अष्टादशो मन्त्रः
अग्ने नय सुपथा राये अस्मान् विश्वानि देव वयुनानि विद्वान् ।
युयोध्यस्मज्जुहुराणमेनो भूयिष्ठां ते नम उक्तिं विधेम ।।18।।
B.18
" प्र.-पुनरपि अग्निनशब्दवाच्यं भगवन्तं प्रति इष्टप्राप्तिम् अनिष्टनिवृत्तिं च"
प्रार्थयते-अग्ने नय इति ।
" बृहदारण्यके च सप्तमाध्याये यदा वै पुरुषोऽस्माल्लोकात्प्रैति स वायुम् (बृ.उ.7-10-1)"
इत्यादिना अर्चिरादिकं पन्थानम् उपादिश्य षश्चात् अध्यायावसाने
*1.अभेदं भोक्तृणां इति - उपनिषदियं शंकर-भास्कर-यादवप्रकाश-रूपत्रिविधाद्वैतिनामपि साकल्येन
विरुद्धा -इति श्लोकेनानेन तत्तन्मतखण्डने, दिक्प्रदर्शनं श्रीदेशिकैः क्रियते । तत्र
जीवब्रह्मणोः ऐक्यप्रतिपादनं त्रिषु समानम् । शांकरेषु अवान्तरभेदोऽपि एकजीववादिनः
नानाजीववादिनश्चेति । श्लोके भोक्तणां अभेद इति जीवैक्यवादकथनम् । भविनामेव परतां इति
- सर्वजीवानां परब्रह्मणा एक्यकथनमुखेन नानाजीववादिनां शांकरैकदेशिनां, भास्क
र-यादवप्रकाशयोश्च संग्रहः । जगति-चिदचिदात्मके जैनाभिमतपरस्परं भेदाभेदं ब्रह्मप्रतियोगीकतयापि
निरूपयन्तौ भास्करादवौ, सौगतैर्बौद्वैरिष्टं विज्ञानात्मवादं परिगृहणन् शांकराद्वैती
च द्वितीयपदे मुखान्तरेण
परामृश्टाः । तथा अविद्यानिवृत्तेरेव साध्यत्वात्, तत्सिद्धौ स्वस्वरूपावाप्तेः अयत्नसिद्धतया
मुक्तेः असम्पाद्यतां भवबन्धस्य सौगतेष्टां अलीकतां
हिरण्मयेन पात्रेण (बृ.उ.7-15-1) इत्याद्या एते चत्वारो मन्त्राः क्रमेण पठिताः ।
(परमात्मनि अनिष्ठनिवृत्तिपूर्वकेष्टप्राप्तिप्रार्थना)
" अग्ने - अग्निशरीरक, यस्याग्निश्शरीरम् (बृ.उ.5-7-9) इति अन्तर्यामि ब्राह्मणम् । यद्वा"
साक्षादप्यविरोधं जैमिनिः (ब्र.सू.1-2-29) इति न्यायेन, अग्रं- नयतीति अग्निः ; अग्रनयनादिगुणयुक्त
नय - प्रवर्तयेत्यर्थः । सुपथा-शोभनमार्गेण- प्रतिषेधस्पर्शरहितेन याजनाध्यापनाद्युपायेन
इति यावत् । राये - विद्यार्थशरीरसंरक्षणत्वदर्चनानुगुणाय धनायेत्यर्थः ।
अथवा–
अतस्करकरग्राह्यमराजकवशंवदम् ।
अदायादविभागार्हं धनमार्जय सुस्थिरम् (या.स्मृ.2-40)
अनन्तं बत मे वित्तम् (म.भा.शां.17-223) इत्यादिषूक्तम् अलौकिकधनम् इह विवक्षितम् ।
विद्याप्रकरणानुगुण्यात् । एक एव मन्त्रः प्रकरणादिभिः विशेषितः तत्तदनुगुणमर्थं बोधयतीति,
सम्यङ््न्यायविद इत्याचार्याः । यद्वा अग्ने नय प्रापय इत्यर्थः । सुपथा - अर्चिरादिपथेन,
बृहदारण्यकपाठेऽर्चिरादिपथस्य बुद्धिस्थत्वात् ;
अर्चिरहस्मितपक्षानुदगयनाब्दौ च मारुतार्केन्दून् ।
