द्वितीयो मन्त्रः
(विदुषो विद्याङ्गतया यावज्जीवं कर्मानुष्ठानम्)
कुर्वन्नेवेह कर्माणि जिजीविषेच्छतगँ समाः।
एवं त्वयि नान्यथेतोऽस्ति न कर्म लिप्यते नरे।।2।।
B.2
श्रीरङगाचार्यभाष्यम्
बुभुक्षोः भोगहेतुसुकृतप्रयोजकतयैव मुमुक्षोरपि
मोक्षहेतुपरविद्यासहकारितया,
स्वाधिकारार्हेण केनचिदाकारेण कर्मयोगानुष्ठानावश्यकताम् अभिसन्धाय,
तदङगभूतं त्रिविधत्यागलक्षणानुसन्धानविशेषरूपमाकारं
प्रथममन्त्रे अभिधाय अङगिभूतं कर्मयोगं स्वाङगिभूतपरविद्यायाः आप्रयाणादनुष्ठेयायाः
उपकारकतया यावज्जीवमनुष्ठेयं 1प्रतिपादयति कुर्वन्नेव इत्यादिर्द्वितीयो मन्त्रः।
बुभुक्षूपयोगिनामेव च कर्मणां केनचिदाकारेण मुमुक्षोरपि आवश्यकतां प्रदर्शयितुमेव
कर्मकाण़्डभूतसंहितान्ते एव, ज्ञानकाण्डोऽपि उपाक्रामि।
य एव यज्ञादयो धर्माः केवलाश्रमिणां बुभुक्षूणामपेक्षिताः; त एव मुमुक्षूणामपि
विद्याङगतयाऽपेक्षिताः आकारमात्रेणैव भेदः। न तु कर्मस्वरूपभेद इत्ययमंशः सर्वथाऽपि
त एवोभयलिङगात् (ब्र.सू.3-4-34) इति सूत्रे सूत्रकारेणाऽपि दर्शितः।
अस्य मन्त्रस्य विवरणम् - एवम् - पूर्वमन्त्रोक्तप्रकारेण,
त्रिविधत्याग- लक्षणानुसंधानपूर्वकमिति
यावत्। मुमुक्षुर्भवानपीति शेषः; मुमुक्षुप्रकरणात्, जिजीविषेत् इति प्रथमपुरुषनिर्देशानुगुण्यात्,
उपदेशप्रकरणानुगुण्याच्च। इह अस्मिन् विद्यायोनिजन्मनि, कर्माणि - स्ववर्णस्वाश्रमाधिकारानुगुणतया
बुभुक्षुं प्रति प्राग्विहितानि सर्वाणि कर्माणि, कुर्वन्नेव- विद्याङगतया यथाशक्त्यनुतिष्ठन्नेव,
शतं समाः - शतं संवत्सरान्, स्वायुरवसानपर्यन्तमिति यावत्। शतोक्तिस्तु शतायुः पुरुषः
(तै.ब्रा.1-8-9) इति पुरुषायुषस्य संवत्सरशतपरिमितत्वश्रवणेन प्रायशस्तत्संभवाऽभिप्रायेण कृता।
यद्वा शतशब्दोऽनेकमात्रपरः; अनेकान् संवत्सरान् इत्यर्थः। विद्यासिद्धि-
पर्यन्तमिति यावत्। जिजीविषेत् - जीवितुमिच्छेत्,
विदुषोऽपि यावद्विद्यानिष्पत्ति तदङगकर्मानुष्ठानं
जीवनं च एष्टव्यमेव भवतीत्यभिप्रायेण कुर्वन्नेव जिजीविषेत् इत्युक्तिः। बुभुक्षुं प्रति
विहितानां सर्वेषां कर्मणामविशेषेणानुष्ठाने विदुषोऽपि बुभुक्षोरिव बन्धः किं न स्यात्
? इत्याशंकापरिहारायोच्यते - त्वयि नान्यथेतोऽस्ति इत्यादि। नरे - न रमत इति नरः। तस्मिन्
फलानुरागरहिते - एतत्फलं मम न स्यात् इत्यभिसिन्धमतीति यावत्। त्वयि, कर्म - पूर्वोक्तेषु
कर्मसु किमपि कर्म, न लिप्यते
संश्लेषानुकूलव्यापारवत् न भवति, स्वसत्तामात्रेण 1मोक्षविरोधिफलोपधायकसम्बन्धवि
शेषानुकूलव्यापारवत्
न भवति। इतः - अस्मात्प्रकारात्, अन्यथा - प्रकारान्तरं
मोक्षविरोधिफलोपधायकसम्बन्धविशेषानुकूलव्यापारवत्वलक्षणं
नास्ति- न कदापि भवतीति। प्रागुक्तलक्षणत्रिविधत्यागरूपानुसन्धानपूर्वकं परविद्याङगतया
कर्माण्यनुतिष्ठतः, कदाचिदपि
मोक्षविरोधिफलप्राप्तिलक्षणबन्धप्रसङगएव न सम्भवतीति भावः।
