चतुर्थः मन्त्रः
अनेजदेकं मनसो जवीयो नैनद्देवा आप्नुवन् पूर्वमर्षत् ।
तद्धावतोऽन्यानत्येति तिष्ठत्तस्मिन्नपो मातरिश्वा दधाति ।।4।।
B.4
ईशावास्यप्रकाशिका
(भगवतो विचित्रशक्तियोगः)
" एवं तृतीयेन मन्त्रेण विद्यायां शीघ्रप्रवृत्तिसिद्धयर्थम् अविदुषामनर्थ उक्तः, अथ"
आचार्यः सर्वावासत्वेन प्रस्तुतस्य परस्य ब्रह्मणः अनन्तविचित्रशक्तियोगं विरुद्धवदभिलापेन
व्यंजयन् उपदिशति - अनेजदेकम् इति ।
" अनेजत् - एजृ कम्पने (पा.धा.234) अकम्पमानम् ,"
एकम् - प्रधानतमं, 1शास्त्रविदुषां स्वानधीनस्वसमानाधिकद्वितीयरहितमिति
वा, न तत्समश्चाभ्यधिकश्च दृश्यते (श्वे.उ.6-8) इति श्रुतेः । परमसाम्यमापन्ना अपि मुक्ताः
ब्रह्माधीना एवेति भावः । मनसो जवीयः - वेगवतो मनसोऽपि
जवीयः वेगवत्तरम् , प्रकृत्त्यतिक्रान्तमपि
देशं क्षणमात्रात् 2मनस्संकल्पेन गच्छति चेत् ततः पूर्वमेव
तत्र गच्छतीति भावः । निष्कम्पं
वेगवत्तरं चेति विरोधप्रतीतिः, परिहारस्तु - विभुत्वात्
वस्तुतोऽनेजत्, तत एव मनसोऽप्यगोचरदेशे
सर्वदैव वृत्तेः मनसो जवीय इत्युपचर्यत इति ।
" किञ्च - देवाः - ब्रह्मरुद्रादयोऽपि , पूर्वमर्षत्"
-प्रागेव सर्वान् देवान्प्राप्नुवदित्यर्थः
। एनत् - प्रस्तुतं सर्वावास्यं परं ब्रह्म, नाप्नुवन् - एतावन्तं कालं न लेभिरे इति
भावः । पूर्वमेव प्राप्तं न लेभिरे इति विरोधभानं , विभुतया प्राप्तमपि कर्मसङ्कुचितज्ञानाः
क्षेत्रज्ञाः आचार्योपदेशाद्विना स्वबुद्ध्या नाप्नुवन् इति परिहारः । यथोक्तं छान्दोग्ये
- तद्यथा हिरण्यनिधिं निहितमक्षेत्रज्ञाः उपर्युपरि संचरन्तो न विन्देयुः एवमेवेमाः
सर्वाः प्रजाः अहरहर्गच्छन्त्यः एतं ब्रह्मलोकं न विन्दन्त्यनृतेन हि
प्रत्यूढाः (छां.उ.8-3-2) इति । अपि च - तद्धावतोऽन्यानत्येति तिष्ठत् - यः पृथिव्यां
तिष्ठन् (बृ.उ.5-7-7) य आत्मनि तिष्ठन् (बृ.उ.मा.पा.3-7-30) यस्सर्वेषु भूतेषु तिष्ठन्
(बृ.उ.5-7-19) इत्यादिक्रमेण सर्वत्र तिष्ठदेव , तत् - ब्रह्म, धावतोऽन्यान् - गरुडादीनपि
अत्येति । तिष्ठतः पुरषस्य धावदतिक्रमणं न घटते इति विरोधप्रतिभानम्, जविनो यावद्यावद्धावन्ति
तावतस्तावतः परस्तादपि वर्तते इति तात्पर्यात् अविरोधः । यथोच्यते -
" वर्षायुतशतैर्वापि पक्षिराडिव सम्पतन् ।"
" नैवान्तं कारणस्येयाद्यद्यपि स्यान्मनोजवः ।। (अहिर्बु.सं.2-43) इति ।"
" अन्यदपि किंचिदाश्चर्यमित्याह - तस्मिन्नपो"
मातरिश्वा दधाति - तस्मिन् वासुदेवे अवस्थितो
मातरिश्वा । अप इत्युपलक्षणम् । पाथः पयोधरग्रहनक्षत्रतारकादिकं
विभर्तीत्यर्थः । धारणानुगुणकाठिन्यरहितोऽपि
वायुः पाथः प्रभृतिकं विभर्तीत्यद््भुतम् । सर्वाधारभूतेन सर्वेश्वरेण विधृतो वायुः
तच्छक्त्या एवं बिभर्तीत्यभिप्रायः । एष सेतुर्विधरण एषां लोकानामसंभेदाय (बृ.उ.6-4-22)
एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठतः (बृ.उ.5-8-8)
" द्यौस्सचन्द्रार्कनक्षत्रं खं दिशो भूर्महोदधिः ।"
" वासुदेवस्य वीर्येण विधृतानि महात्मनः ।। (म.भा.अनु.156)"
इत्यादिषु प्रसिद्धमेतत् ।।