१७

सप्तदशो मन्त्रः
वायुरनिलममृतम्- अथेदं भस्मान्तँ शरीरम् ।
ओं क्रतो स्मर कृतँ स्मर-क्रतो स्मर कृतँ स्मर ।।17।।
(क्रतुस्वरूपे भगवति प्रारब्धपापनिवृत्तिपूर्वकरक्षणप्रार्थना)
B.17
" प्र.-एवं परावरतत्त्वविवेकपरमनिश्श्रेयससाधनभूतसाङ्गभक्तियोगं"
तन्निष्टस्य अनुसन्धेयमन्त्रद्वयं
च उपदिश्य इदानीं भक्तियोगे ज्ञानशक्त्यादिशून्यतया शरणागतिमवलम्बमानानां
तदनुष्ठानमन्त्रौ उपदिशति ।
(शरणागतिपरतया मन्त्रविवरणम्)
" 1यद्यप्यागमे आचार्यैः इमौ शरणागतिमन्त्राविति रहस्यत्वात् कण्ठरवेण नाऽभिहितौ ;"
तथापि प्राज्ञानाम् अर्थसामर्थ्यात् यथा तत्परत्वावगमः सुशकः;तथातयोः श्लोकयोः अर्थवर्णनं
कृतम् । अभाषि च इत्थमन्ते -
व्यक्ताव्यक्ते वाजिनां संहितान्ते व्याख्यामित्थं वाजिवक्त्रप्रसादात् ।
वैश्वामित्रो विश्वमित्रं व्यतानीद्विद्वच्छात्रप्रीतये वेंकटेशः ।। (ई.उ.वे.भा.18) इति ।
अत्र विद्वच्छात्रप्रीतये इत्यनेन स्वप्रबन्धस्य निगूढाभिप्रायत्वं व्यञ्जितम् ।
" एवमाचार्याभिप्रायविषयत्वात् शरणागतिपरतया मन्त्रद्वयं व्याख्यास्यते । तत्र वायुरनिलम्"
इति प्रथमश्लोकः 2 पूर्वखण्डसमानार्थकः । अग्ने नय (ई.उ.18) इत्यादिश्च अपरश्लोक
उत्तरखण्डसमानार्थकः । तथा च -
प्राप्यस्य ब्रह्मणो रूपं प्राप्तुश्च प्रत्यगात्मनः ।
प्राप्त्युपायं फलं प्राप्तेस्तथा प्राप्तिविरोधि च ।। (हा.सं.)
इत्येवमाद्याः पूर्वोत्तरखण्डयोर्विशोधिता ये पदार्थाः, ये च वाक्यार्थभेदाः,ते सर्वेऽपि
इह पूर्वोत्तरयोः श्लोकयोः अनुसन्धेयाः ।
(ब्रह्मणि आत्मसमर्पणम्)
*3 सर्वोपायविनिर्मुक्तं क्षेत्रज्ञं ब्रह््णि न्यसेत् ।
एतज्ज्ञानं च योगश्च शेषोऽन्यो ग्रन्थविस्तरः ।। (द.स्मृ.)
