द्वितीयो मन्त्रः
(विदुषो विद्याङ्गतया यावज्जीवं कर्मानुष्ठानम्)
कुर्वन्नेवेह कर्माणि जिजीविषेच्छतगँ समाः।
एवं त्वयि नान्यथेतोऽस्ति न कर्म लिप्यते नरे।।2।।
B.2
ईशावास्यप्रकाशिका
अवतारिका
एवं विरक्तस्य विदुषः फलसङगकर्तृत्वादित्यागयुक्तो ब्रह्मविद्याङगभूतः कर्मयोगो
यावज्जीवम् अनुष्ठेय इत्याह - कुर्वन्नेवेति ।
" शतं समाः- शतसंवत्सरान्, प्रायिकवादोऽयम् । कर्माणि - नित्यनैमित्तिकानि, कुर्वन्नेव,"
इह लोके, जिजीविषेत् - जीवितुमिच्छेत् । ब्रह्मविदोऽपि यावद्विद्यापूर्ति जीवितुमिच्छा
भवतीति प्राप्तत्वात् शतसंख्याकान् वत्सरान् जीवन्नित्यनूद्य कर्माणि
कुर्वीतैवेति वीधस्संक्रामयितव्यः । 1यावद््ज्ञानयोगाधिकारं कर्मयोगः कर्तव्य इति भावः।
(कर्मयोगशब्दार्थः)
कर्मयोगो नाम दैवमेवापरे यज्ञम् (भ.गी.4.-25)
इत्यादिना विकल्पविहितेषु कर्मयोगावान्तरभेदेष्वेकं
यथारुचि अङगितया स्वीकृत्य अन्यानि नित्यनैमित्तिकानि
तदङगतयोपसंहृत्य असङगकर्मानुष्ठानविशेषः।
न कदाचिदपि विद्याङगकर्म परित्यजेत् इति एवकाराभिप्रायः।
त्वयि - ईश्वरपरतन्त्रात्मस्वरूपतया तदाज्ञापरिपालनरूपकर्मानुष्ठाने अधिकारपूर्तिमतीति
भावः । एवम् - एवमेव
“अनुष्ठेयानि कर्माणि इत्यर्थः। उक्तमर्थं व्यतिरेकेण स्थिरीकरोति - नान्यथेतोऽस्ति”
इति । इतः- अनुष्ठानात्, अन्यथा - प्रकारान्तरम्,अ(न)नुष्ठानं नास्ति इत्यर्थः ।
ननु ब्रह्मविदोऽपि कर्मानुष्ठानावश्यंभावे बन्धस्स्यात् इत्यत्राह - न कर्म
लिप्यते नरे - इति । विद्याविरुद्धेषु कर्मफलेषु, न रमत इति - नरः । प्रस्तुते ब्रह्मविदि
नरे विद्याङगतया क्रियमाणः कर्मयोगः, न लिप्यते - न स्वर्गादिहेतुर्भवति, अपि तु ज्ञानयोगद्वारा
वा, साक्षाद्वा, प्रथमं परिशुद्धजीवात्मविषयकयोगमुत्पाद्य, पश्चात् भक्तियोगाङ्गभूतं
प्रत्यगात्मसाक्षात्कारमेव उत्पादयति इति भावः।
(कुर्वन्नेवेति विधेः अविद्वन्मात्रविषयकत्वनिरासः)
यत्तु - कुर्वन्नेवेह कर्माणि इत्ययं विधिः अविद्वद्विषय एव - न ब्रह्मविद्विषय
इति, तस्य विधिनिषेधशास्त्रवश्यत्वाभावात् ब्रह्मज्ञानाग्निना कर्माधिकारः प्रणष्ट इति
शांकरं व्याख्यानम् - तत्प्रकरणविरुद्धम्,
विद्यां चाविद्यां च यस्तद्वेदोभयं सह ।
अविद्याया मृत्युं तीर्त्वा विद्ययाऽमृतमश्नुते ।।(ई.उ.11)
इत्युपरितनविध्यन्तरविरुद्धं च इति, न वेदविदो बहुमन्यन्ते ।।