प्रथमो मन्त्रः
ईशावास्यमिदगँ सर्व यत्किंच जगत्यां जगत् ।
तेन त्यक्तेन भुजीथा मा गृधः कस्यस्विद्धनम् ।।1।।
B.1
श्रीरंगाचार्यभाष्यम्
(मंगलाचरणम्)
श्रीमान् वेंकटशैलात् हरिरुद्यन्नोऽद्य दहरदिवि दीप्तः।
दहतु सुदर्शनमहसा सत्पथसंचारिवैरिसन्तमसम्।।
-2श्रीरामानुजयोग्यनन्तगुरुराट् सौम्योपयन्त्राह््वयै
र्यो वेषैरपुनाज्जगत्कुलगुरुर्यस्यात्र नो मध्यमः।
आस्तां चापि तथा न आद्यचरमावाम्नायसिन्धुद्वयी-
पारप्रापणनाविकौ फणिपतिः सोऽयं विधत्तां जयम्।।
आध्यात्मिक्यां सरण्यां मम हूदयरथं स्वामि यन्त्वश्वरूपाः
श्रीशः श्रीभाष्यकारो भुवनगुरुवरो रम्यजामातृयोगी।
सज्जास्संचारयन्तामविषममधुनाऽनुज्झितप्राच्यलेखं
दुर्मानोद्वृत्तवाहो न गमयति यथा दुष्पथं वक्रकर्षी।।
-1वेदान्ता काननान्ताः कुमतिकृतिमयैः कण्टकैर्दुर्गमार्गा
दुस्साधान्तस्स्थबोधाः स्वयमतिगहनाः सन्ति घण्टापथैः तान्।
आरामान् वाऽभिरामान् सुकरविहरणान् कर्तृमद्याखिलानां
श्रीरंङ सान्तरंङ कलयतु सफलं प्रोद्यतं श्रीनिवासः।।
श्रीशैलानन्तपुरुषगुरुपरिबृढदिव्यसिंहपीठस्थः।
ईशावास्योपनिषदभाष्यं श्रीरंङसूरिरातनुते।।
(ग्रन्थावतरणिका- संहितान्तपाठसमर्थनं च)
काण्वमाध्यन्दिनभेदभिन्नानां वाजसनेयिनां चत्वारिंशदध्यायात्मकशुक्लयजुर्वेद संहितायां
एकोनचत्वारिंशाध्यायपर्यन्तात् कर्मकाण्डरूपात् भागात् अनन्तरः चरमो ज्ञानकाण्डरूपोऽयं
चत्वारिंशोऽध्याय ईशावास्योपनिषत्संज्ञो व्याख्यायते। अयमध्यायः काण्वैरष्टादशमन्त्रात्मको
माध्यन्दिनैः सप्तदशमन्त्रात्मकश्च पठ््यते।
अयं खल्वध्यायः कर्मकाण्डरूपसंहिताघटकतया
पठयमानोऽप्यत्रत्यमंत्राणांकर्मसु कल्पसूत्रकारादिभिः
विनियोगादर्शनात्, बर्हिर्लवनाद्यनुष्ठेयकर्मप्रकाशकानां
-2बर्हिदेवसदनं दामि इत्यादीनामिव अनुष्ठेयकर्मप्रकाशकत्वलक्षणकर्मविनियोग
व्यञ्जकलिङदर्शनेन लिंङबलादपि तदासिद्धेः, प्रत्युतात्मयाथात्म्यादिप्रतिपादनमुखेन
विद्याविनियोगस्यैवावगमाच्च ज्ञानकाण्डरूप एव।
न च, यद्ययमध्यायो ज्ञानकाण्डरूपः, तर्हि वाजसनेयिनां ज्ञानकाण्डरूपायां
बृहदारण्यकोपनिषदि कुतोऽयं न पठ््यते ? बृहदारण्यकोपनिषदपि वा अनेनैव सह
संहितान्तर्गततया तदन्ते एव कुतो न पठ््यते ? अतोऽयं
कर्मकाण्डसंहितानन्तर्गततया पृथक्पठयमानज्ञानकाण्डभूतबृहदारण्यकोपनिषदन्तःपातित्वात्प्रत्युत
कर्मकाण्डरूपसंहितान्तः पातित्वाच्च, कर्मकाण्डशेषभूत एव स्वीकर्तुमुचितः इति वाच्यम्;
अत्रत्यकतिपयमन्त्राणां बृहदारण्यकोपनिषद्यपि दर्शनेनास्य
ज्ञानकाण्डरूपतायाः प्रत्यभिज्ञाप्यमानत्वात्
कर्मकाण्डात् ज्ञानकाण़्डस्य पृथक् पाठयत्वेऽपि संग्रहेण विद्यास्वरूपं प्रदर्श्य
कर्मकाण्डविहितकर्मणाम् आत्मयाथात्म्यज्ञानेन त्रीविधत्यागसंस्कृतानाम् आकारान्तरेण
तदङताज्ञापनार्थमेव ज्ञानकाण्डरूपस्यापि एतदध्यायलक्षणाल्पभागस्य कर्मकाण्डसंहितान्ते
पाठोपपत्तेश्च । एतदध्यायगतमन्त्राणां
बृहदारण्यकोपनिषदि षष्ठाध्यायचतुर्थब्राह्मणसप्तमाध्यायपञ्चदशब्राह्मणादौ
किञ्चिदभेदेन पाठो दृश्यमानोऽस्याध्यायस्य ज्ञानकाण्डरूपत्वं
स्पष्टयति । अतोऽयमध्यायः ज्ञानकाण्डरूपः एव।
(प्रथममन्त्रावतारिका)
प्रथमं बुभुक्ष्वधिकारिककर्मकाण्डप्रतिपन्नकेवलकर्मफलानित्यत्वगतागतपुनः
पुनरवर्जनीयसंसारबन्धसंभवविज्ञानऽऽ 1निर्विण्णहृदयस्यमुमुक्षोः अधिकारिणः संसारबन्ध
निवृत्त्यनन्तस्थिरफलब्रह्मप्राप्तिहेतु साङब्रह्मविद्याम् उपदिदिक्षुर्वेदपुरुषः प्रथमं
ब्रह्मविद्यां प्रस्तुत्य तदनु तदङतया विधास्यमानानां कर्मणां संस्कारविशेषभूतं बुद्धि
विशेषलक्षणं त्यागम् उपदिशति ईशावास्यमित्यादिना प्रथममन्त्रेण ।।
(प्रतिपदार्थविवरणम्)
अस्य प्रतिपदविवरणम् । इदं- प्रत्यक्षादिप्रमाणसिद्धं, सर्वम्- चिदचिदात्मकं