इत्यादिशास्त्रैः प्रोक्षणादिभिः समिदादिकमिवपरिशुद्धस्वरूपयाथाम्यज्ञानेन
संस्कृत्यैव आत्महविस्समर्पणीयमित्युक्तत्वात् इहापि शरीरेन्द्रियादिभ्यो विविक्तं
स्वात्मानं प्रथमं विशोध्य ब्रह्मणि समर्प्य स्वाधिकारानुगुणमर्थयते - वायुः इति । भोक्ता
भोग्यं प्रेरितारं च मत्वा (श्वे.उ.1-12) इत्यादिश्रुत्यन्तरप्रसिद्धः चिदचिदीश्वरतत्त्वक्रमः
इहापि द्रष्टव्यः । वायुः - विद्याकर्मानुगुणभगवत्संकल्पवशेन तत्र तत्र गन्तृत्वाद्वायुः
अनेन जीवस्य अणुपरिमाणत्वं परमात्माधीनत्वं च सिद्ध्यति । वा गति-गन्धनयोः (पा.धा.1050)
इति धातुः । निलयनरहितत्वात्क्वचिदपि व्यवस्थितत्वाभावाच्च अनिलम् । अमृतम् - म्रियमाणेऽपि
देहसन्ताने स्वयममृतं स्वरूपतो धर्मतश्च अविनाशीत्यर्थः। अविनाशी वा अरेऽयमात्मा अनुच्छित्तिधर्मा
(बृ.उ.6-5-14) न विज्ञातुर्विज्ञातेर्विपरिलोपो विद्यते (बृ.उ.6-3-30) न विद्यते उच्छित्तिः
विनाशो यस्य सः अनुच्छित्तिः नित्य इत्यर्थः । अनुच्छित्तिः धर्मो यस्यासावनुच्छित्तिधर्मेति
पुनर्बहुव्रीहिः । नित्यज्ञानवान् इति भावः । आहुश्च यामुनाचार्याः -
तदेवं चित्स्वभावस्य पुंसः स्वाभाविकी चितिः ।
तत्तत्पदार्थसंसर्गात्तत्तद्वित्तित्वमश्नुते ।। (आ.सि.23)
इति । इदममृतत्वम् अपहतपाप्मत्वादीनामप्युपलक्षणम्, परिशुद्धजीवविषये प्रजा- पतिवाक्ये,
य आत्मापहतपाप्मा विजरो विमृत्युर्विशोको विजिघत्सोऽपिपासस्सत्य कामस्सत्यसङ्कल्पः
(छां.उ.8-7-1) इति पाठात् । अनिलममृतम् इति पदद्वयमपि पुल्लिंगत्वेन विपरिणेयम्, वायुरिति
पुल्लिंङ्गत्वेनोपक्रमात् ।
" अत्र वायुश्चान्तरिक्षं च एतदमृतम् (बृ.उ.4-3-3) इत्यादिकं परामृश्य वाय््वादिशब्दानां"
भूतद्वितीयविषयकत्वं नाशङ्कनीयम् ; पूर्वापराभ्याम् असंगतेः, नापि
विशिष्टवृत्त्या वायुगतपरमात्मविषयत्वम्
आशङ्कनीयम् ; नश्वरस्य देहस्य अनन्तरवचनेन तद्वचवृत्तप्रत्यगात्मपरत्वस्यैव न्याय््यत्वात्
। क्षरं प्रधानममृताक्षरं हरः क्षरात्मानावीशते देव एकः (श्वे.उ.1-10) । स्वभोग्यतया
प्रधानं हरतीति हरः जीव इत्यर्थः । क्षरं त्वविद्या ह्यमृतं तु विद्या विद्याविद्ये
ईशते यस्तु सोऽन्यः (श्वे.उ.5-1) इति श्वेताश्वतरीये भोग्यभोक्तृनियन्त्र्तॄणां
विवेचने अमृतशब्देन प्रत्यगात्मनोऽ 1भिसन्धान दर्शनाच्च अत्रापि अमृतशब्दो जीवात्मपर
इत्येव युक्तम् ।
" एवं प्रत्यगात्मस्वरूपस्य न जायते म्रियते वा विपश्चित् (क.उ.2-18)"
इत्यादि प्रसिद्धम् अमृतत्वमभिधाय क्षेत्रस्य शरीरस्य मृतत्वम् अवश्यम्भावीत्याह - अथेदं
भस्मान्तं शरीरम् इति । प्रकृतादर्थादर्थान्तरविवक्षयात्राथशब्दः, जिवात्मोत्-
क्रमणानन्तर्यार्थको
वा ; यद्वा कात्स्न्र्यपरः । स्मर्यते च -
ब्रह्मादिषु प्रलीनेषु नष्टे स्थावरजंगमे ।
एकस्तिष्ठति विश्वात्मा स तु नारायणोऽव्ययः ।। (म.भा.सभा.)
