०७

सप्तमो मन्त्रः
यस्मिन् सर्वाणि भूतानि आत्मैवाभूद्विजानतः ।
तत्र को मोहः कश्शोकः एकत्वमनुपश्यतः ।।7।।
B.7
ईशावास्यप्रकाशिका
(अपृथक््सिद्धविशेषणतयानुसन्धानफलम्)
" एवं वैयधिकरण्येनोक्तं सर्वस्य ब्रह्मात्मकत्वं"
सामानाधिकरण्येनापि द्रढयन् तथानुध्यानस्य
सद्यश्शोकमोहनिवर्तकत्वम् आह – यस्मिन् सर्वाणि इति ।
" यस्मिन् - प्रणिधानसमये, विजानतः - ईशावास्यम् (ई.उ.1) इत्यारभ्य ततो न विजुगुप्सते"
(ई.उ.6) इत्येवमन्तेन उपदिष्टं स्वतन्त्रपरतन्त्रवस्तुभेदं यथोपदेशं विविच्य जानतः इत्यर्थः
। नन्वेवं अत्यन्तभेदाभ्युपगमे सर्वभूतान्यात्मैवाभूत्् इति सामानाधिकरण्यं भज्येत इत्याशङ्कय
तन्निर्वाहाय यस्य पृथिवी शरीरम् —- (बृ.उ.5-7-7) यस्यात्मा शरीरम् (बृ.उ.मा.पा.3-7-30)
इत्यादि घटकश्रुतिसिद्धं सम्बन्धविशेषमाह – एकत्वमनुपश्यत इति । आकृतिव्यक्त्योरिव
गुणगुणिनोरिव च अत्यन्तभिन्नयोरेव जगद््ब्रह्मणोः एकत्वं विभागानर्हसम्बन्धविशेषं पश्यतः
विशदतममनुध्यायत इत्यर्थः । रामसुग्रीवयोरैक्यं देव्येवं समजायत (रा.सुं.35-52) इत्यादिष्विव
इहापि एकशब्दस्य सम्बन्धविशेष एवार्थो विवक्षितुं युक्त इति भावः। एवं च सत्याह – सर्वाणि
भूतान्यात्मैवाभूत्् इति । परमात्मैव सर्वभूतशरीरकः प्रतीतोऽभूत्् इत्यर्थः । तत्र
तदा प्रणिधानसमये, को मोहः - स्वतन्त्रात्मभ्रमादिलक्षणो मोहो न सम्भवति । कश्शोकः -
परमात्मविभूतितयावगते सर्वस्मिन्निर्ममत्वसिद्ध्या
पुत्रमरणराज्यहरणादेरपि न कश्चिच्छोकस्स्यात् इत्यर्थः ।
यथाह — अनन्तं बत मे वित्तं यस्य मे नास्ति किञ्चन ।
" मिथिलायां प्रदीप्तायां न मे किञ्चित्प्रदह्यते ।। (म.भा.शां.17-223) इति ।"
(सामानाधिकरण्यनिर्वाहवैविध्यम्)
" अत्र केचित् सर्वाणि भूतान्यात्मैवाभूत्् इति बाधार्थं सामानाधिकरण्यम्, तथा च आत्मैव"
सर्वाणि भूतानि , आत्मव्यतिरिक्तानि सर्वाणि न सन्तीत्यर्थः ,यता चोरः स्थाणुः, इति
; स्थाणुरेवायं , न चोरः इति हि तस्यार्थः ; तथा इहापीत्याहुः ।
" अन्ये तु नरपतिरेव सर्वे लोकाः इतिवत् औपचारिकमिदं सामानाधिकरण्यम्, नरपत्त्यधीनास्सर्वे"
जनाः इति हि तत्र निर्वाहः, तद्वदिहापि परमात्माधीनानि सर्वाणि भूतानि इति भावं वर्णयन्ति ।
" अपरे तु घटशरावादयः सर्वे मृत्पिण्ड एव इतिवत् जगद््ब्रह्मणोः एकद्रव्यत्वं परिकल्प्यैव"
इदं सामानाधिकरण्यं निर्वाह्यम् इत्याचक्षते ।
" सिद्धान्तस्तु - देवोऽहम्, मनुष्योऽहम् इत्यादिवत् शरीरात्मभावसम्बन्धेनैव"
जगद््ब्रह्मसामानाधिकरण्यनिर्वाहे सम्भवति सति बाधोपचारस्वरूपैक्यपक्षा,
वैदिकैर्बहिष्कार्याः इति ।।