वस्तुजातं, स्वेतरत्कृत्स्नं जगत् इत्यर्थः, ईशा- ईष्ट इतीट्, ईश-ऐश्वर्ये (पा.धा.1020)
इत्यस्य धातोरदादिगणघटकस्य क्विप्च (पा.सू.3.2.76) इत्यनुशासनेन कर्तरि क्विबन्तोऽयं
शब्दः। तेन ईशा सर्वेश्वरेण श्रीमन्नारायणेन वास्यं- वसितुम् आच्छादयितुं वस्त्रादिवत्
स्वातिशयाधायकतया धारयितु योग्यं, सर्वेश्वरेण
स्वप्रयोजनविनियोजनैकयोग्यपरतन्त्रवस्तुभूतमिति यावत् ।
वस आच्छादने ( धा.पा.1023) इत्यस्य धातोः अदादिगणघटकस्य
ऋहलोर्ण्यत् (पा.सू.3.1.124) इत्यनुशासनेन ऋवर्णान्तात् हलन्ताच्च धातोः ण्यत् स्यात्
इत्यर्थकेन कर्मणि ण्यत्प्रत्ययान्तोऽयं शब्दः।
अत्र वसधात्वर्थभूतम् आच्छादनं न तिरोधानप्रयोजकव्यापाररूपमपवारणम्
। अपि तु स्वातिशयाधायकतया
धारणमेव, वस्त्रं वस्ते इत्यादौ वस्त्रधारणस्यैव बोधात् । वसानमेणाजिनमञ्जनद्युति
(माघ.1.6.) इत्यादिषु वस्तेर्धारणार्थकतयैव प्रयोगात् । तदर्थपरस्य आच्छादन- शब्दस्यापि
इह शाटीमाच्छाद्य दुश्छदाम् (रा.2.32.33.) आच्छादितायतदिगम्बरम् (माघ.4.19) आच्छाद्य
पुष्पपटम् (माघ.4.52) इत्यादि प्रयोगानुरोधेन धारणार्थकत्वाच्च । तथा चात्र वस्त्रादिवत्
धार्यत्ववाचिवास्य शब्देन शेषत्वगर्भितं पारतन्त्र्यं जगतः प्रतिपादितं भवति।
अतः जगत्यां- यथोक्तलक्षणे चेतनाचेतनात्मके जगति,
यत्किञ्च-यत्किञ्चित्, जगत्स्वभोगोपयोग्याकारेण
परिणामं गच्छद्वस्तु । इदंच द्वितीयान्तं भुंजीथाः इत्यस्य कर्म । यद्वा ईशावास्यमिदं
सर्वम् इत्येतदेव तत्कर्म ; ईशावास्यम् इति हेतुगर्भविशेषणम् । जगत्यां यत्किञ्च जगदस्ति
। ईशावास्यमिदं सर्वं भुञ्जीथा इत्यन्वयः। त्यक्तेन-
फलममताकर्तृत्वविषयत्रिविधत्यागलक्षणबुद्धिवशेषसंस्कृतेन
तेन-तद्वस्तुना स्वस्वामिभावसम्बन्धेनोपलक्षितः त्वम् इत्थं भूतलक्षणे (पा.सू.2.3.21)
इत्यनुशासनेन अत्र तृतीया । भुञ्जीथाः-भुङक्ष्व, भुजपालनाभ्यवहारयोः (पा.धा.1455) इति
धातोःरुधादिगणघटकाद्विधिलिङ्। कस्यस्वित्-
स्वभिन्नस्य यस्य कस्यचित्प्रत्यगात्मनः स्वस्वामिभावेन
सम्बन्धि, धनम्-किमपि वस्तु, मा गृधः- माभिकांक्षः, गृधु - अभिकाङक्षायाम् (धा.पा.1455)
इति धातोर्दैवादिकात् कर्तरि लुङ
। न माङ्योगे (पा.सू.6.4.74) इत्यनुशासनेन अट् प्रतिषेधः- इति।
(समुदितवाक्यार्थविवरणम्)
अयं भावः -जगदन्तर्गतस्य चेतनाचेतनात्मकस्य कृत्स्नस्य
वस्तुनो भगवच्छेषतैकरसपरतन्त्रवस्तुतया,
भगवद््भोगैकफलकत्वात्् तदनन्तर्गतस्य स्वातन्त्र्येण
स्वभोगस्य संसारबन्धहेत्वन्यथाज्ञानकार्यत्वाच्च, यत्किञ्चिद्वस्तु भुङक्षे, तत्सर्व
भगवानेव स्वशेषभूतेन मया स्वकीयैरेवदेहेन्द्रियान्तःकरणैः स्वकीयेनैव कर्मणा स्वकीयैरेव
द्रव्यैः स्वात्मानं स्वयमेव प्रीतं कारयतीत्यनुसन्धानेन तत्तत्कर्मकर्तृत्वफलममता-
विषयत्रिविधत्यागपर्यवसन्नबुद्धिविशेषलक्षणसंस्काररूपेण संस्कृत्य भगवद््भोगान्तर्गत-
स्वभोगस्स नैव भुङक्ष्व ; तत्रापि लोकन्यायसिद्धस्वस्वामिभावसम्बन्धेन स्वसम्बन्ध्येव
वस्तु तथा भुङक्ष्व; न तु उक्तसम्बन्धेन अन्यसम्बन्धि
वस्तु । तथा सति रागाद्वेषादिमूलसर्वसांसारिकबन्धप्रसंगस्य दुर्वारत्वात् इति ।
(विरक्तस्य मुमुक्षोः लौकिकभोगानुभवप्रकारः)
अत्र यत्किंचिदपि वस्तु, त्यक्तेन तेन स्वामित्वसम्बधेनोपलक्षितः त्वं भिञ्जिथाः
इत्यनेन, इत्थंभूतलक्षणतृतीयाबलात् स्वामित्वसम्बन्धेन
व्यावर्तकलक्षणतया दर्शित त्रिविधत्यागलक्षणबुद्धिविशेषसंस्कृत-
तत्तद्वस्तुविशिष्टस्सन्नेव तत्तद्वस्तु
भुङक्ष्व इत्यर्थलाभेन तादृशबुद्धिविशेषरहितेभ्यः परमपुरुषार्थलक्षणमोक्षेतरफलार्थिभ्यः
तत्तद्वस्त्वस्वामिभ्यश्च परमपुरुषार्थनिष्ठस्य व्यावृत्तिः विवक्षिता भवति । सर्वस्यापि
कर्मणः स्वेष्टभूतयत्किंचित् भोगार्थयैव क्रियमाणत्वेन भोगस्य
