१६

षोडशो मन्त्रः
पूषन्नेकर्षे यम सूर्य प्राजाप्तय व्यूह रश्मीन् समूह तेजः ।
यत्ते रूपं कल्याणतमं तत्ते पश्यामि योऽसावसौ पुरुषस्सोऽहमस्मि ।।16।।
B.16
" प्र.-पुनरपि तया दृष्टया द्रष्टव्यं विशिंषन् दर्शनं तत्साधनं चाभ्यर्थयते- पूषन् इति ।"
" पूषन् - आश्रितपोषक । एकश्चासावृषिश्च एकर्षिः -"
अद्वियोऽतीन्द्रियार्थद्रष्टा । नान्योऽतोऽस्ति
द्रष्टा (बृ.उ.5-7-23) इति श्रुतेः ।
यम- यमयति सर्वान् इति यमः, सर्वान्तर्यामिन् । यः पृथिवीमन्तरो यमयति - - - - - य आत्मानमन्तरो
यमयति (शत.ब्रा.14-5-7.30) इत्यादिश्रुतेः । सूर्य- स्वभक्तबुद्धीनां सुष्ठु प्रेरक
। प्राजापत्य - प्रजापतिः चतुर्मुखः, तस्य सुताः प्राजापत्याः, तेषामन्तर्यामिन् । यद्वा-
प्रजापतिरेव प्राजापत्यः, वैश्वानर इतिवत्, विश्वानर एव हि वैश्वानरः; तथा च प्रजानां
पतिरिति व्युत्पत्त्या प्रजापतिः विष्णुः प्रजापतिश्चरति गर्भे अन्तः (तै.ना.1-1) इति
श्रुतेः । व्यूह रश्मीन्- भवदीयदिव्यरूपदर्शनानुपययुक्तान् स्वोग्ररशमीन्, व्यूह - व्यपोह
विगमयेत्यर्थः । यत्तु दर्शनौपयिकं प्रभात्मकं सौम्यं तेजः - तत् समूह - समूहीकुरु ।
तत्किमर्थमित्याशंक्य अर्जुनादिवद््द्रष्टुमिच्छामि ते रूपमित्याह - यत् इति । आदित्यवर्णं तमसः
परस्तात् (पु.सू.) इत्यादिषु प्रसिद्धमित्यर्थः । ते - आनन्दोब्रह्म (तै.भृ.2-1) इति
निरतिशयभोग्यस्य तव अतिकल्याणतमं सौन्दर्यादिगुणातिशयेन
प्रियतमं सर्वेभ्यः कल्याणगुणेभ्योऽतिशयितं
कल्याणं च शुभाश्रयभूतमित्यर्थः । ते - यद्दिव्यं रूपं तत् पश्यामि- पश्येयमिति लिङर्थो
ग्राह्यः । लकारव्यत्ययश्छान्दसः । द्रष्टुमिच्छामि इति भावः ।
(भगवद्धिग्रहस्य दिव्यत्वम्)
" अकायमव्रणम् (ई.उ.8) अशरीरं शरीरेषु (क.उ.2-22) अपाणिपादो जवनोग्रहीता (श्वे.उ.3-19)"
इत्यादि सामान्यवचनानि, अजायमानः (पु.सू) अजोऽपि सन्नव्ययात्मा (भ.गी.4-6) न चास्य
प्राकृता मूर्तिः (वरा.पु.75-42) इत्यादि विशेषवचनसिद्धहेयशरीरप्रतिषेधपरणि ।
" ननु यत्ते रूपं कल्याणतमं य एषोऽन्तरादित्ये हिरण्मयः पुरुषः (छां.उ.1-6-6) ईशावास्यमिदं"
सर्वम् (ई.उ.1) पतिं विश्वस्यात्मेश्वरम् (तै.ना.) सर्वकर्मा सर्वगन्धः (छां.उ.3-14-2)
स्वाभाविकी ज्ञानबलक्रिया च (श्वे.उ.6-8) तस्य ह वा एतस्य ब्रह्मणो नाम सत्यमिति (छां.उ.8-3-4)
