नवमो मन्त्रः
अन्धं तमः प्रविशन्ति येऽविद्यामुपासते ।
ततो भूय इव ते तमो य उ विद्यायाँ रताः ।।9।।
B.9
ईशावास्यप्रकाशिका
" एवं विचित्रशक्तिकपरमात्मविषयां कर्मयोगाद्यंगिकां"
विद्यामुपदिश्य अनन्तरं त्रिभिश्श्लोकैः
केवलकर्मावलम्बिनः केवलविद्यावलम्बिनश्च पुरुषान्विनिन्दन् वर्णाश्रमधर्मानुगृहीतया
विद्ययैव निश्श्रेयसावाप्तिमाह - अन्धं तमः प्रविशन्ति इत्यादिना ।।
" बृहदारण्यके चायं मन्त्रः पठितः । ये - भोगैश्वर्यप्रसक्ताः, अविद्याम् - विद्यान्यां"
क्रियां केवलकर्म इत्यर्थः । विद्याविधुरं कर्मेति यावत् । अविद्या कर्मसंज्ञान्या तृतीय
शक्तिरिष्यते (वि.पु.6-7-61) इति स्मृतेः । उपासते - एकान्तमनसोऽनतिष्ठन्ति; ते अन्धं
तमः - अतिगाढ तमः अज्ञानमित्यर्थः । त्रिवर्गाभिषड्गान्नान्तरीयं नारकं
तमो वा । अधीयते च आथर्वणिकाः -
" प्लवा ह्येते अदृढा यज्ञरूपा अष्टादशोक्तमवरं येषु कर्म ।"
" एतच्छ्रेयो येऽभिनन्दन्ति मूढा जरामृत्यू ते पुनरेवापि यन्ति । (मुं.उ. 1-2-7) इति ।"
" य उ विद्यायां रताः - उकार उत्तरपदेनान्वेतव्यः । ये - स्वाधिकारोचितकर्मपरित्यागेन"
विद्यायामेव रताः - ते ततः - कर्ममात्रनिष्ठप्राप्य अन्धतमसात्, भूय इव तमः - अधिकम्
अज्ञानं विशन्ति । इव शब्दः तमसः इयत्ताया दुर्ग्रहत्वं द्योतयति ।।