ईदृश त्रिविधत्यागगर्भत्वावश्यकताविधानेन
सर्वस्य कर्मणः तदावश्यकत्वं विहितं भवति ।
(सात्विकत्यागविषये गीतादिसंवादः)
परविद्याङ्गभूतकर्मानुष्ठानाङ्गतया मुमुक्षूणाम्
अवश्यापेक्षितः दर्शितबुद्धिविशेषलक्षणः
त्यागो भगवतापि असकृत् अभिहितो गीताशास्त्रे मयि सर्वाणि कर्माणि
सन्यस्याध्यात्मचेतसा (भ.गी.3.30) इति तृतीयाध्याये त्यागो हि पुरुषव्याघ्र! त्रिविधः
संप्रकीर्तितः (भ.गी.18.4) इत्यष्टादशाध्याये च । एवं स्थलान्तरेषु च त्यागस्य त्रैविध्यमपि
स्पष्टीकृतं तद््भाष्ये भाष्यकारैः फलं मम न स्यात् इति फलत्यागः , मदीयफलसाधनतया मदीयमिदं
कर्म इति कर्मणि ममतायाः परित्यागः कर्मविषयस्त्यागः ,सर्वेश्वरे कर्तृत्वानुसन्धानेनात्मनः
कर्तृतात्यागः कर्तृताविषयस्त्यागः इति भाष्यमाणैः।
(सप्रमाणं त्रिविधत्यागानुसन्धानप्रकारनिरूपणम्)
त्रिविधत्यागलक्षणानुसन्धानप्रकारश्च, भरद्वाजसंहिताशिरसि न्यासोपदेशे प्रथमाध्याये
निक्षिप्यात्मानमात्मीयम् अशेषमखिलात्मनि।
क्रियाश्च सकलास्तत्र वर्तन्ते वीतकल्मषाः।। (भर.संहि.1.70)
मन्यन्ते च स्वकीयान्नस्स्वप्रीत्यै स्वोचितां स्वयम्।
नाथः स्वकीयसेवान्तां वृत्तिं कारयतीति वै।। (भर.संहि.1.71)
इति वचनाभ्यां विस्तरेण, तत्रैव परिशिष्टे प्रथमाध्याये-
परमात्मा हरिः स्वामी स्वतोऽहं तस्य किङ्ककरः।
कैङ्कर्यमखिला वृत्तिः इत्येष ज्ञानसंग्रहः।। (भर.संहि.परि.1.76)
इति वचनेन सङग्रहेण च दर्शितः।
एतत् संहितोक्तरीत्यनुसारेणैव च 1भाष्यकारैरपि गीताभाष्ये तृतीयाध्याये
कव्याख्यायां स्वकीयेनात्मना कर्त्रा स्वकीयैश्चोपकरणैः स्वाराधनैकप्रयोजनाय परमपुरुषः
सर्वेश्वरः सर्वशेषी स्वयमेव स्वकर्माणि कारयतीत्यनुन्धाय
इत्यनेन, अष्टादशाध्याये त्रयोदशश्लोकावतारिकायां
परमपुरुषो हि स्वकीयेन जीवात्मना स्वकीयैः च
करणकलेबरप्राणैः स्वलीलाप्रयोजनाय कर्माण्यारभते
इत्यनेन, एवं नित्यग्रन्थे प्रथमतः भगवानेव स्वशेषभूतेन मया स्वकीयैः एव कल्याणतमैः
औपचारिकसांस्पर्शिकाभ्यवहारिकैः भोगैः अखिलपरिजनपरिच्छदान्वितं
स्वात्मानं प्रीतं कारयितुमुपक्रमत
इत्यनुसन्धाय इत्यनेन, मध्ये भगवानेव
स्वनियाम्यस्वरूपस्थितिप्रवृत्तिस्वशेषतैकरसेनानेनात्मना
स्वकीयैश्च देहेन्द्रियान्तः करणैः स्वकीयकल्याणतमद्रव्यमयौपचारिक-
सांस्पर्शिकाभ्यवहारिकादि समस्तभोगान्
अतिप्रभूतान् अतिसमग्रान् अतिप्रियतमान् अत्यन्तभक्तिकृतानखिलपरिजनपरिच्छदान्विताय
स्वस्मै स्वप्रीतये स्वयमेव
प्रतिपादयितुमुपक्रमत इत्यनुसन्धाय इत्यनेन ; ततः किंच
िदुपरिष्टात् भगवानेव सर्वं कारयतीति
पूर्ववद् ध्यात्वा इत्यनेन, अन्ते च भगवानेव इत्यारभ्य पूर्वोक्तानुपूर्वीकेण स्वयमेव
प्रतिपादितान् इत्यन्तेन च निर्देशेन मुमुक्षूणां दर्शित त्रिविध
त्यागलक्षणानुसन्धानप्रकारोऽसकृत् दर्शितः।
अत एव च अस्मत्सैद्धान्तिकाः कर्मसु क्वचित्,
भगवानेव इत्याद्युक्त- रीत्या विस्तरेण,
क्वचित् कैङ्कर्यरूपत्वनिर्देशेन संक्षेपेण च यथोक्तलक्षणं
त्रिविधत्यागरूपमनुसन्धानविशेषमनुतिष्ठन्ति।
(पिण्डितार्थनिरूपणम्)
तथाचात्र मन्त्रे ईशावास्यम् इत्यनेन परविद्यायां
परस्मिन् अनुसन्धेयं स्वतन्त्रत्वनियन्तृत्व
- 1शेषित्वस्वामित्वलक्षणमाकारचतुष्टयं, स्वस्मिन्ननुसन्धेयंपरतन्त्रत्व-
नियाम्यत्वशेषत्व-स्वत्वलक्षणमाकारचतुष्टयं,
तेनत्यक्तेन इत्यनेन परविद्याङ्ग- कर्मानुष्ठानाङ्गतया कर्तव्यानुसन्धानविशेषस्वरूपं
च दर्शितं भवति।
(शाङ्करव्याख्यानसङ्ग्रहः)
यत्पुनरत्र शांकरं व्याख्यानं - जगत्यां - पृथिव्युपलक्षितेषु सर्वेषु लोकेषु, यत्किञ्च
जगत्, द्वैतरूपं नामरूपकर्माख्यं विकारजातम् अस्ति, इदं सर्वम् अनृत -रूपम्, ईशा - सुज्ञातेन
सत्यरूपेण स्वेनात्मना, वास्यम् - आच्छादनीयम्, व्यपोहनीयमिति यावत् । वस-आच्छादने