अपि वैद्युतवरुणेन्द्रप्रजापतीनातिवाहिकानाहुः (त.सा.102)
इत्यभियुक्तसंगृहीतेन मार्गेण इति भावः । अर्चिरादिमार्गविवक्षापि आचार्याभिप्रेतैव
(ब्रह्मणो धनत्वसमर्थनम्)
" राये- इत्यत्र ब्रह्मणः प्राप्यत्वोपवर्णनात् ब्रह्मैव हि सुस्थिरम् अनन्तम् अलौकिकं"
च धनम् । अत एव तत्र तत्र एवमुच्यते धनं मदीयं तव पादपंकजम् (स्तो.र.30)
यो नित्यमच्युतपदाम्बुजयुग्मरुक्मव्यामोहतः (वै.स्त.1)
यदंजनाभं निरपायमस्ति मे धनंजयस्यन्दनभूषणं धनम् (वै.पं.4)
न मे पित्रार्जितं द्रव्यं न मया किंचिदार्जितम् ।
अस्ति मे हस्तिशैलाग्रे वस्तु पैतामहं धनम् ।। (वै.पं.6) इति ।
" अत्र चैवं शांकरं व्याख्यानम् - सुपथा शोभनमार्गेण,"
सुपथेति विशेषणं दक्षिणमार्गनिवृत्यर्थं
; विषण्णोऽहं दक्षिणेन मार्गेण गतागतलक्षणेन ; अतो याचे त्वां पुनःपुनर्गमनागमनवर्जितेन
शोभनेन पथा नयेति इति ।
" राये -हिरण्यनिधिसरूपाय पुरुषाय ; त्वत्प्राप्तये इति भावः ।"
अस्मान् -अनन्यप्रयोजनाननन्यगतींश्चेत्यर्थः
। न केवलं माम्, अपित्वनुबन्धिजनानपीति बहुवचनस्याभिप्रायः । देव -
अस्मदपेक्षितप्रदानानुगुणविचित्रजगत्सृष्टिस्थिति
संहारान्तः प्रवेशनियमनस्वाश्रितविमोचनादिरूपविलक्षणक्रीडायुक्त ।
यो ब्रह्माणं विदधाति पूर्वं यो वै वेदांश्च प्रहिणोति तस्मै ।
तँ ह देवमात्मबुद्धिप्रसादं मुमुक्षुर्वै शरणमहं प्रपद्ये ।। (श्वे.उ.6-18)
इति मन्त्रेऽपि देवशब्दस्यैवमेवाभिप्रायः । वयुनशब्दो ज्ञानवाची, माया वयुनं ज्ञानम्
(निघण्टुः3-9) इति नैघण्टुकोक्तेः । अत्र तु लक्षणया ज्ञातव्योपायपरः । विश्वानि वयुनानि - सर्वानपि तत्तदधिकारानुगुणचतुर्विधपुरुषार्थोपायान्यथावद्विद्वान्
त्वमविदुषोऽस्मान्नेतुमर्हसीति
भावः। यो वै वेदांश्च प्रहिणोति तस्मै (श्वे.उ.9-18) इति मन्त्रपदानामप्येतदेव हृदयम् ।
" मुमुक्षुर्वै शरणमहं प्रपद्ये (श्वे.उ.9-18) इति मन्त्रगतमुमुक्षुपदं विवृण्वन्नाह"
युयोध्यस्मज्जुहुराणमेः इति । हृ कौटिल्ये (पा.धा.211) । जुहुराणम् - कुटिलं वन्धनात्मकमित्यर्थः
। यद्वा - अचिन्त्यप्रकारकौटिल्यतया बाधमानम् इति भावः । अनेन विशेषणेन अतितीव्रः
शोकवेगोद्योत्यते । एनः - अकृत्यकरणकृत्याकरणादिरूपं
त्वदुपासनोत्पत्तिप्रतिबन्धकम् इत्यर्थः । त्वत्प्राप्तिप्रतिबन्धकम् इति वा । एनः-
इत्येकवचनं जात्यभिप्रायकम् । वस्तुतस्तु कियदिदं निवर्त्यमेनः ? निवर्तकानुरूपं हि
न भवति ; नहि सर्वशक्तेस्तव इदमनुरूपं लक्ष्यम् ; नापि नम उक्तेः ; भूयसी हि सा इति