(अस्मिन्विषये श्रुतप्रकाशिकासंवादः)
इतोऽन्यथा नास्ति इत्यभिधानम्, इदं तात्विकमेव न स्तुतिमात्रम् इति ज्ञापनाय।
अत एव स्तुतयेऽनुमतिर्वा (ब्र.सू.3-4-14) इति सूत्रश्रुतप्रकाशिकायामिदं श्रुतिखण्डं
नरे न रमत इति नरः - निस्सङगः, तस्मिन् इतोऽन्यथा नास्ति,
- नरे त्वयि न कर्म लिप्यत इतीतोऽन्यथा नास्ति इदमेव तत्तवम्, न स्तुतिमात्रम् इत्यर्थः
इति व्यासार्यैरपि व्याख्यातम्।
" त्रिविधत्यागलक्षणकर्मानुष्ठानस्य बन्धकत्वाभावे गीतासंवादः"
" दर्शितत्रिविधत्यागलक्षणानुसन्धानविशेषवतां"
मोक्षविरोधिफलसम्भवः स्पष्टमुक्तो भगवताऽपि गीताशास्त्रे-
" 1 अनिष्टमिष्टं मिश्रं च त्रिविधं कर्मणः फलम्।"
भवत्यत्यागिनां प्रेत्य न तु सन्यासिनां क्वचित्।। (भ.गी.18-12) इति।
- 2 सर्वकर्माण्यपि सदा कुर्वाणो मद्वयपाश्रयः।
मत्प्रसादादवाप्नोति शाश्वतं पदमव्ययम् ।। (भ.गी.18-56) इति च।
अत्र द्वितीयश्लोकेऽपि - मद्वयपाश्रयः इत्यस्य मयि सन्यस्तकर्तृत्वादिक इत्यर्थकतया
यथोक्तलक्षणत्यागवतः सर्वाणि कर्माणि कुर्वतोऽपि मोक्षविरोधितत्तत्फल- प्रसङगमन्तरेणैव
मोक्षप्राप्तिरभिहिता।
(मन्त्रे कर्मशब्देन काम्यकर्मणामपि विवक्षितत्वसाधनम्)
अत्र सर्वशब्देन काम्यकर्मणामपि विवक्षितत्वेन तेषामपि विदुषा दर्शित
त्यागलक्षणाभिसन्धिविशेषवतानुष्ठीयमानानां विद्यामाहात्म्येन विद्योपकारकतयैव
पर्यवसानस्य मोक्षविरोधितत्फलप्रसङगविरहस्य च
सिद्धेश्चेहाभिप्रेततया विद्यास्तुतिरपि विवक्षिता।
नित्यनैमित्तिककर्मणां कामोपनिबन्धमन्तरेण बुभुक्षून् मुमुक्षूंश्च प्रति अविशेषेणैव
विधानेन विनियोगपृथक्त्वन्यायेनैव तत्तदधिकार्युद्देश्यप्रधानफलानुगुण्यसिद्धया
तद्विरोधिफलप्रसंगाभावात्
इह तत्प्रसङगसम्भवमाश्रित्य तत्प्रतिषेधदर्शनात्
कामोपनिबन्धपूर्वकं विहितानां काम्यकर्मणामेव
विरोधिफलहेतुत्वस्वभावनैयत्याच्च विद्यामाहात्म्येन तेषामेव इह
विरोधिफलहेतुत्वलक्षणलेपकत्वप्रसङगपरिहारमुखेन
विद्यास्तुतेरिह विवक्षितत्वात् काम्यकर्मणामत्राविवक्षितत्वे तदनिर्वाहाच्च, तान्यप्यत्र
विवक्षितान्येवेत्यवगम्यते।
(अस्मिन्विषये ब्रह्मसूत्रसम्मतिः)
तदिदं सर्वमभिप्रेत्यैव पुरुषार्थाधिकरणे स्तुतयेऽनुमतिर्वा (ब्र.सू.3-4-14) इति
सूत्रे सूत्रकारेण अस्यां श्रुतौ विदुषः सर्वेषां कर्मणाम् अनुमतिः विद्यास्तुत्यर्था
इत्युक्तम् ।
एतेन विद्वद्विषया एव इयं श्रुतिः विदुषोऽपि विद्याङगतया यावज्जीवं
कर्मानुष्ठानमावश्यकमेवेति
प्रतिपादयति - कुर्वन्नेवेह कर्माणि जिजीविषेच्छतं समाः - इति; 1न त्वविदुषः इति सिद्धम्।
(अविद्वद्विषयकत्वेन शांकरयोजना - तन्निरासश्च)
यत्तु, पूर्वमन्त्रेणात्मविदो विदुषो विद्यास्वरूपोपदेशः कृतः - आत्मग्रहणाशक्तस्य
अविदुषः कर्माण्युपदिशति अयम् मन्त्रः, न तु विदुषः, विद्याकर्मणोः अत्यन्तविरोधेन एकं
प्रति उभयोर्विधानायोगात्; सूचितं च अत्रापि कुर्वन्नेवेह कर्माणि जिजीविषेच्छतं समाः
