द्वादशो मन्त्रः
अन्ध तमः प्रविशन्ति येऽसम्भूतिमुपासते ।
ततो भूय इव ते तमो य उ सम्भूत्याँ रताः ।। 12।।
(सम्भूत्यसम्भूत्योरेकैकस्यानुष्ठाने दोषः)
B.12
कू.भा.-एवं समाधिनिष्पत्तेः अनभिसंहितफलनित्यनैमित्तिककर्मसाध्यत्वमुपदिश्य अनन्तरं
त्रिभिश्श्लोकैः निषिद्धनिवृत्तिरूपयोगांगसाध्यत्वमाह । तत्र
प्रथमं पूर्ववदेकैकमात्रनिष्ठान्विनिन्दति
- अन्धं तमः प्रविशन्ति इति ।
(सम्भूतिविनाशयोरेकैकस्योपासनस्य त्याज्यता)
एतमितः प्रेत्याभिसम्भवितास्मि (छां.उ. 3-14-4) ब्रह्मलोकम् अभिसम्भवामि (छां.उ.8-13-1)
इत्यादिषु प्रप्तिरूपा अनुभूतिः सम्भूतिशब्देन उक्ता । इह तु 1समाधिरूपा सा सम्भूतिशब्देन
उच्यते । असम्भूतिशब्दस्तु समाधिरूपां सम्भूत्यन्यां समाध्यंगभूतां निषिद्धनिवृत्तिमाह
। सम्भूतिं च विनाशं च इत्युत्तरत्र विनाशशब्देनासम्बूतेरनुवादात् । तथा च ये - विद्याधिकारिणः
असम्भूतिमेव मानदम्भहिंसास्तेयादीनां योगविरुद्धानां निवृत्तिमेवोपासते- निवृत्तिमात्रनिष्ठाः
इत्यर्थः ; ते अन्धंतमः प्रविशन्ति इति पूर्ववदर्थः । ये पुनस्सामाधिरूपसम्भूत्यामेव
“रताः, ते ततो भूय इव- बहुतरमिव तमः प्रविशन्तीत्यर्थः ।। "