इति धातोः आच्छादनार्थकत्वात् आच्छा- दनस्य व्यपोहनपर्यवसन्नत्वात् ; यथा चन्दनागुर्वादेः
उदकादि संबन्धजक्लेदादिजं दौर्गन्ध्यं तत्स्वरूपनिघर्षणेनाच्छाद्यते स्वेन पारमार्थिकेन
गन्धेन तद्वदेवेति भावः । इत्थं च नामरूपकर्माख्यमनृतं सर्वं विकारजातं परमार्थसत्यात्मभावनया
त्यक्तं स्यात् । पुत्राद्येषणात्रयसंन्यासलक्षणत्यागस्सिद्धयतीति यावत् । ततश्च कर्मसन्यास
एवाधिकारः, न तु कर्मसु । तेन त्यक्तेन- तत्त्यागेनेत्यर्थः,आत्मानं भुञ्जीथाः- पालयेथाः,
त्यागेन यथोक्तलक्षणेनात्मानं संसारनिवृत्त्या सुरक्षितं कुर्वीथाः, मुक्तो भवसीति यावत्
। एव त्यक्तेषणस्त्वं, कस्यस्विद्धनं मा गृधः- स्वस्य परस्य वा कस्यापि धनं मा कांक्षीरित्यर्थः।
अथवा, कस्यस्विद्धनं-कस्य किमस्ति धनं - सर्वस्य द्वैत- -प्रपञ्चस्य मिथ्यात्वात्;
अतः मा गृधःमाकाङक्षां कार्षीः इति।
(शांकरव्याख्याने अनुपपत्तिप्रदर्शनम्)
तदेतत्सर्वं यथावस्थितशब्दार्थव्युत्पत्त्यनवधारणमूलमक्षराननुगुणं
स्वमताभिनिवेश- बलात्कारकारितस्वैराध्याहारपूरणादिनास्वपरिगृहीतविपरीतार्थपरता
प्रसह्यरोपणमात्ररूपं चेति विमत्सरं विचारप्रवृत्तानां विदुषां सुगमम् ।
(वास्यम्, भुंजीथाः, इत्यादिषु शब्दशास्त्रविरोधादि दोषप्रदर्शनम्)
तथाहि वस-आच्छादने (धा.पा.1023) इति धात्वर्थभूताच्छादनस्य स्वातिशयाधायकतया धारणरूपतायाः
प्रागावेदितत्वेन तिरोधानहेतुव्यापाररूपापवारणानात्म- कतया व्यपोहनपर्यवसन्नत्वाभावात्,
वास्यम् इत्यस्य व्यपोहनीयमित्यर्थपर्यवसनम् आश्रित्य, द्वैतप्रपञ्चनिवृत्तिपरत्ववर्णनं
शब्दार्थाव्युत्पत्तिमूलमेव ।
एवं - भुञ्जीथाः इत्यस्य पालयेथा इत्यर्थवर्णनमपि शब्दार्थाव्युत्पत्तिमूलमेव भुजोऽनवने
(पा.सू.1.3.66) इत्यनुशासनेन पालनभिन्नार्थकस्यैव
भुजेरात्मनेपदं भवति, न तु पालनार्थकस्येत्यर्थकेन,
आत्मनेपदिनो भुजेः पालनार्थकत्वाभावस्यैव प्रतिपन्नत्वात् । अत एव हि ओदनं भुङक्ते
इत्यादि प्रयोगेषु पालनभिन्नार्थकस्य भुजेरात्मनेपदम् । पृथिवीं भुनक्ति इत्यादि प्रयोगेषु
पालनार्थकस्य भुजेः परस्मैपदं च नियतं दृश्यते ।
एवम्, ईशेत्यस्य विशेषणतया सत्यरूपेण सुज्ञातेनेति पूरणस्य भुञ्जीथाः
इत्यस्यात्मानमिति कर्मपूरणस्य सर्वमिदम् इत्यस्यानृतमिति विशेषणपूरणस्य च
कल्पनम् ईशेत्यस्य स्वात्मस्वरूपेणेत्यर्थवर्णनं च
स्वमताभिनिवेशकारितस्वैरिता- मात्रमित्यनुपादेयमेव
शब्दस्वरसविदां विदुषां ; प्रकरणसन्दर्भादिबलनिर्भासितयोरेव पूरणार्थपर्यवसानयोः करणस्य
न्यायत्वात् अतथाविधयोः तयोः स्वैरं करणस्य अयुक्तत्वात् अन्यथा अतिप्रसंगस्य दुर्वारत्वात्,
प्रकृतस्थले दर्शितपूरणार्थपर्यवसानाकरणे क्षतिलेशस्यापि अनुपलम्भाच्च ।
(ईश्वरस्य ईशितव्यद्वैतप्रपञ्चसापेक्षतया प्रपञ्चसत्यत्वसाधनम्)
अपि च, ईशेति ईश्वरत्वेन निर्दिष्टमात्मानं सत्यरूपत्वेन विशेष्य, तेन सुज्ञातेन
द्वैतप्रपञ्चनिराकरणपरत्ववर्णनमपि श्रुतेः न सञ्जाघटीति, ईश्वरत्वस्येशितव्यद्वैतप्रपञ्च
सापेक्षत्वेन तस्य सत्यरूपत्वे द्वैतप्रपञ्चस्यापि सत्यतासिद्धया तेन सुज्ञातेन द्वैतप्रपञ्च-
निराकरणायोगात् ।
उक्तानुपपत्तिपरिहाराय- ईशा इत्यस्य स्वात्मस्वरूपेणेत्यर्थस्स्वीक्रियत
इत्यपि न सुवचम्, ईश्वरत्वविशिष्टवाचकस्य तस्य
केवलस्वात्मस्वरूपमात्रवाचकतया विना लक्षणामसम्भवात्।
(मागृधः कस्यस्विद्धनं इत्यत्र पुनरुक्त्यादि दोषः)
किं बहुना, आत्मस्वरूपेण सुज्ञातेन द्वैतप्रपञ्चनिराकरणं यदि इह विवक्षितम् अभविष्यत्,
तदाऽत्मस्वरूपपरनिर्देशमुपेक्ष्य, ईश्वरत्वविशिष्टपरः ईशा इति
निर्देश एव नाकरिष्यतेति तु तत्त्वमवधेयम् ।
एवं तेन त्यक्तेन भुञ्जीथाः इत्यस्य स्वरूपतः सर्वकर्मसन्यासलक्षणत्यागपरत्वे,