इति । भस्मशब्दो दाहाख्यसंस्कारपरः । स खननादेरपि उपलक्षकः । अथवा कलेबरं विट््क्रिमिभस्मसंज्ञितम्
इत्यन्यत्र प्रसिद्धक्रिम्यन्तत्वादेरुपलक्षको भस्मान्तशब्दः । त्यागे कृते क्रव्यादभक्षितं
शरीरं विट््संज्ञितं भवति ; खनने क्रिमिसंज्ञितम् दाहे भस्मसंज्ञितमिति भावः ।
(शरीरस्य भस्मान्तोपदेशे प्रयोजनम्)
" ननु केषुचिच्छरीरेषु प्रत्यक्ष एव विनाशो दृष्टः ; अविनष्टेष्वपि अन्येषु अनुमानात्"
विनाशित्वं सुनिश्चितम् ; अन्यथा शत्रून्प्रति शस्त्रादिकं
न प्रयुज्यत ; स्वयमपि शत्रुप्रयुक्तशस्त्रशरादिकं
न निवारयेत् । एवं सम्प्रतिपन्नस्य भस्मान्ततादेः इह उपदेशे किं प्रयोजनम् इति चेत्

  • उच्यते, आत्मशरीरयोः अमृतत्वमृतत्वरूपविरुद्धधर्मप्रदर्शनेन भेदसमर्थनं तावत् एकं
    प्रयोजनम् ; अपथ्यपरिहाररसायनसेवादिभिः किं नित्यत्वं सम्भवेदिति सन्देहापाकरणं द्वितीय्,
    स्वदेहेऽपि वैराग्यजननं तृतीयम् ; विनाशहेतौ सति अवश्यं
    नश्यतीतिवत् भगवदुपासनादिभिरन्तविनाशस्यापि
    सम्भावनाद्योतनं चतुर्थम्, शीघ्रं मोक्षोपाये प्रवर्तितव्यम् इति त्वरासञ्जननं पञ्चमम्
    । एवम् उक्तान्यनुक्तानि च प्रयोजनान्तराणि गीताद्वितीयाध्याय तात्पर्यचन्द्रिकायां
    द्रव्टव्यानि ।
    (परमात्मवाचकः प्रणवः)
    " एवं भोक्ता भोग्यं प्रेरितारं च मत्वा (श्वे.उ.1-12) इति क्रमेण चिदचिद्विवेकमुक्त्वा"
    प्रेरितारं 1प्राकृतं
    महापुरुषं प्रणवेन उपादत्ते - ओम् इति । यथा आमनन्त्याथर्वणाः
    यः पुनरेतं त्रिमात्रेणोमित्यनेनैवाक्षरेण
    परमपुरुषमभिध्यायीत (प्र.उ.5-5) इति । उक्तं च योगानुशासने
    क्लेशकर्मविपाकाशयैरपरामृष्टः पुरुषविशेष ईश्वरः
    सर्वेषामपि गुरुः कालेनानवच्छेदात् (पा.यो.सू.1-24) तस्य वाचकः प्रणवः (पा.यो.सू.1-27)
    इति । आह च सर्वज्ञः ओमित्येव सदा विप्राः पठध्वं ध्यात केशवम् (हरिवं.वि.133-10) इति
    । स्वयं चागायत् ओमित्येकाक्षरं ब्रह्म व्याहरन्मामनुस्मरन्
    (भ.गी.8-13) इति । एवं सर्वत्र द्रष्टव्यम् ।
    " अथवा शरीरमात्मानं च विविच्य विविक्तमात्मानम् अकारवाच्ये परमपुरुषे समर्पयति - ओम्"
    इति । प्रणवस्य आत्मसमर्पणपरत्वम् ओमित्यात्मानं युंजीत (तै.ना.78)
    प्रणवो धनुश्शरो ह्यात्मा ब्रह्म तल्लक्षयमुच्यते ।
    *1 अप्रमत्तेन वेद्धव्यं शरवत्तन्मयो भवेत् ।। (मुं.उ.2-2-4)
    इत्यादिषु प्रसिद्धम् ।
    (भगवदनुग्रहप्रार्थना)
    " अथक्रतुरूपिणं भगवन्तं ज्ञानयज्ञगोचरम् अभिमुखीकुर्वंस्तदनुग्रहंयाचते - क्रतो स्मर"
