षष्ठमन्त्रः
यस्तु सर्वाणि भूतान्यात्मन्येवानुपश्यति ।
सर्वभूतेषु चात्मानं ततो न विजुगुप्सते ।।6।।
B.6
ईशावास्यप्रकाशिका
" एवं सर्वस्य ब्रह्मात्मकत्वमुक्तम् ; अथ सर्वं जगत् ब्रह्मात्मकम् इत्यनु 1सन्दधानस्य"
प्रयोजनम् आह - यस्तु सर्वाणि इति ।
" यः - तत्त्वज्ञानी, अधिकारिणो माहात्म्यज्ञापनाय"
तु शब्दः । सर्वाणि भूतानि - ब्रह्मादिस्थावरान्तानि,
आत्मन्येव - परमात्मन्येव, अनुस्यूतं पश्यति - निदिध्यासति इत्यर्थः । पृथिव्यादिभिः
ध्रियमाणमपि तन्मुखेन परमात्मन्येव स्थितम् इत्येव काराभिप्रायाः । किञ्च, सर्वभूतेषु
चात्मानम् -परमात्मानं यः पश्यति ; इदं व्याप्तिमात्रपरम् ; परमपुरुषस्य अनन्याधारत्वात्
इति भावः । यच्छब्दस्य स इति प्रतिनिर्देशोऽध्याहार्यः । सः - उक्ततत्त्वज्ञानी, ततः
- तेषु ; सप्तम्यर्थे तसिः । ब्रह्मात्मकतया दृष्टेषु सर्वेषु भूतेषु इत्यर्थः । न
विजुगुप्सते - कुतश्चिदपि न बीभत्सते स्वात्मविभूतिन्यायात् क्वचिदपि निन्दां न करोतीति भावः ।