मा गृधः कस्यस्विद्धनम् इति पुनर्धनग्रहणकाङक्षाप्रतिषेधः पिष्टपेषणरूपः पौनरुक्त्यदोषादसमञ्जसः,
सर्वत्यागे विधीयमाने धनग्रहणमात्रस्य पुनः प्रसङ्गलेशाभावाच्च ।
(कुर्वन्नेवेहेति उत्तरमन्त्रविरोधः)
अपि च, शंकराभिमतरीत्या स्वरूपतः सर्वकर्मसन्यासलक्षणत्यागस्यैव मुमुक्षोः आवश्यकतया
एतन्मन्त्रप्रतिपाद्यत्वे, कुर्वन्नेवेह कर्माणि
इति द्वितीयमन्त्रे पुनः कर्मानुष्ठानविधानम् अत्यन्तासमञ्जसम्।
द्वितीयमन्त्रो बुभुक्षुविषय इति वर्णनमपि
अविवेकविलसितमेव, बुभुक्षूणाम् अपेक्षितकर्मानुष्ठानप्रक्रियां
निरवशेषं निरूप्य समापनानन्तरं मुमुक्ष्वपेक्षितानुष्ठानप्रक्रिया प्रतिपादनैदंपर्यप्रवृत्ते
ज्ञानकाण्डरूपेऽस्मिन् चरमेऽध्याये पुनर्बुभुक्षोः
अनुष्ठानप्रक्रियावर्णनस्य संगतिलेशाभावात्।
तस्मात् सर्वमिदं शांकरंव्याख्यानं बलाच्छ्रुतेस्स्वाभिमानपरिगृहीतार्थपरतया
योजनमात्ररूपं शिरस्त्राणानुगुण्येन शिरःकर्तनन्यायमेवानुसरीति निर्मत्सरास्तत्त्वबुभुत्सवो
विद्वांसो विदांकुर्वन्तु।
(महीधरव्याख्याने असामञ्जस्य प्रदर्शनम्)
यदपि शंकरमतानुयायिना वाजसनेयिसंहिताव्याख्यात्रा महीधरेण शांकर व्याख्याने क्वचिदंशे
किञ्चिदस्वारस्यं मन्वानेन यत्किञ्च जगत्यां जगत् तेन त्यक्तेन भुञ्जिथाः इत्यंशस्य
यत्किञ्चेति भिन्नक्रमम्, किञ्च यत् जगत्यां लोकत्रये,
जगत् जङ्गमादिकम्, स्वामिसम्बन्धालिङ्गितं
भवेत्, तेन सर्वेण, त्यक्तेन-त्यक्तस्वस्वामिसम्बन्धेन, भुञ्जिथाः - भोगमनुभवेः इति
व्याख्यानं कृतम् । तदप्यसत्, स्वामिसम्बन्धालिङ्गितं भवेदिति स्वैरपूरणात्, भुञ्जिथाः
इत्यस्य भोगमनुभवेरित्यर्थकरणस्योदक्षरत्वाच्च। भुञ्जीथाः इत्यत्र भोगमात्रस्य लाभेन
तदनुभवो हि न केनापि लभ्यते।
किञ्च भुजेः सकर्मकत्वेन कर्मसापेक्षतया कर्मतया तदन्वययोग्यस्य तेन त्यक्तेन इत्यस्य,
करणतयान्वयो न घटते । अन्यथा, अन्नं भुञ्जिथा इति
स्थाने अन्नेन भुञ्जिथाः इत्यपि प्रयोगापत्तेः।
एवम्- ईशावास्यमिदं सर्वम् इत्यंशस्य शंकरवदेव स्वयमपि
परमार्थसत्यरूपस्वात्मस्वरूपयाथात्म्यानुसन्धानेन
अनृतरूपकृत्स्नद्वैत प्रपञ्चनिराकरणविधिपरतां व्याख्याय,
पश्चात् किञ्च इत्यादिना ममताबुध्यनास्पदीकृतजङ्गमादिभोगोपकरणेन
भोगानुभवविधिपरतया यत्किञ्चेत्याद्यंशस्य व्याख्यानं हि असमञ्जसम्, द्वैतप्रपञ्चनिराकरणस्य
जङ्गमादिवस्तुकरणकभोगानुभवस्य च द्वयोरेकंप्रति विधानासम्भवात् ।
किञ्च मा गृधः कस्यस्विद्धनम् इत्यस्य क्वापि धने कस्यापि स्वत्वं वस्तुतो नास्ति;
अतः स्वीयत्वेन परकीयत्वेन वा, लोकसिद्धे सर्वस्मिन्नपि वस्तुनि ममताबुद्धिं मा कृथाः
इति व्याख्यानात्, पूर्वांशस्य ममतालिङ्गिते वस्तुनि सर्वत्र ममताबुद्धिं प्रहाय तेन
भोगमनुभवेः इति व्याख्यानाच्च, सर्वत्रैव ममता बुद्धिं प्रहाय तेनैव भोगानु भवप्रसङ्गेन
विपरीतो महाननर्थोऽपि प्रसज्यते । परकीयेषु वस्तुषु स्वेन ममताबुद्धिप्रहाणेऽपि परेषां
तत्र तद््बुद्धिसत्वेन तत्कृतोपरोधादिमूलसर्वदुःखस्य, तथाविधोपरोधाद्यसत्वे च स्वैरं
परदारपरद्रव्यापहारादिशास्त्रप्रतिषिद्धाकृत्यकरणेऽपि दोषाभावप्रसंगस्य च आपातात् ।
इतरांशस्य शंकरवदेवानेनापि व्याख्यानात् तद्वयाख्याने
प्रागुक्ता दोषास्सर्वेऽप्येतद््व्याख्यानेऽपि
तदवस्थाः। अत एतद् व्याख्यानमपि असम
ञ्जसमेव ।
(ईशेत्यस्य रुद्रपरत्वानौचित्यम्)
एतेन ईशावास्यम् इति समस्तपदमाश्रित्य,
ईशेनरुद्रेण, आवास्यं व्याप्यम् इति व्याकृत्य, रूढिर्योगमपहरति
(पू.मी.6.1.12) इति न्यायेन, योगाद्रूढेर्बलिष्ठतया
रुद्रपरत्वम् ईशपदस्याश्रित्य रुद्रस्यैवैतन्मन्त्रप्रतिपाद्यत्वम्,
एतदुपनिषत्प्रतिपाद्य- विद्यावेद्यत्वं च मन्यमाना अपि निरस्ताः । अद्येतृपाठ-सम्प्रदायविरोधेन
