१३

त्रयोदशो मन्त्रः
अन्यदेवाहुस्सम्भवात् अन्यदाहुरसम्भवात् ।
इति शुश्रुम धीराणां ये नस्तद्वयाचचक्षिरे ।। 13।।
B.13
प्र.- किं तर्हि मोक्षसाधनमित्यत्राह - अन्यदेवाहुः इति । सम्भवात् - सम्भूतेः, असम्भवात्,
असम्भूतेरित्यर्थः । केवलात्सम्भवादसम्भवाच्च अन्यदेव मोक्षसाधनम् इत्युपनिषद आहुः ।
लिडुत्तमः पूर्ववत् । स्पटमवशिष्टम् ।।