इत्यनेन जिजीविषुरेव कर्माधिकारीति। विदुषो जीवितेच्छाविरहाच्च नायं मन्त्रो विद्वद्विषय
इति शंकरोक्तमुपनिषद््भाष्ये।
तन्न ; पूर्वमेकोनचत्वारिंशदध्यायात्मककर्मकाण्डेन अविद्वद्विषयवक्तव्यसर्व-
कर्मनिरूपणानन्तरं प्रवृत्ते ज्ञानकाण्डरूपे विद्वद्विषयेऽस्मिन् चत्वारिंशाध्याये
प्रकरणविरोधेनाविदुषः प्रसङगलेशाभावात्, सर्वापेक्ष च यज्ञादिश्रुतेरश्ववत् (ब्र.सू.3-4-26)
इत्यधिकरणे अग्निहोत्रादि तु तत्कार्यायैव तद्दर्शनात् (ब्र.सू.4-1-16) इत्यधिकरणे
च सूत्रकारेणैवकर्मवत्सुगृहस्थेषुविद्यायाः कर्माङगकत्वस्यनिर्धारितत्वेन, अस्यामेवोपनिषदि
उत्तरत्र विद्यां चाविद्यां च यस्तद्वेदोभयं सह (ई.उ.11) इत्यत्र विद्याकर्मणोः एकैकानुष्ठाने
अनर्थप्रदर्शनपूर्वकम् उभयोः अङगाङगभावेन सह अनुष्ठेयतायाः
स्थापयिष्यमाणत्वेन च विद्याकर्मणोर्विरोधस्यैव
अप्रामाणिकत्वात्; तत्रापि अन्यथा व्याख्यानस्य असमञ्जसताया वक्ष्यमाणत्वात्, विदुषोऽपि
विद्यानिष्पत्तिपर्यन्तं देहधारणस्यावश्यकतया, जीवितच्छाया अपि
अविरुद्धत्वेन, तावन्मात्रेण अस्य मन्त्रस्य अविद्वद्विषयतायाः वक्तुमशक्यत्वात्; नाविशेषात्
(ब्र.सू.3-4-13) स्तुतयेऽनुमतिर्वा (ब्र.सू.3-4-14) इति सूत्राभ्याम् अस्य मन्त्रस्य
विद्वद्विषयतायाः सूत्रकारेणोक्तत्वेन सूत्रकाराशयविरोधाच्च।
(शारीरकभाष्ये शंकरकृतयोजनान्तरं - तन्निरासश्च)
यदपि नाविशेषात् (ब्र.सू.3-4-13) इति सूत्रस्य कुर्वन्नेवेह कर्माणि जिजिवषेत्
इत्येवमादीनि न विद्वद्विषयाणि ;
विद्वदविदुषोर्व्यावर्तकरूपेण निर्देशमन्तरेणाविशेषेणैव
कर्मानुष्ठाननियमविधानात्, तस्मादविद्वद्विषयाण्येव
भवितुमर्हन्तीत्येतदर्थपतया व्याख्यानं, स्तुतयेऽनुमतिर्वा (ब्र.सू.3-4-14) इति सूत्रस्य
यद्यप्यत्र प्रकरणसामर्थ्याद्विद्वानेव कुर्वन्निति सम्बध्येत; तथापि, विद्यास्तुतये
कर्मानुज्ञानमेतदिति द्रष्टव्यम् इत्यर्थपरतया व्याख्यानं च शारीरकभाष्ये शङकरेण कृतम् ।
तदप्ययुक्तम् - पुरुषार्थाधिकरणे विद्यांगकात् स्वतन्त्रात्कर्मणः पुरुषार्थो वा,
उत विद्यातः पुरुषार्थो वा ? इत्येव विप्रतिपत्तेः प्रसक्तत्वात् ; नियमात् (ब्र.सू.3-4-7)
इति सूत्रे पुरुषार्थार्थिन आत्मविदः पुरुषस्य, यावज्जीवं कर्मसु कुर्वन्नेवेह कर्माणि
जिजीविषेच्छतं समाः इत्यनया श्रुत्या नियमनेन विद्याङगकात्स्वतन्त्रात्कर्मण एव पुरुषार्थ
इत्येव पूर्वपक्षस्य प्राप्तत्वाच्च; तादृशपूर्वपक्षनिरसनार्थं प्रवृ
त्तयोः नाविशेषात् (ब्र.सू.3-4-13) स्तुतयेऽनमतिर्वा (ब्र.सू.3-4-14) 1इत्यनयोःसूत्रयोः
कर्मणां विद्याङगतायापि सम्भवेन ततोऽपि हेतोः पुरुषार्थार्थिनोयाङवज्जीवं- कर्मसु
नियमनसम्भवात्, अस्याश्श्रुतेः विद्यांगकर्मविषयत्वमेव सम्भवति; न तु स्वतन्त्रकर्मविषयकत्वम्;
तदसाधारणव्यार्तकविशेषनिर्देशादर्शनात्, प्रत्युत विद्याङगकर्मविषयकत्वोत्तम्भकनिर्देशस्यैव