तस्योदिति नाम (छां.उ.1-6-7) इत्यादिभिः शास्त्रैर्गुणविग्रहादयो
ब्रह्मणोऽपि विधीयन्ते ; निगुर्णम्
(आत्मोपनिषत्) निरञ्जनम् (श्वे.उ.6-19) अविकाराय (वि.पु.1-2-1) अकायमव्रणम् (ई.उ.8)
नेह नानास्ति किंचन (क.उ.4-11)निष्कलं निष्क्रियम् (श्वे.उ.6-19) अगोत्रमवर्णम् (मु.उ.1-1-6)
अगोत्रमिति - अनामकमित्यर्थः । एवमादिभिश्शास्त्रैः गुणादयः प्रतिषिध्यन्ते । तथा च
विधिप्रतिषेधयोः विरोधादन्यतरबाधोऽवश्यंभावी, तत्र निषेधस्य प्रसक्तिपूर्वकतया पश्चात्प्रवृत्तं
प्रतिषेधशास्त्रम1पच्छेदाधिकरणन्यायेन प्रबलम् । अतः प्रतिषेधबलेन गुणादिविधयः सर्वे
बाधिताः । ततश्च अविद्याख्यदोषपरिकल्पिता गुणविग्रहादयो मिथ्याभूता इति ।
" तदिदमनादरणियम् 1पशुच्छागनयेन, 2उत्सर्गापवादनयेन च विधिनिषेधयोः भिन्नविषयत्वोपपादनेन"
तयोर्विरोधगन्धाभावात् । विधीनां
प्रतिषेधबाध्यत्वानुपपत्ते । तदुक्तं वरदाचार्येस्तत्त्वसारे -
" 3यद््ब्रह्मणो गुणविकारशरीरभेदकर्मादिगोचरविधिप्रतिषेधवाचः ।"
अन्योन्यभिन्नविषया नविरोधगन्धमर्हन्ति तन्न विधयःप्रतिषेधबाध्याः।।(त.सा.69) इति ।
" अथ अन्तर्यामिणम् अहंग्रहेणानुसन्धत्ते - योऽसावसौ पुरुषस्सोऽहमस्मि इति । असावसाविति"
वीप्सा आदरार्था । यद्वा - अदश्शब्दौ विभज्य यत्तच्छब्दाभ्याम् अन्वेतव्यौ । कथमिति
चेत् - इत्थं - योऽसौ पुरुषः, अहं सोऽसावस्मीति ।
(पुरुषशब्दस्य परमात्मार्थकत्वस्थापनम्)
" यद्यपि पुरुषशब्दः प्रकृतिं पुरुषं चैव विध्यनादि उभावपि (भ.गी.13-19) योगोयोगविदां"
नेता प्रधानपुरुषेश्वरः (वि.स.3) इत्यादिषु जीववाचितया प्रसिद्धः ; तथापि तेनेदं पूर्णं
पुरुषेण सर्वम् (श्वे.उ.1-1-7) पूर्वमेवाहमिहासमिति तत्पुरुषस्य पुरुषत्वम् (तै.आर.1-23)
महान् प्रभुर्वै पुरुषस्सत्त्वस्यैष प्रवर्तकः (श्वे.उ.3-12)
इत्यादिश्रुत्या पूर्णत्वपूर्वसत्त्वादिगुणकसर्ववेदपठितपुरुषसूक्तादिप्रसिद्धो
महापुरुष एव इह पुरुषशब्देन विवक्षितः ।
(जीवब्रह्मणोस्सामानाधिकरण्यम्)
" ननु योऽसौ पुरुषस्सोऽसावहमस्मि (म.स्मृ.1-7) इति कथं सामानाधिकरण्यम्, अहंपदार्थस्य"
जीवात्मनः परमपुरुषाद््भिन्नत्वात् इति चेत् न - अहंशब्देनापि अस्मदर्थान्तर्यामिण एवाभिधानेन
अहं स इति निर्देशस्य सुसंगतत्वात् । ननु च अहंशब्दस्य