अत्र समस्तपदस्वीकारासम्भवात्, तृतीयान्तस्य क्विबन्तेशधातु-निष्पन्नेट्छब्दस्य यौगिकस्यैव
अत्र पदविभागानुसन्धायि अध्येतृपाठसम्प्रदाय-सिद्धतया, तस्य योगमात्रेणैश्वर्यविशिष्टवाचकस्य
रुद्रे रूढिप्रसंगस्यैवाभावात् ।
(वास्यशब्दस्य व्याप्त्यर्थकत्वनिरासः)
तदानीं वस-निवासे (धा.पा. 1005) इति निवासार्थकवसधातोः गृहे वसति इत्यादिप्रयोगवशेन
अकर्मकताया एव सिद्धतया लः कर्मणि च भावे चाकर्मकेभ्यः’(पा.सू.3-4-69) इत्यनुशासनेन
अकर्मकेभ्यो धातुभ्यो भावकर्त्रोः एव लकारविधानेन तयोरेवकृत्यक्तखलर्थाः इत्यनुशासनेन
लकारादेशभूतकृत्य प्रत्ययानां भावकर्मणोरेव विधानेन च
तस्माद्धातोः कर्मणि कृत्यप्रत्ययान्तर्गतण्यत्प्रत्ययासम्भवेन
भावार्थे तत्सम्भवेऽपि तस्य इह अनुपकारकत्वेन च वास्यमित्यस्य व्याप्यार्थकताया एवासम्भवाच्च।
यद्यापि, आवास्यम् इति पदच्छेदमाश्रित्य वसतेराङ्पूर्वकत्वाश्रयणे उपान्वध्याड्वसः (पा.सू.1.4.48)
इत्यनुशासनेन आड्पूर्वकस्य तस्य आधारकर्मकतया सकर्मकत्वसम्भवेनतदुपरिकर्मणि ण्यप्रत्ययसम्भवेन
च, आवास्यम् इत्यस्य व्याप्यार्थकत्वमपि कथंचित्सुवचम्।
तथापि वास्यम् इत्येव पदविभागस्य अध्येतृपाठसंप्रदायसिद्धतया, तत्राड्
प्रश्लेषकल्पनापि न सम्भवति, पाठसम्प्रदायोल्लङ्घने वेदप्रामाण्यस्यैव दुर्लभत्व
प्रसङ्गात्, अविच्छिन्नशिष्टपाठसम्प्रदायस्यैव वेदप्रामाण्यबीजतायाः सर्वसम्प्रतिपन्नत्वाच्च
। अस्तु वा समस्तपदपाठसम्भावनाऽपि क्वचित् तथापि, का नः क्षतिः? सर्वपरवि
द्यानां यतो वा इमानि भूतानि जायन्ते । येन जातानि जीवन्ति । यत्प्रयन्त्यभिसंविशन्ति
। तद्विजिज्ञासस्व । तद्ब्रह्मेति । (तै.भृ.1) कारणं तु ध्येयः (अथर्वशिरः 2) । इत्यादि
शास्त्रैः निखिलजगत्कारणभूत ब्रह्मविषयत्वस्यैव सिद्धतया, रुद्रस्य तथात्वासम्भवेनैव
अत्र ईशशब्दस्य तत्परत्वासम्भवात्, उपपदाभावेनासंकोचतोऽनवधिकैश्वर्यत्त्वेन रूपेण
योगशक्तिमात्रेण
निखिलजगत्कारणभूतनारायणपरताया एव वक्तव्यत्वाच्च।
यथा हि रूढ्या, अन्यपरतया प्रसिद्धानाम्
आकाशप्राणादिशब्दानां, प्रकरणप्रतिपन्नजगत्कारणत्वाद्यनुपपत्त्या,
रूढ्यर्थप्रहाणेन योगशक्तया, परब्रह्मपरत्वं स्था- पितम् आकाशाद्यधिकरणेषु; तथैवेहापि
भविष्यतीति न किञ्चिदवहीनम्।
जगत्कारणत्वं च नारायण सृज्यकोटिप्रविष्टस्य कर्मवश्यस्य रुद्रस्य न सम्भवति, एको
ह वै नारायण आसीन्न ब्रह्मानेशानः इति महोपनिषदा,
नारा यणाद््ब्रह्मा जायते । नारायणाद््रुद्रो
जायते इति नारायणोपनिषदा अनपहतपाप्मा वा अहमस्मि अविहितनामा । नाम मे धेहि पाप्मनोऽपहत्यै
इति शतापथाष्टमूर्ति- ब्राह्मण श्रुत्यादिभिश्च रुद्रस्य नारायणसृज्यकोटिप्रविष्टतया
कर्मवश्यतायाः नारायणस्यैव निखिलजगत्परमकारणतायाश्च प्रतिपन्नत्वात्।
एवम्, ईशावास्यम् इत्यत्र विवक्षितसर्वभूतान्तरात्मत्वलक्षणा व्याप्तिरपि तस्य
न सम्भवति, एष सर्वभूतान्तरात्मापहतपाप्मा दिव्यो देव एको नारायणः (सु.उ.7) इत्यदि श्रुत्या-
सर्वत्रासौ समस्तं च वसत्यत्रेति वै यतः।
ततस्स वासुदेवेति विद्वद््भिः परिपठ्यते ।। (वि.पु.1.2)
इत्यादि स्मृत्या च, नारायणस्यैकस्यैव 1तस्याः प्रतिपन्नत्वात् ।
(ईशपदस्य रुद्रपरत्वे प्रकरणविरोधप्रदर्शनम्)
अपि च अस्यामेवोपनिषदि उत्तरत्र पूषन्नेकर्षे
(ई.उ.16) इति मन्त्रे, कल्याणतमाप्राकृतदिव्यरूपविशिष्टादित्यमण्डलान्तर्वर्तिपरमपुरुषविषयत्वस्य,
अत्र विवक्षित
परविद्यायाः प्रतिपन्नत्वात् तादृशपरमपुरुषस्य, य एषोऽन्तरादित्ये हिरण्मयः पुरुषोदृश्यते
हिरण्यश्मश्रुर्हिरण्यकेश आप्रणखात्सर्व, एव सुवर्णस्तस्य यथा कप्यासं पुण्डरीकमेवमक्षिणी
तस्योदिति नाम स एष सर्वेभ्यः पाप्मभ्य उदितः (छा.उ.1.6.6,7) । इति च छान्दोग्यश्रुत्या
