पञ्चदशो मन्त्रः
हिरण्मयेन पात्रेण सत्यस्यापिहितं मुखम् ।
तत्त्वं पूषन्नपावृणु सत्यधर्माय दृष्टये ।। 15।।
B.15
" प्र.-एवमाचार्यः सांगभक्तियोगमुपदिश्य अथ तन्निष्ठस्य अनुसन्धेयं मन्त्रद्वयम् उपदिशति"
। तत्र प्रथमेन मन्त्रेण पूषशब्दविवक्षितं भगवन्तं प्रति प्रस्तुतां समाधिप्रतिब्नधकनिवृत्तिं
प्रार्थयते हिरण्मयेन इति ।
" हे पूषन् - आदित्यान्तर्यामिन् ! य आदित्ये तिष्ठन् (बृ.उ.5-7-13) इत्यारभ्य य आदित्यमन्तरो"
यमयति (बृ.उ.5-7-13) इति श्रुतेः ; 1शास्त्रदृष्ट््या
तूपदेशो वामदेववत् (ब्र.सू.1-1-31) इति न्यायाच्च ।
" यद्वा, पूषन् ! आश्रितपोषणस्वभाव ! इत्यर्थः । 2 साक्षादप्यविरोधं जैमिनिः (ब्र.सू.1-2-29)"
इति सूत्रितत्वात् । सत्यस्य - सत्यशब्देन अत्र प्रकृत्यादिवत् स्वरूपविकाररहितो जीवात्मोच्यते
। सत्यं चानृतं च सत्यमभवत् (तै.आन.6-3) इत्यादिषुजीवेऽपिसत्यशब्दप्रयोगात् । तस्य
मुखम्- मुखवत् अनेकेन्द्रियावष्टम्भतया मुखमदृशं मन इत्यर्थः । हिरण्मयेन -हिरण्मयसदृशेन,
कर्माधीनभोग्यवर्गेणेति यावत् । पात्रेण - परमात्मविषयकवृत्तिप्रतिरोधकेन अपिहितम्-
छादितम्, हृदिर्निहते परमात्मविषये निरुद्धवृत्तिकं जातमित्यर्थः। तत् - जीवस्य मुखस्थानीयं
मनः त्वम् । हृषीकाणामीशः त्वम् अपावृणु - निरस्ततिरोधानं कुरु इत्यर्थः । तत्कस्य हेतोः
? तत्राह-सत्यधर्माय -सत्यस्य जीवस्य धर्मभूतायै दृष्टये । दृष्टि-दर्शनम्, त्वद्दर्शनायेति भावः ।।
(वेद उपासते इत्यादि परयोजनापूर्वकम् उपासनमन्त्रप्रतिपादनम्)