दर्शनाच्च, अतो विद्यात एव पुरुषार्थ इति यत्किञ्चिदेकविधपुरुषार्थस्य
स्वतन्त्रकर्मसाध्यत्वविद्यासाध्यत्वरूपकोटिद्वमविषमक-
विप्रतिपत्तिघटकसिद्वान्तकोटिस्थापनपरताया एव युक्तत्वेन, दर्शितश्रुतेः
विद्वदविद्वद्विषयकत्वरूपकोटिद्वयविषयकविप्रतिपत्तेः
अप्रसक्तायाः परिहारपरत्वेन अनयोः सूत्रयोः व्याख्यानस्य प्रकरणविरोधेन अयुक्तत्वात्
; अस्याश्श्रुतेः अविद्वद्विषयकत्व व्यवस्थापनपरतया अत्र 2आद्यसूत्रव्याख्यानेन, प्रत्युत
स्वतन्त्रात्कर्मण एव पुरुषार्थ इति पूर्वपक्षकोटेरेव स्थापनसिद्धया तस्य सिद्धान्तपरसूत्रताया
एव असिद्धिप्रसङगात्; अस्याश्श्रुतेः विद्वद्विषयकत्वमेव आश्रित्य विद्यास्तुतये विदुषो
यावज्जीवं कर्मानुष्ठानानुमतिविषयकत्वव्यवस्थापनपरतया, द्वितीयसूत्रव्याख्यानस्यापि
विद्याकर्मणोः तेजस्तिमिरयोरिव परस्पर साहचर्यगन्धासहिष्णुस्वमतविरुद्धत्वाच्चाविद्याकर्मणोः
तेजस्तिमिरयोरिव परस्परसाहचर्यगन्धासहिष्णुत्वे हि स्तुत्यर्थमपि वा तयोः साहचर्येण
अनुष्ठानानुमतिरियं न कथंञ्चिदपि सञ्जाघटीति।
(शंकरोक्तिषु परस्परव्याघातः)
एवं स्तुतयेऽनुमतिर्वा (ब्र.सू.3-4-14) इति सूत्रभाष्ये कुर्वन्नेवेह कर्माणि
इत्यादि मन्त्रस्य, विद्वद्विषयकतायाः सूत्रकाराभिप्रेतत्वं स्वयमेव व्याकुर्वता शङकरेण
उपनिषद््भाष्ये केवलाविद्वद्विषयकत्ववर्णनं स्ववचनविरोधेनापि व्याहतम् ।
किञ्च, अस्मिन्मन्त्रे न कर्म लिप्यते नरे इति कर्मणः फलजनकत्वरूपलेपकत्वाभावश्रवणमपि
अविद्वद्विषयकतां तस्य निरुणद्वि ; कर्मणा स्वर्गादिफललिप्सोः अविदुषः स्वर्गादिफलसिद्धेः
अवश्यंभावितया तस्मिन् तस्य लेपकत्वाभाववर्णनासम्भवात् ।
(अन्यथाऽपि परस्परव्याघातप्रदर्शनम्)
इदं पुनरत्रावधेयम् - पुरुषार्थाधिकरणे, कर्मणः पुरुषार्थो वा; विद्यातः
पुरुषार्थो वा; इति विप्रतिपत्तिस्वरूपं तावत् शोधनीयम् ।
न तावदत्र सामान्यतः पुरुषार्थस्य कर्मसाध्यत्वविद्यासाध्यत्वरूपकोटिद्वयविषयकत्वं
वक्तुं शक्यम् ; स्वर्गादिफलस्य कर्मसाध्यतायास्सिद्धान्तिनोऽपि अभिमतत्वात्,
उद््गीथादिविद्यासाध्यतायाः
कर्मफलेषु पूर्वपक्षिणोऽपि अभिमतत्वाच्च । उभयसम्प्रतिपन्नयोः
दर्शितकोट््योः परस्परविरोधित्वाभावेन
विप्रतिपत्तिविषयताया एव असम्भवात् । किन्तु वेदान्तशास्त्रं
स्वप्रतिपिपादयिषितप्रधानपुरुषार्थविशेष्यकस्वतन्त्रकर्मसाध्यत्वप्रकारकप्रमितिपरं
; वा तद्विशेष्यकस्वतन्त्रविद्यासाध्यत्वप्रकारकप्रमितिपरं वा; इत्येव विप्रतिपत्तिस्वरूपमिह
विविक्षितं वक्तव्यम् । इत्थं च कुर्वन्नेव इत्यादि-
मन्त्रस्य अविद्वद्विषयकत्वेन व्याख्यानपरतायाः
नाविशेषात् (ब्र.सू. 3-4-13) इति सूत्रस्य स्वीकारे
सिद्धान्तपरस्यास्य सूत्रस्य पूर्वपक्षस्थापनपरताया
एव प्रसङगेन शङकरव्याख्याने परस्परव्याघातो दुर्वार एवेति ।
तथा च श्रीभाष्यकारोक्तरीत्या नाविशेषात् (ब्र.सू.3-4-13) इति