    । क्रतो - ज्योतिष्टोमादिक्रियात्मक, यथाह अहं क्रतुरहं यज्ञः (भ.गी.9-16) इति । यज्ञः
    पञ्चमहायज्ञा इत्यर्थः । अथवा क्रतो - भक्तिस्वरूप,
    *1. शरीरशब्दे व्युत्पत्तिनिमित्तेति - शीर्यते इति शरीरमिति व्युत्पत्त्या इह विशरणशालित्वं
    प्रकरणानुसारतो ग्राह्याम् । अस्मत्सिद्धान्तानुसारेण आधेयत्वाविधेयत्वशेषत्वादिकंयत्
    शरीरशब्दप्रवृत्तिनिमित्तं न तदिह ग्राह्याम् प्रकृतानुपयोदात् ।शब्दानां अन्यच्च व्युत्पत्तिनिमित्तं
    अन्यदेव च प्रवृत्तिनिमित्तम् । यथा - गच्छतीति गौरिति गोशब्दस्य गमनशालित्वं व्युत्पत्तिनिमित्तमेव
    । न तत् - प्रवृत्तिनिमित्तम् । शयाने गवि तत्प्रयोगाभावप्रसंगात् । अतः सास्नादिमत्त्वरूपजातिरेव
    प्रवृत्तिनिमित्तमिति सर्वसंप्रतिपन्नम् । उक्तं हि वाक्यपदीये न हि गौः स्वरूपेण गौः
    नाप्यगौः गौत्वाभि,म्बन्धात्तु गौः इति । अतः प्रकृते शरीरशब्दस्य
    व्युत्पत्तिनिमित्तग्रहणोक्तिरिति भाष्यम् ।।
    *2. क्लेशकर्मेति- इदं योगसूत्रम् । क्लेशाः अविद्या- अस्मिता-रागः- द्वेषः- अभिनिवेशश्च-इत्यमी
    पंच जीवं क्लेशयन्तीति क्लेशहेतुत्वात् क्लेशत्वोक्तिः । कारेण कार्यशब्दोपचारः । आयुर्वै
    घृतमितिवत् । कर्माणि च धर्माधर्महेतुभूतनि सम्यहिंसादीनि । अत्रापि पूर्ववदुपचारः ।
    तज्जन्यं फलं विपाकः । स च जन्म-आयुः - सुखदुःखभोगरूपः । तदनुगुणाश्च तत्तदात्मनिष्ठाः
    वासनाख्यसंस्काराः आशब्देनोच्यन्ते । एतैः अपरामृष्टः- वियुक्तः ईश्वरः इति प्रथमसूत्रार्थः
    । स ईश्वरः पूर्वेषां हिरण्यगर्भादियोगयोगप्रवर्तकानामपि गुरुः । प्रथमोपदेष्टा । कालानवच्छेधात्
    । हिरण्यगर्भाद्यास्तु शतायुष्ट््वादिरीत्या कालावच्छिन्नाः । ईश्वरस्तु न तथेति सर्वगुरुत्वम्
    । इति द्वितीयसूत्रार्थः । तृतीयं सूत्रं तु स्पष्टार्थम् ।
    *3.सर्वज्ञः इति - शंकर इत्यर्थः । कोशात् - ईश्वरात् ज्ञानमन्विच्छेत् इत्यादिव्यवहाराच्च
    । स हि दिव्यसूरिभिरपि नुण््उणर्विल नीलार्् कण्डत्तम्मान् इत्यादिना
    सूक्ष्मज्ञानविशेषवत्तया प्रशस्यते ।
    *1.स्थिते मनसि इति । अयमत्र पूर्णः श्लोकः -यथा -
    स्थिते मनसि सुस्वस्थे शरीरे सति यो नरः ।
    " धातुसाम्ये स्थिते स्मर्ता विश्वरूपं च मामजम् ।। इति ।।"
    ततस्तं म्रियमाणं इत्यादिः एतदनन्तरश्लोकः उपरि व्यख्यायामेव दृष्टः । श्लोकयुग्ममिदं
    संहत्य वराहचरमश्लोकतया ख्यातम् ।
    *1.प्रकरणात् । एवं- क.
    *2.एतावन्तं - क.
