०१

प्रथमो मन्त्रः
ईशावास्यमिदगँ सर्व यत्किंच जगत्यां जगत् ।
तेन त्यक्तेन भुजीथा मा गृधः कस्यस्विद्धनम् ।।1।।
B.1
ईशावास्यप्रकाशिका
(कूरनारायण भाष्यम्)
(श्रीवत्सनारायणमुनीन्द्रविरचिता)
मंगलम्
विश्मं व्याप्यं धार्यं 1येन, विचित्राश्च शक्तयो यस्य।
श्रीरंगेशं तमृषिं तनुवाक्चितैरुपास्महे पुरुषम् ।
(ईशावास्यसारः)
सर्वेशानस्सर्वभूतान्तरात्मा दोषानईस्सर्वविद्यैकवेद्यः।
कर्माराध्यःसाध्यभक्त्येकलभ्यः श्रीमान्व्यक्तो वाजिनां संहितान्ते।2।
यस्याचार्यैः कृतं भाष्यम् गम्भीरं विदुषां मुदे।
बालामोदाय तद््भावः यथाभाष्यं प्रकाश्यते।।3।।
ईशावास्यानुवाकोऽयं वाजिनां संहितान्तगः।
शिष्याय गुरुणा यस्मिन् ब्रह्मविद्योपदिश्यते।।4।।
कर्मणां संहितोक्तानां विनियोगपृथक्त्वतः।
विद्यांगताऽस्ति तद्व्यक्तयै निबन्धोऽस्य तदन्ततः।।5।।
ईशावास्यमिदं सर्वम् इत्येषोनुऽवाकः, अष्टादशमन्त्रात्मकः। एते च मन्त्राः
पुरुषसूक्तोदित परमपुरुष-तत्स्वरूप-तदुपासन- प्रपदन-तत्प्राप्तिरूप-तात्वोपायपुरुषार्थानां
संग्रहेण सम्यक्प्रतिपादकत्वात् कर्मसु कल्पसूत्रकृता कात्यायनेन
विनियुक्तत्वाच्च उपनिषत्सारभूताः।
भगवद््गीतादिभिश्च एतेषां मन्त्राणां उपबृंहणं तत्र तत्र परस्तात् प्रदर्शयिष्यते ।
(एतदुपनिषदः संहितान्तपाठोपपत्तिः)

  • 1नन्वेवं ब्रह्मकाण्डे बृहदारण्यक एवैषां पाठः स्यात्; न संहितायाम्, प्रयोजनाभावात्
    इति चेन्न, एतेषु सारभूतानां 1पञ्चमन्त्राणां बृहदारण्यकेऽपि पाठदर्शनात्- तमेतं वेदानुवचनेन
    ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसाऽनाशकेन (बृ.उ.6-4-22) विद्यां चाविद्यां च
    यस्तद्वेदोभयँ सह । अविद्यया मृत्युं तीर्त्वा
    विद्ययाऽमृतमश्नुते ।। (ई.उ.11) इति अविद्याख्यस्य
    कर्मविशेषस्य ब्रह्मविद्यायां विनियुक्तत्वेन
    संहितायामुदाहृतं कर्मजातं विद्याया अप्यंङम् इति विशदीकरणार्थम् एषां संहितान्तपाठोपपत्तेश्च
    । अतः कर्मसु विनियुक्तत्वात् पूर्वोक्ततत्त्वोपायप्रयोजनप्रतिपादनपरत्वाच्च उपनिषद
    एवैते मन्त्राः इति सिद्धम्।
    (अवतारिका)
    तत्र तावदाचार्यः प्रथमं रजस्तमः प्रचुरदेहेन्द्रियादिविशिष्टत्वात् ईश्वरोऽहमहं
    भोगी (भ.गी.) इत्यादिश्रीभगवद््गीतोक्तप्रक्रियया स्वतन्त्रोऽहं, देवतान्तर-परतन्त्रोऽहम्
    इति च भ्राम्यतः 2तत्त्वबुभुत्सया च उपसन्नस्य शिष्यस्य स्वतन्त्रात्मभ्रमादिनिवृत्यर्थं