सूत्रं कुर्वन्नेवेह कर्माणि इत्यादिश्रुतौ कर्मणां फलसाधनभूतस्वतन्त्रकर्मविद्याङ्गभूतकर्मणोः
एकतरासाधारणाकारेण विशिष्य निर्देशाभावात् अत्रत्यकर्मशब्दस्य विद्याङ्गकर्मपरतासम्भवात्
न विरोध इति स्वपक्षविरोधाभावप्रदर्शनमात्रेण
पूर्वपक्षिप्रत्याख्यानपरम् ; स्तुतयेऽनुमतिर्वा
( ब्र.सू.3-4-14) इति सूत्रन्तु दर्शितश्रुतौ न कर्म लिप्यते नरे इति वाक्यशेषेण सर्वदा
कर्माणि कुर्वन्नपि विद्वान् न तैर्लिप्यते इति
ईशावास्यमिदं सर्वम् (ई.उ.) इति पूर्वमन्त्रप्रस्तुतविद्यास्तुतये
सर्वकर्मानुमतेरेव प्रतिपाद्यमानतया, प्रत्युत
परपक्षविरोधोऽप्यस्तीति परपक्षविरोधप्रदर्शनेनापि
पूर्वपक्षिप्रत्याख्यानपरं चेति सिद्धम् ।
स्वतन्त्रकर्मपरत्ववादिनां पूर्वपक्षिणां
कर्मलेपाभावनिर्देशो हि विरुद्ध एव, कर्मफलसम्बन्धलक्षणलेपस्यैव
तदभिमतपुरुषार्थत्वात्, तत्साधनायैव स्वतन्त्रकर्मानुष्ठानस्य तदभिमतत्वाच्च ।
(मन्त्रस्य अर्थवादरूपत्वे आक्षेपः समाधानं च)
न च - स्तुतयेऽनुमतिर्वा (ब्र.सू. 3-4-14) इति सूत्रे दर्शितश्रुतिप्रतिपन्नाया
विदुषः कर्मानुष्ठानानुमतेः विद्यास्तुत्यर्थतावर्णनेन कर्मणामनुष्ठेयत्वरूपप्रातीतिकार्थे
तात्पर्याभावावगमात् विदुषः कर्मानुष्ठानावश्यकत्वं न सिध्यत्यनया श्रुत्या इति वाच्यम्,
स्तुतिशब्दस्य गुणकथनमात्रपरत्वेन सत्यासत्यगुणकथनसाधारणतया स्व
प्रतिपाद्यार्थतात्पर्याभावनियमस्य
दुर्वचत्वात् ; अन्यथा पण्डितादिषु पाण्डित्यादि गुणकथनेन, सर्वेश्वरे सर्वज्ञत्वादिगुणकथनेन
च सत्यगुणविषयेण स्तुत्यसिद्धिप्रसङगात्; लौकिकस्तुतेः
क्वचिद््गुणासत्त्वेन असत्यगुणकथनरूपतासम्भवेऽपि
वैदिकस्तुतेः तथात्वासम्भवात् । अन्यथा वेदस्य अप्रमाणताप्रसङगात्, अर्थवादानामपि असति
प्रमाणान्तरबाधे स्वरसतः प्रातीतिकार्थेऽपि प्रामाण्यस्य, सति तु प्रमाणान्तरबाधे लक्षणादिना
स्वघटकपदोपस्थापिताबाधितार्थे प्रामाण्यस्य च 1देवताधिकरणभाष्ये श्रीभाष्यकारैः स्थापितत्वाच्च
। अनया श्रुत्या विदुषो विद्याङगतया कर्मानुष्ठानावश्यकतासिद्धेः निष्प्रत्यूहत्वात् ।
तदिदं सर्वमभिसन्धायैव दर्शितश्रुतिव्याख्यानरूपायां प्रागुदाहृतश्रुतप्रकाशिकायां
न कर्मलिप्यते इति इतोऽन्यथा नास्ति, इदमेव तत्त्वम्, न स्तुतिमात्रमित्यर्थः इति वाक्यशेषो
व्याख्यातो व्यासार्यैः । अत्र स्तुतिशब्दस्य गुणकथनपरतया गुणकथनमात्रं न, कथितगुणोऽत्र
पारमार्थिक एवेति लौकिकस्तुतिव्यावृत्तिमभिदधानैर्व्यासार्यैः
सूत्रघटकस्तुतिशब्दः पारमार्थिकगुणकथनरूपस्तुतिपरो विवृतः ।
(अनुमतिशब्दार्थनिष्कर्षः)
न च - एवमपि अनुमति शब्देन कर्मणां करणाकरणयोः कामचारस्यैव सिद्ध्या, विद्याङगतया
तदनुष्ठानावश्यकत्वनियमो न सिध्यत्येवेति वाच्यम् । विद्यायास्तत्तदाश्रमविहितधर्माङगताया
एव अभिमतत्वेन कर्मवत्सु गृहस्थेषु यज्ञादिकर्मणां विद्याङ्गतयानुष्ठानावश्यकत्वनियमेऽपि