    *1.आगम् अचार्यैः इति । श्रीमद्वेदान्ताचार्यैः स्वविरचिते
    ईशवास्यभाष्ये प्रकृतमन्त्रस्थले - इत्यर्थः ।
    *2.पूर्वखण्ड-उत्तरखण्ड इति । अत्र पूर्वोत्तरखण्डशब्दाभ्यां पूर्वोक्तवराहचरमश्लोकयुग्मे
    पूर्वः उत्थरश्च श्लोकः विवक्षितः ।
    *3.सर्वोपायविनिर्मुक्तमिति । अनेन ब्रह्मणि स्वरक्षणभारविन्यासरूपशरणागतेः
    पूर्वं सर्वोपायविनिर्मुक्तत्वमुच्यते
    । सर्वधर्मान् परित्यज्य इत्यातमनुवादः । तत्र स्नात्वा भुंजीत इत्यत्र स्नानस्य यथा
    भोजनं पूर्वांदतया विधिः. तथा सर्वोपायत्यागस्यापि शरणागतेः पूर्वांगतया विधिरेवेति
    केषांचित् सम्प्रदायः । सर्वोपायान् परित्यज्य स्थितश्चेत् इति अनुवादमात्रं न विधिरिति
    अपरेषां सम्प्रदायः इति बोध्यम् ।
    *1.अप्रमत्तेन वेद्धव्यम् इति । मुण्डकोपनिषद््गतोऽयं मन्त्रः प्रपत्तिपर इति सम्प्रदायः
    । प्रणवानिसन्धानपूर्वकं ब्रह्मणि स्वरक्षणभरार्पणस्य विधानात्, प्रणवस्य धनुष्ट््वेन
    स्वात्मनः शरत्वेन च रूपणं युक्तम् । तथा लक्ष्यब्रह्मवेधनं नाम -तस्मिन्नात्मार्पणमेव
    । तच्च अप्रमत्तेन चित्तेन । अनन्यशेषत्वादिभावबन्धनपरिष्कृतेनेति भावः । फलमिह तन्मयत्वम्
    मयट्् अत्र प्राचुर्ये । अपहतपाप्मत्वादिना ब्रह्मणा परमसाम्यपत्तिविवक्ष तदर्थः ।
    *1.प्रकृतं - क,ग.
    यथाक्रतुरस्मिल्लोके पुरुषो भवति तथेतः प्रेत्य भवति (छां.उ.3-14-1) स क्रतुं कुर्वीत
    (छां.उ.3-14-1) एवं क्रतुरहम् (अग्नि.र.10-6-1) इत्यादिषु क्रतुशब्दस्य भक्तियोगेऽपि
    प्रयोगदर्शनात् भक्तियोगगोचरे भगवति तच्छब्द उपचारात् इत्याचार्याः । रक्षकस्य भक्तियोगस्थाने
    निवेशनं क्रतो ! इति सम्बोधनेन विवक्षितमिति भावः । स्मर - सानुग्रहया बुद्ध्या विषयीकुरु,
    स्नेहपूर्णेन मनसा यत् नः स्मरसि केशव (वरा.च.श्लो) इतिवत् । उक्तं च
    भगवता स्थिते मनसि इत्यारभ्य -
    ततस्तं म्रियमाणं तु काष्ठपाषाणसन्निभम् ।
    अहं स्मरामि मद््भक्तं नयामि परमां गतिम् ।। (वरा.च.श्लो.) इति ।
    " अत्र स्मरामि नयामि इति पदद्वयस्य क्रतो स्मर अग्ने नय इति । प्रार्थनाद्वयापेक्षया"
    प्रतिवचनत्वावगमद्वारा वराहचरमश्लोकद्वयं वायुरनिलममृतम् इत्यादि मन्त्रद्वयोपब्रह्मणमिति
    भावः । कृतं स्मर - मत्कृतं यत्किञ्चिदानुकूल्यमनुसन्धाय कृतज्ञस्त्वं मां रक्षेति वा,
    *1 एतावदन्तं त्वत्कृतमानुकूल्यं प्रतिसन्धायत्वमेव शेषपूरणं कुरु इति वा भावः । स्मरन्ति
    हि जायमानं हि पुरुषम् (म.भा.शां.358) इत्यादि । त्वरातिशयात्
    क्रतो स्मर कृतं स्मर इत्यावृत्तिः ।।