१४

चतुर्दशो मन्त्रः
सम्भूतिं च विनाशं च यस्तद्वेदोभयँ सह ।
विनाशेन मृत्युं तीर्त्वा सम्भूत्याऽमृतमश्नुते ।।14।।
(दम्भादिविनाशांगकसम्भूत्या अमृतत्वप्राप्तिः)
B.14
प्र.-अन्यत् इत्युक्तं विवृणोति – सम्भूतिं च इति । सम्भूतिं च - समाधिरूप ब्रह्मानुभूतिं
च, विनाशं च - मानदम्भहिंसास्तेयबहिर्मुखेन्द्रियवृत्तिविशेषरूपाः ये योगविरोधिनः, तेषां
विनाशं वर्जनं चेत्येतदुभयं यो विद्वान् अंगांगिभावेन सह वेद, विनाशेन - निषेव्यमाणेनेति
शेषः । विरोधिनिवृत्तिरूपयोगांगसेवनेन इत्यर्थः । मृत्युम्- समाधिविरोधिपापम् ; तीर्त्वा

  • अपाकृत्य, निष्पन्नया सम्भूत्या अमृतम्
    अश्नुते - प्राप्तिरूपां सम्भूतिमेव अश्नुत इति भावः ।
    (पूर्वोक्तानुसन्धाने श्रुतिप्रामाण्यम्)
    अयमेव दम्भादिविनाशो बृहदारण्यके तस्माद््ब्राह्मणः पाण्डित्यं निर्विद्य बाल्येन
    तिष्ठासेत् (बृ.उ.5-5-1) इति बाल्यशब्देन विद्यांगतया विहितः । अत्र सम्भूतिविनाशशब्दाभ्यां
    सृष्टिप्रलयविवक्षया कार्यहिरण्यगर्भस्य अव्याकृतप्रधानस्य च
    उपासनं विधीयत इति शांकरव्याख्यानमनुपपन्नम्,
    तथा सति मृत्युतरणामृतत्वप्राप्तिरूपफलवचनानौचित्यात् इति ।।