    चिदचिदात्मकस्य कृत्स्नस्य प्रपञ्चस्य परमपुरुषायत्तस्वरूपस्थितिप्रवृत्तित्वं
    उपदिशति- ईशावास्यमिति।
    (ईश्वरपारतन्त्र्यनिरूपणम्)
    इदम् - अचिन्त्यविविधविचित्ररचनया ब्रह्मादिस्तम्बपर्यन्तक्षेत्रज्ञमिश्रतया च
    प्रत्यक्षादिप्रमाणसिद्धमित्यर्थः। सर्वम्- ईश्वरव्यतिरिक्तं भोग्यभोक्तृरूपम् सर्वम्।
    ईशा इति तृतीयैकवचनान्तम्, सर्वनियन्त्रा इत्यर्थः ; संकोचे मानाभावात् । महा
  • पुरुषेणेति यावत्, योऽसावसौ पुरुषः इति अनुवदिष्यमाणत्वात् । स एव हि सर्वस्येष्टे
    । तथा च श्रुत्यन्तरं पतिं विश्वस्यात्मेश्वरम् इति । तेन वास्यम् - निवासनीयम् व्याप्यमिति
    भावः, अनन्याधारत्वात् परस्य ब्रह्मणः। यद्वा सर्वाधारे स्वस्मिन्नेव स्वेन सर्वं वसनीयं,
    प्रतिष्ठापनीयमित्यर्थः । स्मर्यते हि -
    सर्वत्रासौ समस्तं च वसत्यत्रेति वै यतः।
    ततस्स वासुदेवेति विद्वदभिः परिपठ्यते ।। इति।। (वि.पु.1.2)
    जगत्यां- उर्व्याम्, इदं लोकान्तराणामप्युपलक्षणम् । जगत्- अन्यथात्वं गच्छत्। तत्र
    अचिदंशस्य भोग्यत्वाय स्वरूपविकाररूपमन्यथात्वं,
    चिदंशस्य भोक्तृत्वाय ज्ञानसंकोचविकासादिलक्षणस्वभावविकारेण
    अन्यथात्वमिति भेदोऽनुसन्धेयः। ईशेनाव्याप्तं किंचिदपि नास्तीति दर्शयितुं यत्किंचेति
    जगत् विशेष्यते । जगत्यादिषु
    लोकेषु यत्किंच भोक्तृभोग्यरूपं जगद्वर्तते, तदिदं
    सर्वं ईशा वासुदेवेन, वास्य व्याप्यंधार्यं चेत्यर्थः।
    इन्द्रियाणि मनो बुद्धिधस्सात्वं तेजो बलं धृतिः ।
    वासुदेवात्मकान्याहुः क्षेत्रं क्षेत्रज्ञमेव च ।। (वि.स.फलश्रुतिः)
    इत्याद्युपबृह्मणसहस्रमिहानुसन्धेयम् । पृथगात्मानं प्रेरितारं च मत्वा (श्वे.उ.1.6)
    ज्ञाज्ञौ द्वावजावीशनीशौ (श्वे.उ.1.9) छान्दसो ह्रस्वः ईशानीशावित्यर्थः । नित्यो
    नित्यानां चेतनश्चेतनानामेको बहूनां यो विदधाति कामान् (क.उ.5-13) इत्यादिषु प्रसिद्धः
    जीवेश्वरयोः ईशेशितव्यादि-लक्षणयोः अत्यन्तभेदोऽप्यत्रसिद्धः। ननु रूढिर्योगमपहरति
    इति न्यायादीशोऽत्र रुद्रस्स्यात्; मैवं, एको हवै नारायण आसीन्न ब्रह्मा नेशानो नेमे
    द्यावापृथिवी न नक्षत्राणि नाग्निर्न सूर्यो न चन्द्रमाः स एकाकी न रमेत (महो.1.1)
    इत्यादिषु अनपहत- पाप्मावा अहमस्मि नामानि मे धेहि’(शतपथ.) इत्यादिषु च भगवत्कार्यत्वेन
    कर्मवश्यत्वेन च सम्प्रतिपन्ने रुद्रे, सर्वव्यापित्वसर्वाधारत्वादेः अन्वयासम्भवेन
