१८

अष्टादशो मन्त्रः
अग्ने नय सुपथा राये अस्मान् विश्वानि देव वयुनानि विद्वान् ।
युयोध्यस्मज्जुहुराणमेनो भूयिष्ठां ते नम उक्तिं विधेम ।।18।।
B.18
" आ.भा.-एवं प्रकृतिविविक्तप्रत्यगात्मानं परमात्मानं च अनुसन्धाय चरममन्त्रेण"
एनो निवृत्तिपूर्वकभगवत्प्राप्तये
गतिविशेषेण नयनप्रार्थनां शरणागतः विधत्ते- अग्ने नय इति ।
(परमात्मप्राप्तिसाधनार्चिरादिगतिप्रार्थना)
" अग्ने - अग्ने नयतीति अग्निः ; तत्सम्बुद्धिः - अग्रनयनादिगुणगणोपेत- भक्ता"
नाम् ऊर्ध्वगतिप्रापकेत्यर्थः । अस्मान् - त्वच्छरणं प्रपन्नान् इतरगतिविहीनान् सुपथा - शोभनेन पथा
अर्चिरादिमार्गेण नय - प्रापय स्वधाम देशविशेषरूपम् । अर्चिरादिः मार्गः भगवदुपासनावतां
कृते प्रसिद्धः । किमर्थमित्याशंक्यामाह - राये - राः धनं तच्च भगवत्प्रपन्नानां भगवानेव
। तेषां भगवदतिरिक्तधनेषु वैतृष्ण्यात् । तस्मै परमपुरुषरूपधनाय तत्प्राप्त्यर्थमित्यर्थः ।
" ननु तदर्थं मामेव कुतः प्रार्थयसे इत्यत्राह - हे देव -"
द्योतमान मम बुद्धौ प्रकाशमानेत्यर्थः
। त्वं विश्वानि - सर्वाणि वयुनानि - उपायान् विद्वान्-जानन्नसि, सकलपुरुषार्थ यथावद््ज्ञानवत्तया
त्वमेव त्वत्प्रापकमार्गेण नेतुं समर्थोऽसि, अतस्त्वामेव प्रार्थये इति भावः ।
" नन्वहमपि पापात्मानमनेन पथा नैव नयामि इत्यत्राह - युयोध्यस्मज्जुहुराणमेनः । जुहुराणम्-"
कुटिलं त्वत्प्राप्तिप्रतिबन्धकम् एनः-
कर्तव्याकरणाकर्तव्यकरणजन्यपापं फलाभिसन्धिपूर्वकविहितकरणजन्यपुण्यरूपं
च पुण्यस्यापि फलाकांक्षया कर्तृकर्मजन्यस्य भगवत्प्राप्तिप्रतिबन्धकत्वेन पापशब्देन,
मुमुक्षुभिः ग्रहणात् । अस्मत् - मत्तः युयोधि- वियोजय दूरीकुरु इत्यर्थः । सुहृदः साधुकृत्यां
द्विषन्तः पापकृत्याम् (शाट्यायनिकम्) इति श्रुत्यनुसारेण पुरुषान्तरे प्रापय । मदेनः
यथेच्छं विनाशय वा । अस्मत्सकाशात् तु पृथक्कुरु एव इति भावः।
(स्वेष्टसाधनाय प्रपत्तिविधानम्)
" एवमपि किमर्थं करोमि इत्यत्राह - भूयिष्ठां ते नम उक्तिं विधेम । भूयिष्ठाम् - पौनः"
पुन्येन अतिशयेन बह््वी नम उक्तिम् - नमोवाकं नमः पदोच्चारणं ते - तुभ्यं विधेम - कुर्मर्ह,
त्वं हि अस्माकं निरुपाधिकः स्वामी प्राप्तसमस्तकामश्च, अहं तु त्वदेकशरणोऽनन्यगतिश्च,
अतः निरपेक्षाय तुभ्यं नमस्कारातिरिक्तं किमपि दातुमसमर्थः इत्यकिंचनस्य मम नमस्कारामात्रेण
त्वत्प्राप्तिप्रतिबन्धककिल्बिषापहरणं विधत्स्व इत्यर्थः ।
नमस्कारतिरिक्तंकिमपि त्वत्प्रीतिजनकंमत्साध्यं
नास्तीति वारम्वारं तव नमस्कारानेवाचराम इति भावः ।
" अत्र चरममन्त्रद्वयेन सकलफलनिदानभूता शरणागतिः प्रतिपादिता भवति ।।"
" ।। इति श्रीमद््भगवद्रामानन्दाचार्यकृतानन्दभाष्यभूषिता"
" ईशावास्योपनिषत् समाप्ता।।"