प्रत्यगर्थान्तर्यामिपरत्वे सोऽस्मीत्युत्तमपुरुषो
न घटते, नहि मदन्तर्यामी परमपुरुषोऽस्मीति अन्वयो युज्यते -
इति चेत् उच्यते । मदन्तर्यामीत्यादिशब्दान्तरेणोपस्थापिते
प्रत्यगर्थान्तर्यामिणि उत्तमपुरुषान्वयासम्भ- वेऽपि अहमित्यस्मत्पदोपस्थापिते
तस्मिन्नुत्तमपुरुषान्वयो
युज्यत एव। तथा हि पाणिनिसूत्रम् अस्मद्युत्तमः (पा.सू.1-4-107) इति । प्रत्यगर्थबोधकास्मच्छब्दोप-
पदे उत्तमपुरुषो, भवतीत्यर्थः । न पुनरस्मच्छब्दस्य प्रत्यगर्थद्वारा
परमात्मपर्यन्ततायामुत्तमनिवृत्तिरिति,
अधिकंतुप्रविष्टं न तु तद्धानिकरम् इति न्यायात् ।
" एवं तत्त्वमसि (छां.उ.6-8-7) इत्यादिष्वपि असीति"
मध्यमपुरुषो निर्वाह्यः; त्वंपदेनाभिमुखचेतनद्वारैव
तदन्तर्यामिणोऽभिधानाभ्युपगमात् । तत्रापि युष्मद्युपपदे समानाधिकरणे स्थानिन्यपि मध्यमः
(पा.सू.1-4-105) इत्येतावदेव हि स्मर्यते । न तु युष्मच्छब्दस्य स्वाभिमुखचेतनद्वारा
तदन्तर्यामिपर्यन्तत्वे मध्यमनिवृत्तिपरि ।
(अद्वैतिनां मते मध्यमोत्तमपुरुषानुपपत्तिः)
" ये तु तत्त्वमसि (छां.उ.6-8-7) सोऽहमस्मि (छां.उ.4-11-1)"
इत्यादावहंत्वमादिशब्दे युष्मदस्मदर्थपरित्यागेन
निर्विशेषचिन्मात्रस्वरूपैक्यमेव वाक्यवेद्यमाहुः, तानेव तत्त्वमसि (छां.उ.6-8-7) इत्यादिवाक्योषु
असिरिव सोऽहमस्मि इति वाक्यस्थास्मिरपि खण्डयति । श्रोतर्यनुसन्धातरि च युष्मदस्मदी
हि तै ः परित्यक्ते । न हि तेषामसिना कश्चित्प्रतिबोधनीयोऽस्ति,
न च कश्चिदस्मिना विशिष्यानुसन्धेयः ।
" ननु प्रकृते युष्मदस्मदर्थयोः अविवक्षायामपि तयोः"
व्युत्पन्नयुष्मदस्मच्छब्दोपपदमात्रोपजीवनेन
अस्मत्पक्षेऽपि क्वचिन्मध्यमोत्तमयोरुपप- त्तिरिति चेन्न, ततोऽप्यपरित्यक्तप्रवृत्तिनिमित्तकस्य
अस्माकं निर्वहणस्यैवानुसर्तुमुचितत्वात् ।
" अपरेत्वाहुः योऽसावसौ पुरुषस्सोऽहमस्मि इत्यत्र पुरुषशब्देन परमपुरुषो न विवक्षणीयः,"
तथा सति अस्मीत्युत्तमस्य पुरुषः 1इत्याख्यायाः सोऽहम् इति च सामानाधिकरण्यस्य क्लेशेन
निर्वाह्यत्वात् । ततो वरमत्र पुरुषशब्दस्य परिशुद्धजीवात्मपरत्वम् आश्रयितुम् । एवं
च सति यः पुरुषो मुक्तदशाभाव्याकारः परिशुद्धजीवात्मा सोऽहमस्मीत्यन्वयात् उत्तमस्य
पुरुषः इत्याख्यायाः सामानाधिकरण्यस्य च अतिस्वरसो निर्वाह इति ।
" नायं पक्षस्साधुः - तथा भवत्वेवमिह निर्वहणं, तथापि तत्त्वमसि (छां.उ.6-8-7) इत्यत्र"