    विरुद्धर्थविषयतयैव इह रूढेः भगत्वात्। एवं च जगत्कारणवादिवाक्यगताकाशप्राणादिशब्दन्यायेन
    अजस्सर्वेश्वरस्सिद्धः (वि.स.11) इत्यनवच्छिन्नैश्वर्यतया प्रसिद्धेसर्वेश्वरे यौगिकएवायम्
    ईट्् शब्दः प्रत्येतव्य इति सिद्धम् ।
    एवं मुमुक्षोः ईश्वरपारतन्त्र्यबोधमुत्पाद्य वैराग्यभूषितां वृत्तिमुपदिशति- तेन
    त्यक्तेन भुञ्जीथाः इति- तेन जगता भोग्यताभ्रमविषयेणेति
    भावः। त्यक्तेन अल्पास्थिरत्व-दुःखमूलत्व-दुःखमिश्रत्व-दुःखोदर्कत्व-देहात्माभिमानमूलत्व
  • स्वाभाविक- ब्रह्मानुभवविरुद्धत्वरूपा ये विषयदोषास्सप्त, तन्निरूपणपूर्वकं परित्यक्तेन
    उपलक्षितस्सन् भुञ्जीथाः- भगवदुपासनोपयुक्तदेहस्य
    धारणमात्रौपयिकमन्नपानादिकं याग- दान-होमार्चनाद्युपयोगिपरिजनपरिच्छदादिकं
    च भोग्यवर्गं भुञ्जीथा इत्यर्थः।
    यद्वा दोषसप्तकनिरूपणात् त्यक्तेन भोग्याभासेनोपलक्षितस्सन् भुञ्जीथाः, सर्वावासत्वेन
    प्रकरणे प्राप्तं उक्तदोषप्रतिभटं निरतिशयभोग्यं वक्ष्यमाणोपायमुखेन
    भुञ्जीथाः इति योज्यम्।
    अत्र च भोक्ता भोग्यं प्रेरितारं च मत्वा (श्वे.उ.1.12) द्वा सुपर्णा सयुजा सखाया
    समानं वृक्षं परिषस्वजाते तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्नन्नन्यो अभिचाकशीति (श्वे.उ.4.6.)
    समाने वृक्षे पुरुषो निमग्नः अनीशया शोचति मुह्यमा। जुष्टं यदा पश्यत्यन्यमीशमस्य महिमानमिति
    वीतशोकः (श्वे.उ.4.7) । महिमानम् इति- प्राप्नोतीत्यर्थः। 1छान्दसोगुणाभावः। तदेति
    प्रतिनिर्देशोऽध्याहार्यः। यदाऽन्य -मीशम् अस्य
    महिमानं च पश्यति, तदा वीतशोको भवति इत्यन्वयो वा।
    मागृधः कस्यस्विद्धनं- कस्यस्वित् कस्यापि बन्धोरबन्धोर्वा धनं मा गृधः-
    माऽभिकांक्षः । गृधु अभिकांक्षायाम् (पा.धा.पा.1247) इति धातुः।
    आह च यमः किंकरं प्रति
    हरति परधनं निहन्ति जन्तून्वदति तथाऽनृतनिष्ठुराणि यश्च।
    न सहति परसम्पदं विनिन्दां कलुषमतिः कुरुते सतामसाधुः।।
    परमसुहृदि बान्धवे कलत्रे सुततनयापितृमातृभृत्यवर्गे।
    शठमतिरुपयाति योऽर्थतृष्णां पुरुषपशुर्न स वासुदेवक्तः (वि.पु.3.7.2-3)
    इति । भगवद््गीतासु च न कांक्षे विजयं कृष्ण (भ.गी.1.32.) इत्यादि । इदंच धनाशाप्रहाणं
    परमात्मव्यतिरिक्तकृत्स्नविषयवैराग्योपलक्षणम् । स्मरन्ति हि-
    परमात्मनि यो रक्तो विरक्तोऽपरमात्मनि (ना.प.उ.3-18) इति।