वैराग्येण गार्हस्थ्यं परित्यज्य आश्रमान्तरं स्वीकुर्वतां तादृशकर्मानुष्ठानानावश्यकत्वेन,
विद्वान् गार्हस्थ्ये स्थित्वा यावज्जीवं यज्ञा
दिकर्माणि विद्याङ्गतयानुतिष्ठन्नेव तिष्ठेत्, न तत्र किंचिद््बाधकमस्तीति अनुमतेरेवेह
विवक्षिततया गृहस्थेषु यज्ञादिकर्मानुष्ठाननियमसिद्धेर्निष्प्रत्यूहत्वात्,
वैराग्येणाश्रमान्तरस्वीकारे
तत्त्यागस्याप्यभिमततया सामान्यतो विद्वांसं प्रति
यज्ञादिकर्मानुष्ठानस्य नियमतो विधानासम्भवेन
तदनुमतेरेवेह श्रुत्यर्थतया सूत्रकाराभिमतत्वात्, तावतापि यथोक्तनियमसिद्धेरव्याहतत्वात्,
आश्रमान्तरनिष्ठेषु ईदृशकर्मत्यागस्य अभिमततायाः `1कामकारेण
चैके (ब्र.सू.3-4-15) इत्युत्तरसूत्रे
स्पष्टीकरिष्यमाणत्वाच्च इह अनुमतिशब्दसद््भावमात्रेण क्षतिलेशाभावात् ।
तथा च दर्शितश्रुतौ कुर्वन्नेवेह कर्माणि जिजीविषेत् इत्यत्र लिड् लकारो
न विधिपरः, अपि तु कामचारपरामन्त्रणशब्दार्थिनुमतिपर एवेति सूत्रकाराशयस्सिद्धः ।
(श्रीवेदान्ताचार्यभाष्यानुवादेन तत्रास्वारस्यप्रदर्शनम्)
यत्तु सूत्रकारेण नाविशेषात् (ब्र.सू.3-4-13)
इति दर्शितश्रुतेः फलसाधनभूतस्वतन्त्रकर्मविषयत्वे
विशेषहेत्वभावेन विद्याङ्गभूतकर्मविषयत्वमेव सम्भवतीत्येक
-विधार्थपरत्वमुक्त्वा स्तुतयेऽनुमतिर्वा
(ब्र.सू.3-4-14) इत्यनन्तरसूत्रे तत्प्रकरणा- विरुद्धम् अर्थान्तरमुक्तम् इत्यभिसन्धाय,
तत्संवादार्थं दर्शितद्वितीयसूत्रभाष्यमपि उदाहरदभिः वेदान्ताचार्यैः,
शारीरकमीमांसायां, सूत्रकारभाष्यकारभ्यां तत्प्रकरणानुगुण्येन दर्शितश्रुतेः उक्तद्वितीयसूत्रे
अर्थान्तरपरत्वोक्तावपि तत्र तयोः नैर्भर्यं नास्ति ; अपि तु दर्शितप्रथमसूत्रोक्तार्थपरत्व
एव नैर्भर्यमित्यभिसन्दधानैः, उक्तश्रुतौ प्रथम- भागस्य विद्वान् फलसंगकर्तृत्वादित्यागयुक्तं
नित्यनैमित्तिकरूपं विद्याङ्गभूतं कर्म यावज्जीवमनुतिष्ठेदेव ; न कदाचिदपि विद्याङ्गं
कर्म परित्यजेदित्यर्थः इति नियमतः कर्मानुष्ठानविधिपरतामेव व्याख्याय, द्वितीयभागस्य
त्वयि ब्रह्मविद्याधिकारिणि, एवमेवानुष्ठेयार्थः ; इतोऽन्यथा नास्तीति व्यतिरेकेणोक्तं
दृढीकारार्थम् ; ननु ब्रह्मविदोऽपि कर्मानुष्ठानभावाद््बन्धस्स्यात् इत्यत्राह - न
कर्म लिप्यते नरे इति । प्रस्तुतब्रह्मविदि नरे अग्निहोत्रादि तु तत्कार्यायैव तद्दर्शनात्
(ब्र.सू.4-1-16) इति
विनियोगपृथक्त्व
न्यायेन कर्म न स्वर्गादिफलहेतुर्भवति इत्यर्थपरतामेव
व्याकुर्वद््भिः वाक्यशेषस्य सूत्रकारभाष्यकारोक्तं
विद्यास्तुतये विदुषः सर्वदा कर्मानुष्ठानानुमतिपरत्वं उपेक्षितम् ।
तदयुक्तम्, दर्शितसूत्रयोः द्वयोरपि एकविधार्थस्थापनपरताया एव,
दर्शनेन परस्परविलक्षणपक्षद्वयपरत्वाभावात्
; तथा सति वाकारस्य पक्षान्तरपरत्वसम्भवेन तदुपेक्ष्य वाशब्दोऽवधारणार्थः इति भाष्यकारैः
अवधारणपरतया व्याख्यानानावश्यकत्वात्, सूत्रकारमहर्षिकण्ठोक्तश्रुत्यर्थस्य अर्वाचीनैः