पुण्डरीकाक्षत्वापहतपाप्मत्वादिभिः नारायणरूपतायाः स्फुटीकृतत्वाच्चास्याः विद्याया
अनपहतपाप्मविरूपाक्ष रुद्रविषयता न कथञ्चिदपि संभवतीत्यतोऽप्यत्रत्येशशब्दस्य
समस्तपदघटकतासंभावनायामपि प्रकरणविरोधेन नारायणपरत्वं दुरपहनमेव।
वस्तुतोऽत्र ईशावास्यम् इत्यस्य व्याप्तिपरत्वस्वीकारोऽपि
नोचितः, उत्तरवाक्यार्थानुपकारकत्वात्
। तस्माद्यथोक्तरीत्यैव
व्याख्यानम् इह उचितम्।
(नारायणपरत्वे श्रुतप्रकाशिकासम्मतिः)
अत एव स्तुतयेऽनुमतिर्वा (ब्र.सू.3.4.14) इति सूत्रश्रुतप्रकाशिकायाम् ईशावास्यम्
इति ईट्शब्दस्तृतीयान्तः, ईशा तेन, वास्यं, यद्वा, ईशेन आवास्यम्, ईश्वरपरतन्त्रमित्यर्थः
इति व्यासार्यैः अपि व्याख्यानं कृतम्।
अत्यन्तपारतन्त्र्यस्य स्वैरविनियोगयोग्यत्वरूपत्वेन
स्वातिशयाधायकतयाऽपि विनियोगप्रयोजकत्वसम्भवात्
शेषत्वगर्भितत्वसम्भवे न, परतन्त्रशब्देन शेषत्वगर्भितम् अत्यन्तपारतन्त्र्यमेवेह विवक्षितम्,
प्रागुक्तरीत्या तस्यैव त्यागगर्भित भोगरूपवक्ष्यमाणवाक्यार्थोपकारकत्वात्।
अत एव च, त्यागशब्दार्थानुसन्धानविशेषस्वरूपं प्रदर्शयदभिः भाष्यकारैः
स्वनियाम्यस्वरूपस्थितिप्रवृत्तिस्वशेषतैकरसेनानेनात्माना
इति तादृशानुसन्धानस्य शेषत्वपारतन्त्र्योभयगर्भितत्वं दर्शितम्।
(वास्यशब्दस्य आच्छादनार्थत्वे स्वारस्यं)
वास्यशब्दस्य प्रागुक्तरीत्या वस-आच्छादने इति धातुनिष्पन्नत्वाभिप्रायेणैव
परतन्त्रपरता दर्शितश्रुतप्रकाशिकाभिप्रेता; वस्त्रादिवत्स्वेष्टानुगुण्येन धार्यत्वार्थकत्वे
सत्येवात्यन्तपारतन्त्र्यलाभात्, वस-निवासे इति धातोरकर्मकत्वेन तदुपरि कर्मणि
ण्यत्प्रत्ययासम्भवादिदोषस्य प्रागेवोक्तत्वाच्च।
यद्वा वस-निवासे इति धातोरपि ण्यन्तात्कर्मणि ण्यत्प्रत्ययाश्रयणसम्भवेन, वासयितुं
स्वेष्टानुगण्येन स्थापयितुं-योग्यं वास्यमिति व्युत्पत्त्याऽपि वास्य शब्दस्य यथोक्तार्थ
एव पर्यवसानं सम्भवतीत्यपि सुवचम्।
अत्र, ईशेनावास्यमिति समस्तपदाभिप्रायेण व्याख्यानमपि, संहितास्थ- मन्त्राणामपि,
केषांचिच्छाखास्वपिपाठदर्शनेनतत्ररदविभागाध्ययनस्यपाठसंप्रदायासिद्धतया तत्र प्रकारान्तरेण
योजनानामपि दर्शनात्, तद्वदस्यापि मन्त्रस्य क्वचित् पाठसम्भावनायामपि यथोक्तार्थपर
एवायं मन्त्र इत्यभिप्रायेणैव कृतम्; नतु तथाविधं पाठं क्वचिद्दष्ट््वा तदनुरोधेन कृतम्
; तथाविधपाठस्य क्वाप्यनुपलम्भादिति बोध्यम्।
(केषांचित् व्याख्यानविमर्शः)
एतेन सर्वमिदं तत्तत्प्रमाणसिद्धं सर्वं चिदचिदात्मकं वस्तु, ईशा सर्वनियन्त्रा
पुरुषोत्तमेन वास्यं व्याप्यमित्यर्थः, सर्वाधारे स्वस्मिन् स्वेन वासनीयं वा इति,
जगत्यां सर्वस्मिन्नपि लोके, यत्किञ्च यत्किञ्चिदस्ति, इदं सर्वमिति पूर्वेण सम्बन्धः
इति भुञ्जीथाः इत्यत्र अप्रतिषिद्धयोगधर्मोपयुक्तदेह
धारणमात्रौपयिकभोग्यवर्गमित्यर्थंप्रकरणाभ्याम् सिध्यति ।
यद्वा, सर्वावासत्वेन प्रकृतं निरतिशयभोग्यं वक्ष्यमाणोपायसुखेन भुञ्जीथा इति योज्यम्
इति तेन जगता भोग्यताभ्रमविषयेण, त्यक्तेन दोषभूयस्त्वदर्शनात् परित्यक्तेन, उपलक्षितस्सन्
भुंजीथाः इति च केषांचिद्वयाख्यानमपि अनुपपन्नमितिसिद्धम् ।
शब्दस्वभावविरोधात्पूर्वोत्तरवाक्यार्थ
संगत्यभावात्, स्वरसालभ्यपूरणगर्भत्वाच्च ।
निवासार्थकस्य वसतेः अकर्मकत्वेन तदुपरिकर्मणिण्यत्प्रत्ययासम्भवात्तद्धातुनिष्पन्नस्य
वास्यमित्यस्य व्याप्यार्थकत्वं हि न सम्भवति । ण्यन्तात्तस्मात्कर्मणिण्यत्प्रत्ययाश्रयणेन
सम्पाद्यस्य, सर्वाधारेस्वस्मिनस्वेन वासयितव्यमित्यर्थस्यापि नात्र विवक्षा युक्तां
। उत्तरवाक्यार्थानुपकारकत्वात् व्याप्यार्थकत्वस्य कथंचित्संपादनेऽपि तस्याप्ययं दोषस्समानः।
भुञ्जीथाः इत्यत्र देहधारणमात्रौपयिकान्नपानादिभोग्यवर्गस्य,
सर्वावास- भूतनिरतिशियभोग्यपरमपुरुषस्य
