१०

दशमो मन्त्रः
अन्यदेवाहुर्विद्ययाऽन्यदाहुरविद्यया ।
इति शुश्रुम धीराणां ये नस्त1द्विचचक्षिरे ।।10।।
B.10
ईशावास्यप्रकाशिका
" किं तर्हिमोक्षसाधनमित्यत्राह - अन्यदेवाहुः इति । विद्यया इति पंचम्यर्थे तृतीया,"
यथाश्रुतत्वे अन्यशब्दानन्वयात्, अन्यदेवाहुस्सम्भवात् (ई.उ.13) इति वक्ष्यमाणानुसाराच्च
। तथा विद्यायाः -कर्मरहितविद्यातः, अन्यत् - मोक्षसाधनम् इत्याहुः । उपनिषद इति शेषः
। अविद्यया - इति पूर्ववत् पंचम्यर्थे तृतीया । अविद्यातः ब्रह्मज्ञानविधुरकर्मणश्च
अन्यदेव मोक्षसाधनम् इत्याहुः । उपनिषद्् इति भावः ।
" पूर्वपूर्वसम्प्रदायसिद्धोऽर्थोऽयमस्माकम् इत्याह -इति शुश्रुम इति । ये - पूर्वाचार्याः"
नः - प्रणिपातादिभिः सम्यगुपसन्नानाम् अस्माकम्, तत् - मोक्षसाधनम्, विचचक्षिरे - विविच्य
उपादिशन्, तेषां धीराणाम् - धीमताम् । पंचम्यर्थे षष्ठी । तेभ्यो धीरेभ्य इति योजनीयम्,
नटस्य श्रृणोति इतिवत् । नटाच्छुणोति इत्यर्थः । इति शुश्रुम एवं प्रकारम् अश्रौष्म ।
" ननु - परोक्ष एवार्थे लिड््विधानात् शुश्रुम इति लिडुत्तमपुरुषो न घटत इति चेत् - मैवम्"
; ब्रह्मविद्याया दुरवगाहत्वेन निश्शेषग्रहणम् अस्माभिः न कृतम् इत्यभिप्रायं कृत्वा
लिडुत्तमस्योपपत्तेः इत्याहुः ।।