तत्पदस्य त्वं वा अहमस्मि भगवो देवते अहं वै त्वमसि (वरा.उ.2-34) इत्यादिषु त्वंपदस्य
च परदेवतावाचकत्वेन त्वदुक्तनिर्वाहस्य तत्राभावात् अकामेनापि तत्र अस्मदुक्तनिर्वाहस्य
समाश्रयणे तत्समानन्यायतया अत्रापि तस्यैव अनुसर्तुम् उचितत्वात् इति ।
(मध्यमोत्तमपुरुषव्यवस्थासमर्थनम्)
" स्यादेतत् । त्वं वा अहमस्मि भगवो देवते अहं वै त्वमसि"
(वरा.उ.2-34) इत्यत्र कथं पुरुषव्यवस्था
? त्वमहं पदयोरुभयोरपि श्रवणात् ।
" उद्देश्यविषयकमेव युष्मदादिपदम् उपपदत्वेन पाणिनिसूत्राभिमतम्,"
तथा च उद्देश्यसमर्पकोपपदवशादेव
अत्र मध्यमोत्तमयोर्व्यवस्था सिद्धयतीति चेत् - अस्त्वेवमिह समाधानं ; तथापि तत्त््वमसि
(छां.उ.6-8-7) इत्यत्र पुरुषव्यवस्था न घटते, तत्र त्वंपदयोगवत् तत्पदयोगस्यापि सत्त्वात्
। तथा च असीतिवत् अस्तीति प्रथमपुरुषस्यापि प्रसंगः, न ह्यत्रापि त्वंपदम् उद्देश्यसमर्पकं,
येन त्वंपदमेव पुरुषनिमित्तं न तत्पदमपीति व्यवस्था स्यात् ।
" तथा च तत्त्वमसिनिरूपणावसरे भाष्ये नात्र किंचिदुद्दिश्य किमपि विधीयते (श्री.भा.1-1-1)"
इति । तस्मात् तत्त्वमसि (छां.उ.6-8-7) इतिवत् तत्त्वमस्तीति प्रयोगोऽपि दुर्निवार इति ।
" अत्रोच्यते - तत्त्वमसि (छां.उ.6-8-7) इत्यत्रापि त्वंपदार्थ"
उद्देश्य एव । ततश्च उद्देश्यविषयकयुष्मत्पदवशात्
तत्र मध्यम एवेति न प्रथमपुरुषप्रसंगः ।
" नन्वेवं भाष्यविरोध इति चेन्न - भाष्यस्य विधेयांशमात्रनिषेधपरतया"
उद्देश्यांशनिषेधकत्वाभावात्
। तथा हि न ह्येवं भाष्याभिप्रायः, नात्र किंचिदुद्दिश्यते, न च किंचिद्विधीयते इत्यपि ।
" तर्ह्येवं भाष्याभिप्राये त्वंपदेन किंचिदुद्दिश्यत एव, किन्तूद्दिष्टेन किंचिद्विधीयत"
इति कथमिदवगम्यत इति चेन्न, प्राप्तस्यैव उपसंहारकत्वोपपादकभाष्येणैव विधेयांश एव निषिध्यते
इत्यभिप्रायस्य व्यक्तत्वात् ।
(उपचारपक्षनिराकरणम्)
" अन्योऽप्याह - त्वं राजासि अहं राजास्मि इत्यादिवत् तादधीन्याद्युपचारविवक्षया तत्त्वमसि"
सोऽहमस्मि (छां.उ.4-11-1) इत्यादिषु मध्यमोत्तमसामानाधिकरण्यानां सामंजस्यमिति, तदप्युपेक्षणीयमेव
। लोकवेदयोश्चेतनपर्यन्तदेवमनुष्यादिव्यवहारबलेन जातिगुणशब्दवत् मुख्यवृत्त्यैव निर्वाहसम्भवे
उपचारकल्पनस्य अन्याय्यत्वात् इत्यलं विस्तरेण ।।