एकादशो मन्त्रः
विद्यां चाविद्यां च यस्तद्वेदोभयं सह।
अविद्यया मृत्युं तीर्त्वा विद्ययाऽमृतमश्नुते ।। 11 ।।
B.11
ईशावास्यप्रकाशिका
" अन्यत्् इति सामान्येनोक्तं मोक्षसाधनं विवृणोति विद्यांचाविद्यां"
“च इति। कुर्वन्नेवेह”
कर्माणि इति श्लोके कर्मयोगस्य प्रत्यगात्मदर्शनद्वारा परभक्तयुत्पादकत्वम् उक्तम्,
इह तु उत्पन्नभक्तियोगेन विदुषा पूर्वोक्तकर्मयोगवेषं परित्यज्य अहरहरनुष्टीयमानानां
नित्यनैमित्तिककर्मणां कल्मषनिबर्हणद्वारा भक्तियोगोपचायकत्वम्
उच्यते,सहशब्दस्वारस्यात्। अतो न पुनरुक्तता।
" यः - यथावस्थितविद्योपदेशवान्। विद्याम् -"
ब्रह््मोपासनरूपाम्। अविद्याम्- तदंगभुतकर्मात्मिकां
च एतदुभयम्। सहवेद- अंगांगिभावेन सह अनुष्ठेयं वेद
इत्यर्थः। अत्र अविद्याशब्दः क्षत्रियविषयकाब्राह््मणशब्दवत्
तदन्यवृत्त्या विद्यांगकर्मविषय इति भावः। अविद्यया - विद्यांगरूपतया चोदितेन कर्मणा,
मृत्युम् -विद्योत्पत्तिप्रतिबन्धकभूतं पुण्यपापरूपं प्राक्तनं कर्म। तीर्त्वा-निरवशेषमुल्लंघ्य
विद्यया-परमात्मोपासनरूपया ।अमृतसश्नुते - मोक्षं प्राप्नोति इत्यर्थः। तीर्त्वा इत्यत्र
उपायविरोधितरणम् उच्यते। अमृतमश्नुते इति तु उपेयब्रह््मप्राप्तिविरोधिभूतेभ्यः
सर्वपापेभ्यो मोक्ष इति भेदः।
(उपबृम्हणविवरणम्)
" एवं च सति - इयाज सोऽपि सुबहून्यज्ञान् ज्ञानव्यपाश्रयः ।"
" ब्रह््मविद्यामधिष्ठाय तर्तुं मृत्युमविद्यया ।। (वि.पु.6-6-12)"
ज्ञानव्यपाश्रयः - शास्त्रश्रवणजन्यब्रह्मज्ञानवान् । 1सः1 -
जनकोऽपि ब्रह््मविद्याम्-निदिध्यासनरूपाम्।
अधिष्ठाय– फलत्वेन आश्रित्येत्यर्थः; भक्तियोगोत्पत्तिं कामयमान इति यावत्। मृत्युं
- भक्त्युत्पत्तिविरोधि प्राचीनं कर्मजातम्, अविद्यया - अनभिसंहितफलेन विद्यांगकर्मणा,
तर्तुं -व्यपोहितुम्, सुबहून् यज्ञान् -ज्योतिष्टोमादिकान् इयाज - अकरोत् इत्यर्थः।
पाकं पपाच इतिवत् । यथा - कषायपक्तिः कर्माणि ज्ञानं तु परमा गतिः
(म.भा.शां.276)परमभगवदाराधनरूपाणि
इति अनभिसंहितस्वर्गादिफलानि कर्माणि कषायस्य उभयविधपापस्य तज्जन्यरागद्वेषादेर्वा
पक्तिः विनाशकारणानि।
ज्ञानं तु परमागतिः परमागतिसाधनमित्यर्थः । उभयत्रापि कारणे कार्योपचारः।
*1 विष्णुपुराणश्लोके सः इति केशिध्वजो विवक्षितः। तस्यात्र जनकत्वेन उभयत्रापिः निर्देशः
निमिवंशीयानां सर्वेषां राज्ञां जनकत्वेनैव व्यवहारादिति समाधेयम्। खाण्डिक्यकेशिध्वजौ
निमिकुलोदभवविति विष्णुपुराणे।।
" कषाये कर्मभिः पक्वे ततो ज्ञानं प्रवर्तते। (म.भा.शां.276)"
" तपो विद्या च विप्रस्य निश्श्रेयसकरावुभौ।"
" तपसा कल्मषं हन्ति विद्ययाऽमृतश्नुते ।। (म.स्मृ.12-104)"
इत्यादीन्युपबृम्हणशतानि सुसंगतानि भवेयुः ।।