वा कर्मणो वाचकशब्दपूरणं, वक्ष्यमाणोपायेनेति करणवाचकपूरणं च गुरुतरं स्वैरं कल्प्यमानं
न सहृदयंगमम् ; क्लिष्ट- कल्पनामूलत्वेनास्वारसिकत्वात्, गौरवात्, क्लिष्टकल्पनामन्तरेण
पूर्वोक्तरीत्या निर्वाहसम्भवाच्च । एवं तेन त्यक्तेन इत्यत्र वैराग्यवशेन स्वरूपतस्त्यागस्यैव
विवक्षिततया तथा त्यक्तेन तेन वैशिष्टयरूपतदुपलक्षितत्वस्य त्यागानन्तरमसिद्धया तदुपलक्षितस्सन्
भुञ्जिथा इति वाक्यार्थानुपपत्तिः।
न च यदाकदाचित् तत् संबन्धित्वरूपं तदुपलक्षितत्वमिह विवक्षितुं शक्यम् । इत्थंभूतलक्षणे
इत्यनुशासनसिद्धतृतीयायास्तत्काले व्यावर्तकधर्मविधया
प्रकृत्यर्थ रूपलक्षणवैशिष्ट्यरूपोपलक्षितत्वैपरत्वात् । अपि भवान्
कमण्डलुना च्छात्रमद्राक्षीत् इत्यादितदुदाहरणस्थलेषु
तत्काले प्रकृत्यर्थरूप लक्षणवैशिष्ट्यरूपलक्षितत्वस्यैवनु-
भवदर्शनादन्यथा तत्कालेदर्शनोपयोगित्वेनापेक्षिताया
व्यावृत्तेः तत्रासिद्धिप्रसङ्गाद्वैशिष्ट्यपरत्वसम्भवे
यदाकदाचित्संबन्धित्वपरत्वकल्पनाया अस्वारसिकत्वाच्च।
तस्माद्यथोक्तरीत्यैव व्याख्यानं स्वीकर्तुं युक्तं प्रामाणिकैः।
(स्वोक्तत्यगशब्दार्थस्य त्रिविधत्यगानुसन्धानपरत्वसमर्थनम्)
न चास्मिन् मन्त्रे तत्तद्वस्तुष्वेव त्यागोऽभिहितो दृश्यते, न कर्मसु । तत्कथं
वक्ष्यमाणकर्मानुष्ठानांगभूतः कर्मसु त्रिविधत्यागरूपो यथोक्तलक्षणानु सन्धानविशेषोऽनेन
मन्त्रेण सिध्यतीति वाच्यं, जीवात्मविशिष्टत्वप्रकारकधीविषयसामान्य
विशेष्यकभगवद्विशिष्टत्वप्रकारक
निर्णयस्यैव तेन त्यक्तेन इत्यत्र त्यजिधात्वर्थत्वात्,
तादृशनिर्णयप्रयोज्य प्रागुक्त-लक्षणानुसन्धान-विशेषविषयत्वरूपफलाश्रयत्वरूपकर्मत्वस्यैव
तदुत्तरक्तप्रत्ययार्थत्वाच्च । तादृशकर्मत्वाश्रय
तत्तद्वस्तुविशिष्टकर्तृकतायां तत्तद्वस्तुकर्मकभोगे
विधीयमानायां परंपरया तद्विशेषणभूततादृशनिर्णयेऽपि विधेयत्वसिद्ध्या वक्ष्यमाणकर्मस्वपि
यथोक्तलक्षणानुसन्धानविशेषसिद्धेर्निष्प्रत्यूहत्वात् ।
धियो जीवात्मविशिष्टत्वं, स्वभोगसाधनत्व स्वसम्बन्धित्वोभयसम्बन्धेन। भग
वद्विशिष्टत्वं स्वेतरपुरुषव्यापाराप्रयोज्यस्वव्यापारप्रयोज्यस्वभोगसाधनत्व
स्वसम्बन्धित्वोभयसम्बन्धेनेति
बोध्यम् । तादृशनिर्णयस्य दर्शितोभयसम्बन्धेन जीवात्मविशिष्टत्वबुद्धित्यागपर्यवसाय
ित्वात्त्यागरूपत्वमित्यवसेयम्।
स्वेष्टसाधनत्वबुद्धिमन्तरेणकस्मिन्नपि कर्मणि पुरुषस्यप्रवृत्त्यनुदयेनतादृशविषयसामान्ये
दर्शितनिर्णयसिद्धौ तदधीनदर्शितानुसन्धानविशेषस्सर्वकर्मस्ववर्जनीयः
प्राप्नोत्येवेति च बोध्यम्।
किञ्च, यथा हि मयि सर्वाणि कर्माणि सन्यस्याध्यात्मचेतसा इत्यादावभिहितः कर्मसु
त्यागः, तत्कर्तृतदुपकरणादिविषयः पर्यवस्यति । तथैवेहाभिहितो वस्तुषु त्यागोऽपि
तत्तद्वस्तुतद्विनियोजनकर्मादिविषयः पर्यवस्यतीति न कश्चिद्दोषः।
अत एवहि मयि सर्वाणि कर्माणि सन्नयस्य इति श्लोकभाष्ये
स्वकीयेनात्मना कर्त्रास्वकीयैश्चोपकरणैः
स्वाराधनैकप्रयोजनायपरमपुरुषस्सर्वेश्वरस्सर्वशेषीस्वयमेव स्वकर्माणि कारयति इति वाक्येन
तत्तत्कर्मतत्कर्तृतदुपकरणद्रव्यादि विषयानुसन्धानविशेषरूपमेव
कर्मत्यागस्वरूपं विवृतं भाष्यकारैः।
न हि तत्तद्वस्तुषु परं स्वकीयत्वस्वार्थत्वबुद्धिं प्रहाय तद्विनियोजनादिकर्मसु
परं तादृशबुद्धिमनपहायैव तानि स्वोपयोगे विनियुञ्जानास्तद्वस्तुत्यागिनो भवन्ति।
तस्मात्कर्मत्यागाभिधानस्य कर्मतत्संबन्धिकर्तृद्रव्यादित्यागपरत्ववद्वस्तुत्यागाभिधानस्यापि
तत्तद्वस्तुतत्सम्बन्धिकर्मादित्यागपरत्वस्यावर्जनीयतयाऽत्राभिधीयमानो वस्तुत्यागः
कर्मत्यागान्नार्थान्तरं भवितुमर्हतीति वक्ष्यमाणे मुमुक्षूपयोगिकर्मानुष्ठानेंऽगतयापेक्षितो
दर्शितत्रिविधत्यागलक्षणानुसन्धानविशेष एव प्रथममन्त्रे दर्शित इति सिद्धम् ।