परित्यागायोगात्, तदपरित्यागेऽपि अनिष्टाभावस्यप्रागुपदर्शितत्वात् ;
वस्तुतोगार्हस्थ्यादाश्रमान्तरनिष्ठानां
विदुषामुक्तकर्मत्यागस्याभिमततायाः कामकारेण चैके (ब्र.सू.3-4-15) इत्युत्तरसूत्रेण
प्रतिपन्नतया, सामान्यतो विद्वांसं प्रति नियमत उक्तकर्मानुष्ठाने विधेरसम्भवेन अनुमतेरेव
दर्शितश्रुतिविवक्षितत्वावश्यकत्वाच्च ।
दर्शितश्रुतेर्दर्शितरीत्या कर्मानुष्ठानविधिपरत्वासम्भवाभिप्रायेणैव च, वाकारस्य
अवधारणार्थकत्वमाश्रित्य यावज्जीवं कर्मानुष्ठानानुमतिरेव दर्शितश्रुतिविवक्षिता, न
तु तद्विधिरिति भाष्यकारैरपि व्याख्यातम् । एतदभिप्रायेणैव च श्रुतप्रकाशिकायां व्यासार्यैरपि
दर्शितश्रुतौ नान्यथेतोऽस्ति इत्यस्य पूर्वभागोक्तकर्मानुष्ठानान्यथाभाव-
प्रतिषेधपरतामुपेक्ष्य
वाक्यशेषोक्तकर्मलेपाभावान्यथाभावप्रतिषेधपरतया व्याख्यानं कृतम् ।
एवमर्थस्वाभाव्येन चोद्यं परिहृत्य कुर्वन्नेवेह कर्माणि इत्यस्य वाक्यस्यार्थमाह
इति द्वितीयसूत्रावतारिकाभाष्यपर्यालोचने, दर्शितश्रुतौ कर्मपदार्थस्य विद्याङ्गकर्म-
साधारणरूपत्वलक्षणस्वभावज्ञापनेन चोद्यं परिहृत्य वाक्यार्थोऽपि तदनुगुण एव वर्तत इति
तं दर्शयति सूत्रकार इत्याशयेनैव द्वितीयसूत्रमवातारयन्, भाष्यकृत इत्यवगमेन द्वयोरपि
सूत्रयोः दर्शितश्रुतेः एकविधवाक्यार्थप्रतिपादनपरताया एव प्रतीयमानतया, अर्थान्तरं
च प्रकरणाविरुद्धमनन्तरसूत्रोक्तम् इत्यभिधानमपि असंगतमेव ।
द्वितीयसूत्रस्य दर्शितश्रुतेः अर्थान्तरपरतया व्याख्यानपरत्वे, श्रुतिमर्थान्तर-
परतयाऽपि व्याकरोति सूत्रकार इत्येव द्वितीयसूत्रमवातारयिष्यन् भाष्यकृतः,
व्याख्यास्यंश्च वाकारं पक्षान्तरपरतयैव । न तु अवधारणपरतयेति तथाभिधानम् असम्बद्धमेव ।
न च - आश्रमान्तरनिष्ठस्य अग्निहोत्रदर्शपूर्णमासादिकर्मसु
अनधिकारेण तादृशकर्मानुष्टानासम्भवेऽपि,
विद्यानुग्राहकतया स्वाश्रमान्तरङगधर्मरूपकर्मणाम् अनुष्ठानसम्भवेन दर्शितश्रुतेः सामान्यतो
विद्वांसं प्रति, यावज्जीवं नियमतः कर्मानुष्ठानविधिपरत्वं सम्भवत्येवेति कुतः अनुमतिपरत्वं
वक्तव्यमिति वाच्यम् ; पूर्वं कर्मकाण्ड आश्रमान्तरकथाया
एवाभावेन, तत्र गृहस्थाधिकारिकयज्ञादिकर्मणामेव,
अभिधानात् तेषामेवेह कर्मशब्देन परामर्शसम्भवेन तदनुष्ठाननिर्बन्धस्य सामान्यतो विद्वांसं
प्रति विधातुम् अशक्यतया अत्र लिङोऽनुमतिलक्षणामन्त्रणपरताया एव सम्भवात् ।
इत्थमिह पक्षान्तरपरत्वासम्भवं 1विधिर्वा धारणवत् (ब्र.सू.3-4-20) इत्यादिष्विव
अवधारणपरतयाऽपि वाकारप्रयोगसम्भवञ्च आलोच्यैव इह वाकारम् अवधारणपरतया व्याचख्युः भाष्यकृतः
। तस्मात् यथोक्तलक्षणं वेदान्ताचार्यतदनुयायिव्याख्यानमपि
सूत्रकारभाष्यकारश्रुतप्रकाशिकाकाराशयविरुद्धम्
अनुपपन्नं च इत्यनुपादेयमेव ।
(लिप्यते इति कर्मकर्तरि प्रयोगोपपत्तिः)
ननु न कर्म लिप्यते नरे इति कथमसौ प्रयोगः ?
