०८

अष्टमो मन्त्रः
स पर्यगाच्छुक्रमकायमव्रणमस्नाविरँ शुद्धमपापविद्धम् ।
कविर्मनीषी परिभूस्स्वयम्भूर्याथातथ्यतोऽर्थान्
व्यदधाच्छाश्वतीभ्यस्समाभ्यः ।।8।।
B.8
ईशावास्यप्रकाशिका
" पुनरप्येनम् ईशेशितव्यतत्त्ववेदिनं वेदितव्येश्वरस्वरूपशोधनेन च विशिंषन् ध्यानयोगादिकमपि"
उपदिशति - स पर्यगात् इति ।
" सः - सर्वभूतान्तरात्मभूतब्रह्मदर्शी, पर्यगात् - पर्यगच्छत्, प्राप्नुयादित्यर्थः,"
ब्रह्मविदाप्नोति परम् (तै.आन.1-2) इति न्यायात् । यद्वा, समाधिलब्धेन अनुभवेन उपलब्धवान्
इति सिद्धानुवादः । अत्र ब्रह्म समश्नुते (क.उ.6-14) इतिवत् । शुक्रम् - अवदातम्, स्वप्रकाशरूपमित्यर्थः
। अकायम् - सर्वशरीरकमपि कर्मकृतहेयशरीररहितमित्यर्थः । न तस्य प्राकृता मूर्तिर्मांसमेदोऽस्थिसम्भवा
(वरा.पु.75-41) इति हेयशरीरस्यैवान्यत्र प्रतिषेधदर्शनात्, न तु दिव्यमंगल- विग्रहरहितमित्यर्थः
। यत्ते रूपं कल्याणतमं तत्ते पश्यामि (ई.उ.16) य एषोऽन्तरादित्ये हिरण्मयः पुरुषो
दृश्यते (छां.उ.1-6-6) आदित्यवर्णं तमसः परस्तात् (श्वे.उ.3-8) इत्यादिना उपनिषत्प्रसिद्धस्य
अप्राकृतदिव्यविग्रहस्य इह निषेधायोगात् इति भावः ।
अव्रणम् - कर्मायत्तशरीराभावादेव अक्षतम्, अस्नाविरम् - स्नायुः सिरा यस्मिन् विद्यते
तत् स्नाविरम्, स्नाविरं न भवति इति अस्नाविरम्, शुद्धम् - अनाघ्राताज्ञानादिदोषगन्धम्
अशनायादिषडूर्मिरहितं च, अपापविद्धम् - अज्ञानादेः कार्यभूतैः कारणभूतैश्च पुण्यपापरूपकर्मभिः
अनालीढमित्यर्थः । न शोको न सुकृतं न दुष्कृतम् इत्यारभ्य सर्वे पाप्मानोऽतो निवर्तन्ते
(छां.उ.8-4-1) इति पापशब्देन उपसंहारदर्शनात् स्वर्गादिहेतुभूतपुण्य- विशेषस्यापि इह
पापशब्देन संग्रहणम् इति भावः । एवम् अशेषहेयप्रत्यनीकं परमात्मानं स विद्वान्पर्यगादिति पूर्वेण सम्बन्धः ।
" एवं रूपः परमात्मा प्राप्यः प्रापक 1उपास्यश्च यस्य तं ब्रह्मविदं विशिनष्टि कविः -"
व्यसादिवत्परमपुरुषतत्स्वरूपतद्विभूतितत्कल्याणगुणादिप्रकाशकप्रबन्ध- रूपाणां निर्माता
इत्यर्थः । अथवा कविः - क्रान्तदर्शी, योगाभ्यासविधुरमनसा दुर्दर्शे परिशुद्धजीवात्मस्वरूपे
अतिविशदाविच्छिन्नधारास्मृतिरूपज्ञानयोगनिष्ठ इत्यर्थः । कर्मयोगस्तु कुर्वन्नेवेह कर्माणि
(ई.उ.2) इति श्लोकेन पुरस्तादेवोक्तः । अथ ज्ञानयोगसाध्यं प्रत्यगात्मसाक्षात्कारहेतुभूतं
जीवात्मयोगमाह - मनीषी इति । मनस ईशित्री बुद्धिर्मनीषा, तद्वान् मनीषी, सौन्दर्यसौशील्यादिभगवद््गुणानां
स्मृत्यभ्यासेन अन्यविषयवैराग्येण च निगृहीतान्तःकरण इत्यर्थः । तथा च गीयते-
" असंशयं महाबाहो मनो दुर्निग्रहं चलम् ।"
" अभ्यासेन च कौन्तेय वैराग्येण च गृह्यते ।। (भ.गी.6-35)"
इति । निरतिशयसुखरूपस्वात्मसाक्षात्काराय स्वात्मनि मनः प्रणिधानक्रियारूप- योगाभ्यासपरः
इति भावः । परिभूः - कामक्रोधादीन् दुर्जयान् अरातीन् परिभवतीति परिभूः । अनेन विरोधिनिवृत्तिरूपयोगांगसेवनमुक्तम्
। योगाभ्या- सफलमाह स्वयम्भूः - अन्यनिरपेक्षसत्ताकः, नित्यनिरतिशयसुखरूपतया स्वात्मदर्शीति
यावत् । याथातथ्यतोऽर्थान्व्यदधात् - यथावद्विविच्य अर्थान् - प्रणवार्थान् तस्य वाचक
ः प्रणवः (पा.यो.सू.1-27) तज्जपस्तदर्थभावनम् (पा.यो.सू.28) इति सूत्रोक्तान् व्यदधात्-
हृदयेन धृतवान् इत्यर्थः । अर्थान् - मोक्षतदुपायतद्विरोधिप्रभृतीन््सर्वान्पदार्थान्,
शाश्वतीभ्यस्समाभ्यः - यावद््ब्रह्म- प्राप्तीत्यर्थः । यथातथ्यतः - यथावत्, व्यदधात्

  • विविच्य हृदयेन धृतवान्, सर्वप्रत्यहशमनार्थमिति भावः ।
    " अथवा - शुक्रम् इत्यादि द्वितीयान्तपदजातं परिशुद्धजीवपरम् । तमपि स"
    परमात्मा पर्यगात् परितो व्याप्य स्थित इति प्रथमान्तपदजातं परमात्मपरं योजनीयम् । तथा
    हि कविः - स्वतस्सर्वदर्शी श्रीपांचरात्रादिप्रणेता वा, मनीषी - मनःप्रभृतीनां जीवकरणानां
    नियन्ता,परितो भवतीति परिभूः - सर्वव्यापी, स्वयमेव भवति उद््भवतीति स्वयम्भूः - बहुधा
    विजायते (पु.सू.) इत्यादि प्रसिद्धावतारशालीत्यर्थः । अत्र कविः इत्यादिना कल्याणगुणविधानात्
    छान्दोग्ये एष आत्माऽपहतपाप्मा विजरो विमृत्युर्विशोको विजिघत्सोऽपिपासः (छां.उ.8-1-5)
    इति कल्याणगुणविधानाच्च, निर्गुणम् (आत्मोपनिषत्) निरंजनम् (श्वे.उ.6-19) इत्यादि सामान्यनिषेधस्य हेयगुणनिषेधपरत्वं
    सुगमम् । याथातथ्यत इत्यादि । अर्थान् - कार्यपदार्थान्, शाश्वतीभ्यस्समाभ्यः - यावद्विलयमवस्थातुम्
    याथातथ्यतः - यथावत् व्यदधात् - विविच्य उत्पादितवान्, न पुनरैन्द्रजालिकवत् केवलं प्रकाशितवान् इति भावः ।