्तीति आत्महनः,"
पूर्वोक्तलक्षणस्वस्वरूपपरस्वरूपयाथात्म्याज्ञानविपरीतज्ञानाभ्याम् आत्मानम् असन्नेव
स भवति । असद््-ब्रह्मेति वेद चेत् (तै.आ.-30) इत्युक्तमसत्कल्पत्वलक्षणं स्वरूपनाशं
प्रापयन्तः । प्रागुदाहृतश्रुत्यन्तरैककण्ठ्यात् प्रकरणानुरोधाच्च
अज्ञत्वलक्षणमात्महन्तृत्वमेवेह
विवक्षितम् । जनाः- पुनः पुनर्जननधर्माणस्संसरन्तः सन्ति, ते तानभिगच्छन्तीत्यन्वयः- इति ।
" स्वस्वरूपपरस्वरूपयाथात्म्याज्ञानविपरीतज्ञानशालिनो"
जनास्तदधीनकादा- चित्कप्रबलदुष्कृतपरिपाकवशात्कदाचिद्यथोक्तलक्षणान्महादुःखदान्
लोकानपि अवश्यं प्राप्नुयुरेव; अतश्शीघ्रमेव यथोक्तलक्षणनिष्ठां
प्राप्य तादृश महासङ्कटप्राप्तेर्मोचनीय
आत्मा विवेकिभिरिति भावः ।
(शाङ्करयोजनानिरासः)
" अत्र स्वमतसिद्धाद्वैतज्ञानविधुराणां सर्वेषामसुरशब्दविवक्षितत्वम्, असुर्यलोकशब्दस्य"
महाक्लिष्टकल्पनयासंसारमण्डलान्तर्जन्ममात्रपरतां, नामशब्दस्य निरर्थकतां चाश्रित्य
शङ्करकृतं व्याख्यानमसमंजसम् ; असुर्या नाम ते लोकाः इति श्रुत्यन्तरप्रसिद्धतयासुर्यसंज्ञतया
च कांश्चिल्लोकान् पृथग्विभज्य निर्दिश्य, तेषाम् अन्धेन तमसावृताः इत्यतिसंकटरूपतां
च प्रदर्श्य तत्प्राप्तेः फलत्वेन प्रतिपाद्यमानताया वचोभङ्गयैवाऽऽपण्डितपामरमतिस्फुटत्वेन
अकारणमेव तत्प्राहाणस्य अयुक्तत्वात् ।
" इत्थमेव विलक्षणज्ञाननिष्ठायाः असम्पादने महानर्थप्राप्तिस्सामवेदीयतल- वकारोपनिषदि"
द्वितीयखण्डेऽप्युक्ता, इह चेदवेदीथ सत्यमस्ति, न चेदिहावेदीन्महती विनष्टिः (के.उ.2-5) इति ।।
विपरीतज्ञानात्सर्वपापप्रसङ्गश्च -
" योऽन्यथा सन्तमात्मानमन्यथा प्रतिपाद्यते ।"
" किं तेन न कृतं पापं चोरेणात्मापहारिणा ।। (भा.उद्यो.41-34)"
इत्यादिभिरप्युच्यते ।
" तथा च यथोक्तलक्षणनिष्ठाविरहे महानर्थप्रसंगावर्जनीयताप्रतिपादनमुखेन"
सा शीघ्रं सम्पादनीयेत्येवास्य
मन्त्रस्य निर्गलितोऽर्थ इति बोध्यम् ।।