लिम्पतेस्तौदादिकस्य सकर्मकत्वेनाकर्मकत्वासम्भवादिति
चेन्न, सकर्मकाणामपि धातूनां कर्मकर्तर्यकर्म- कतया प्रयोगसम्भवेन लिम्पतेरिह कर्मकर्तरि
प्रयोगस्य विवक्षिततया दोषाभावात् । पचिभिद्यादीनां
सकर्मकाणामपि कर्मण एव कर्तृत्वविवक्षायाम्,
ओदनः पच्यते, काष्ठं भिद्यते इत्यादिरकर्मकः प्रयोगो हि दृश्यते ।
कर्मवत्कर्मणा तुल्यक्रियः (पा.सू.3-1-87) इत्यनुशासनेन कर्तृत्वेन विवक्षितस्यापि
कर्मणः कर्मवद््भावे, सार्वधातुके यक्् (पा.सू.3-1-67)
इत्यनु- शासनेन धातोः यक्प्रत्ययस्स्याद््
भावकर्मवाचिनि सार्वधातुके परे, इत्यर्थकेन यक्प्रत्यये च, लिम्पतेर्लिप्यत इति कर्मकर्तरि
प्रयोगः अकर्मकस्सम्भवति ।
न च - यद्धातूपस्थाप्यक्रियायां यस्य क्वचित्कर्मतयान्वयो दृश्यते ;
तद्धा- तूपस्थाप्यक्रियायां
तस्यैव क्वचित्कर्तृतया विवक्षायां हि तद्धातोः कर्मकर्तरि प्रयोगो नाम ; लिम्पतिक्रियायां,
सुकृतरूपस्य दुष्कृतरूपस्य वा कर्मणः क्वचिदपि कर्मतयाऽन्वयादर्शनात्, प्रत्युत कर्मणा
लिप्यते पुरुषः इत्यादौ कर्तृतयैवान्वयदर्शनाच्च, कथं तस्य कर्तृताविवक्षायां लिम्पतेः
कर्मकर्तरि प्रयोगः सम्भवतीति - वाच्यम् ; महापातकिनः स्वसंसर्गिषु स्वीयं दुष्कृतं
लिम्पन्ति, विद्वांसो मुच्यमानाः स्वीयं सुकृतं सुहृत्सु,
दुष्कृतं द्विषत्सु च लिम्पन्तीत्यादिप्रयोगेषु
लिम्पतिक्रियायां कर्मशब्दवाच्यस्य कर्मतयान्वयदर्शनेनेह तस्य कर्तृताविवक्षायां कर्मकर्तरि
प्रयोगसम्भवे क्षतिविरहात् ।
संश्लोषानुकूलव्यापारो हि लिम्पत्यर्थः ; संश्लेषश्च फलोपधायकः सम्बन्धविशेष इति,
प्रकृते न कर्म लिप्यते नरे त्वयि इत्यनेन फलाभिसन्धिरहिते
त्वयि दर्शितत्रिविधत्यागपूर्वकर्मनुष्ठीयमानं
किमपि कर्म मोक्षविरोधिफलोपधायकस्वसम्बन्धविशेषानुकूलव्यापाररूपलेपवत्
न भवतीत्यर्थस्सिद्ध्यति ।
(नरशब्दस्य व्युत्पत्तिद्वयप्रदर्शनम्)
पूर्वमन्त्रोक्तत्यागानुवादकलेपाभावहेतुगर्भविशेषणत्वाभिप्रायेण च नरशब्दः न रमते
इति व्युत्पत्या व्याख्यातश्श्रुतप्रकाशिकायां व्यासार्यैः ।
अन्येष्वपि दृश्यते (पा.सू.3-2-101)
इत्यनुशासनेन रमेर्डप्रत्यये टेः (पा.सू.6-4-143) इत्यनुशासनेन टिलोपे च, र इति सिद्धयति
; तस्य नशब्देन सुप््सुपा (पा.सू.2-1-4) इति समासे, नर इति रूपं सिद्धयतीति बोध्यम्
। यद्यपि, रिङ््क्षये इति धात्वन्तरेण नर शब्दस्य क्वचिन्निष्पत्तिः कृता दृश्यते ;
तथापि तद्वदेव रमिधातुनापि निष्पत्तिसम्भवात् प्रकृतोपयोगानुरोधेन इह एतद्धातुनिष्पन्न
एव नरशब्दो विवक्षित इति व्यासार्याशयः ।
तथा च प्रथममन्त्रप्रक्रान्ताया उपरिष्टाद्विशदं निरूपयिष्यमाणायाश्च परविद्यायाः
अङगतया अनुष्ठेयः प्रथममन्त्रोक्तत्यागलक्षणानुसन्धानविशेषाङगकः कर्मयोगः अनेन मन्त्रेण
अभिहित इति सिद्धम् ।।