तृतीयो मन्त्रः
असुर्या नाम ते लोका अन्धेन तमसावृताः ।
ताँस्ते प्रेत्याभिगच्छन्ति ये के चाऽऽत्महनो जनाः ।।3।।
B.3
ईशावास्यप्रकाशिका
" एवं मन्त्रद्वयेन तत्त्वत्रयस्वरूपं विद्यांगकर्मानुष्ठानस्वरूपं च यथावत् उपदिष्टम्"
। इदानीं ये केचन आसुरप्रकृतयः यथोपदेशं तत्त्वत्रयम्
अविदित्वा अन्यथा जानन्ति, कामक्रोधलोभाद्यन्वताः
सन्तः शास्त्रविधिम् उत्सृज्य यज्ञादिकर्म कुर्वन्ति, निषिद्धानि च आचरन्ति, ते सर्वे
स्वात्मघातिनः । तेषां निरयपातः अवश्यम्भावीत्युपदिशति आचार्यः - असुर्याः इति ।
" असुराणां स्वभूता असुर्याः, असुरस्वभावभूता"
वा, आसुरप्रकृतीनामेव अनुभाव्याः , अन्येषां
दैवप्रकृतीनाम् अनुभवितुम् अशक्याः इत्यर्थः । अतिभीषणा इति यावत् । नाम इति प्रसिद्धौ
। अतिभीषणाः नरकसंज्ञिताः ते लोकाः सन्तीति सर्वशास्त्रप्रसिद्धम् इति भावः । पुनस्तान्
विशिनष्टि अन्धेन तमसाऽऽवृता इति । अन्धेन - अतिगाढेन, तमसा - अन्धकारेण आवृताः -
व्याप्ताः तान् - अतिभीषणान् आलोकप्रसंगरहितांश्च लोकान् इति भावः । ये के च - देवजातीयाः
मनुष्यजातीया वा, तत्रापि ब्राह्मणा वा क्षत्रियादयो वा, आत्महनः - असन्नेव स भवति,
असद््ब्रह्मेति वेद चेत् (तै.आ.30) इत्याम्नाताम्
असत्कल्पतां स्वात्मानं नयन्तः, ब्रह्मज्ञानहीनाः
काम्यकर्मादिनिष्ठाः इत्यर्थः । तथा च बृहदारण्यके -
" अनन्दा नाम ते लोका अन्धेन तमसाऽऽवृताः ।"
" तांस्ते प्रेत्याभिगच्छन्ति अविद्वांसोऽबुधो जनाः ।।इति।। (बृ.उ.6-4-11) देहपातमुखेन"
पातकवर्गस्य च उपलक्षणमिदम् । पातकिनश्च ये जनाः -
जनिमन्तः- संसरन्त इत्यर्थः । स्वात्मघातिनस्ते
सर्वे प्रेत्य तदातनदेहादुत्क्रम्य अभिगच्छन्ति -
अभितो गच्छन्ति, सर्वान् पृथिव्यन्तरिक्षस्वर्गरौरवादिसंज्ञितानपि
नारकलोकान्निरन्तरं गच्छन्ति इत्यर्थः ।।