एकवचनस्याभिप्रायः । अस्मत् - अस्मत्तः, युयोधि - पृथक्कुरु, विनाशयेति भावः ।
" यद्वा - पृथक्कुरु, एतावदेव याचे त्वां, जुहुराणम् एनः अस्मत्तः प्रथमं वियोजय इति"
, तत्पश्चात् यथामनोरथं विनाशयसि चेद्विनाशय, पुरुषान्तरे
संक्रामय नास्ति तत्रास्माकं निर्बन्ध इति भावः ।
(इष्टसाधनतया शरणागतिविधानम्)
" भूयिष्ठाम् - अनन्यगतित्वादिगुणैरावृत्तितश्च भूयसीं, नम उक्तिं, ते - अवाप्तस"
मस्तकामतया निरुपाधिकसर्वस्वामितया च नम उक्त्यन्यनिरपेक्षाय ते, विधेम - विदध्महे,
व्यत्ययो बहुलमनुशिष्टः । नम उक्तेरनुवृत्तिं वा नाथं प्रतिनाथते । नम इत्येव वादिनः
(म.भा.शां.337-40) इति हि मुक्तानामपि लक्षणं मोक्षधर्मे श्रुतम् मानस-कायिकयोर्नमसोरभावेऽपि
नमश्शब्दमात्रेण त्वं प्रसन्नो भवितुमर्हसीत्युक्ति- शब्दाभिप्रायः ।
" हे अग्ने देव विश्वानि वयुनानि विद्वान् त्वं जुहुराणमेनोऽस्मत्तो युयोधि, सुपथाऽस्मान्"
राये नय, वयं ते भूयिष्ठां नम उक्तिं विधेम इत्यन्वयः ।
" नित्यांजलिपुटा हृष्टा नम उक्तिं विधेम इत्यर्थः । नम इत्येववादिनो भवामेति भावः ।"
(अष्टादशमन्त्रप्रतिपाद्यसारांशः)
" एवमस्मिन्नुवाके आदितो मन्त्राष्टकस्य चेतनाचेतनरूपमपरतत्त्वद्वयं कर्मयोग ज्ञानयोगरूपं"
व्यवहितोपायद्वयं च प्रधानप्रतिपाद्यम् ; उपरितनाष्टकस्य तु परतत्व- परमपुरुषविषयकं
भक्तियोगरूपं साक्षात्साधनम् ; अवशिष्टमन्त्रद्वयस्य सर्वफल- साधनं प्रपदनं प्रधानप्रतिपाद्यम् ।
(गीतायाः षट््कत्रयानुरोधेन मन्त्राणां विभागः)
" एवं च श्रीभगवद््गीताध्यायेषु प्रथमषट््कं प्रथमाष्टकस्योपबृम्हणम्, द्वितीयषट््कं"
द्वितीयाष्टकस्य, तृतीयषट््कमवशिष्टमन्त्रद्विकस्योपबृम्हणम् ।
तृतीयषट््कं हि प्रथममध्यमषट््काभ्याम्
उक्ततत्वोपायपुरुषार्थविशदीकरणपूर्वकं शरणागतिविधि- प्रधानम् । तत्र चरमश्लोकस्य पूर्वार्धं
वायुरनिलममृतम् (ई.उ.17) इति मन्त्रोक्तानुष्ठानविधायकम् । उत्तरार्धन्तु युयोध्यस्मज्जुहुराणमेनः
(ई.उ.18) इति प्रार्थयमानानां प्रार्थनापूरणसंकल्पपूर्वकं शोकप्रतिक्षेपकमिति चरमश्लोकोऽप्यस्य
मन्त्रद्विकस्योपबृम्हणमेवेति सिद्धम् ।
" एवं परतत्वतद्विभूतियोगतदुपासनतत्प्रपदनतत्फलविशेषान् संगृह्य संहितेयं समपूर्यत ।"
वेदान्तगुरुपादाब्जध्याननिर्मलचेतसा ।
वाजिवेदान्तसारार्थः श्रीवत्सांकेन दर्शितः ।।
यदिह रहस्यं विवृतं यद्वा न्यूनं वचोऽधिकं यच्च ।
कृपया तदिदं सर्वं देवः क्षमते तथा महान्तोऽपि ।।
(अवतारिका)