पञ्चमो मन्त्रः
तदेजति तदु नैजति तद्दूरे तद्वन्तिके ।
तदन्तरस्य सर्वस्य तदु सर्वस्याऽस्य बाह्यतः ।।5।।
B.5
ईशावास्यप्रकाशिका
" अथ इदानीमाचार्यः स्वोपदिष्टं विचित्रशक्तिमत्वमेव"
आदरार्थं मुखान्तरेण पुनरनुशास्ति - तदेजति इति ।
(तत्त्वनिर्धारणाय पुनः पुनः उपदेशः)
" भूयोभूयः प्रवचनं श्रवणं च कर्तव्यमिति च"
पुनरनुशासनस्याभिप्रायः । तथा च शास्त्रम् —
परीक्ष्य लोकान् कर्मचितान्ब्राह्मणो निर्वेदमायान्नास्त्यकृतः कृतेन ।
तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत्समित्पाणिश्श्रोत्रियं ब्रह्मनिष्ठम् ।।
तस्मै स विद्वानुपसन्नाय सम्यक्प्रशान्तचित्ताय शमान्विताय ।
येनाक्षरं पुरुषं वेद सत्यं प्रोवाच तां तत्त्वतो ब्रह्मविद्याम् ।।(मुं.उ.1-2-13)
इति । तत्त्वतः - अज्ञानसंशयविपर्ययनिरासो यथा भवति तथा, प्रोवाच - प्रकर्षेण ब्रूयात्
- पुनः पुनः उपदिशेत् इत्यर्थः । अत एव तद्विद्धि प्रणिपातेन परिप्रश्नेन सेवया (भ.गी.4-34)
इत्यादि भगवतोपदिष्टस्याप्यर्थस्य वैशद्याय तत्त्वदर्शिसकाशात् प्रणिपातादिपुरस्सरं
पुनः पुनः श्रवणं विहितम् । उपदिष्टा च पुनर 1नुदीतेति आहुराचार्याः ।
" तदेजति तत् - सर्वव्याप्तं परंब्रह्म । एजतीव - कम्पत इव, जवीय एवेति यावत् । तदु -"
तदेव नैजति - वस्तुतस्तु न कम्पते । तद्दूरे च
तदेव अन्तिके च वर्तते । 1असुरदैवप्रकृतिकपुरुषभेदापेक्षया विभोरेव
दूरान्तिकवर्तित्वव्यपदेशः । आह च भगवान् शौनकः —-
" पराङ््मुखानां गोविन्दे विषयासक्तचेतसाम् ।"
" तेषां तत्परमं ब्रह्म दूराद्दूरतरे स्थितम् ।।"
" तन्मयत्वेन गोविन्दे नरा न्यस्तचेतसः ।"
" विषयत्यागिनस्तेषां विज्ञेयं च तदन्तिके ।। (वि.ध.99-13,14) इति ।"
" इदमप्येकं वैचित्र्यमित्याह - तत् -"
सर्वव्याप्तं परं ब्रह्म अस्य सर्वस्य - विविधविचित्ररूपतया
प्रमाणप्रसिद्धस्य सर्वस्य वस्तुनोऽन्तर्भवति,
तदेव पुनस्तदानीमेव सर्वस्य बहिरपि भवतीत्यर्थः
। अन्येषां तु गृहान्तर्वर्तिपुरुषाणां तदानीमेव न बहिष्ठत्वं सम्भवति ; बहिर्वसतां
च न अन्तर्वर्तित्वमितीह वैचित्र्यमिति भावः ।
(अन्तर्बहिश्च परमात्मनो व्याप्तिप्रकारः)
" यद्यप्यणुषु नान्तर्वर्तिता सम्भवति,"
तथाप्यप्रतिघातादविभक्तदेशतया वर्तित्वमात्रेण
अणुषु अन्तर्वर्तित्वोक्तिः । एवं बहिर्व्याप्तिरपि
अविभुद्रव्यापेक्षयैव, न तु विभुद्रव्यापेक्षयापीति
द्रष्टव्यम् । तदिदं वैचित्र्यं तैत्तिरीयकेऽप्युक्तम् अन्तर्बहिश्च तत्सर्वं व्याप्य
नारायणः स्थितः (तै.ना.94) इति ।।