१७

सप्तदशो मन्त्रः
वायुरनिलममृतम्- अथेदं भस्मान्तँ शरीरम् ।
ओं क्रतो स्मर कृतँ स्मर-क्रतो स्मर कृतँ स्मर ।।17।।
(क्रतुस्वरूपे भगवति प्रारब्धपापनिवृत्तिपूर्वकरक्षणप्रार्थना)
B.17
" आ.भा.-शरीरस्य भस्मान्तत्वेन मृतत्वम् आत्मनश्च अमृतत्वप्रतिपादनेन प्रकृतिविविक्तं"
जीवात्मानं प्रोक्षणादिना व्रीह्यादीनिव विशोध्य ओंकारबोधिते परमात्मनि समर्प्य तदनुग्रहं
प्रार्थयते- वायुरनिलम् इति ।
(वाय्वनिलामृतशब्दानां जीवपरत्वम्)
" वाति देवमनुष्यादियोनिषु स्वीयविद्यानुगुणेन स्वकर्मानुगुणेन वा परमपुरुष संकल्पेन"
गच्छति इति वायुः तत्र तत्र योनौ गमनशीलः, वा - गतिगन्धनयोः (पा.धा.1050) इति गत्यर्थोऽत्र
वा धातुः । कृमिकीटादिसूक्ष्मदेहेषु अपि गन्तृत्वात् अणुपरिमाणता अत्र जीवात्मनः दर्शिता भवति ।
" अनिलममृतम् इत्यत्र छान्दसं नपुंसकत्वम् । पुल्लिङ्गेन वायुशब्देन उपक्रमे आभ्यामपि"
पुल्लिंगाभ्यामेव भाव्यत्वात्, तथैव व्याख्यातव्यत्वात् । निलीयते इति निलः, तदभिन्नः
अनिलः निलयहीनः, जीवात्मा हि स्वरूपतो धर्मतश्च न लीयते तादृश इत्यर्थः । अविनाशी वा
अरेऽयमात्माऽनुच्छित्तिधर्मा (बृ.उ.6-5-14) इति श्रुत्या जीवस्य तद्धर्मभूतज्ञानस्य
च लयराहित्यबोधनात्, अथवा अनिलः पवनः सततगतिशीलतया क्वचित् व्यवस्थितो न भवति तस्मात्
अनिल इत्युच्यते । तद्वत् जीवोऽपि क्वचिद्देहे व्यवस्थितो न भवति कर्मभोगे सम्पन्ने
ततोऽपक्रामति । अतः अनिलः अनिलसदृश इत्यर्थः ।
" अमृतः - जरामरणादिस्वभावे देहे विशन्नपि स्वयं"
जरामरणादिशून्यः, देहसम्बन्धात् जन्मजरामरणादिकं
जीवेऽपि आरोप्यते इति तु अन्यदेतत् । अयमात्मा अपहतपाप्मा विजरो विमृत्युः (छां.उ.8-7-1)
इत्यादि श्रुतिभिः जीवस्य मरणादिशून्यतावगमात् ।
(अत्रस्थ वाय््वादिशब्दानां परमात्मतात्पर्यकत्वाभावस्थापना)
" ननु - वायुरनिलममृतम् इति शब्दैः परमपुरुष एव प्रतिपाद्यताम्,"
परमात्मपरत्वस्यापि योगादिनां
तेषां सम्भवात् इति तु - न शंकनीयम् । क्षरः प्रधानममृताक्षरं हरः (श्वे.उ.1-10) इति
श्रुतौ द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च (भ.गी.15-16) इति स्मृतौ च क्षरशब्दसमभिव्याहृतेन
अक्षरशब्देन जीवस्यैव ग्रहणवत् इहापि द्वितीयपादस्थशरीरशब्दसमभिव्याहारेण वायुरनिलममृतम्
इति शब्दैः जीवात्मनः एव ग्रहणस्य उचितत्वात् । क्षरात्मानावीशते देव एकः (श्वे.उ.1-10)
उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः (भ.गी.15-17) इत्यादिवत्
अत्र मन्त्रे परमात्मबोधकशब्दान्तराभावाच्च
परमात्मविषयकत्वकल्पनस्य अयोग्यत्वात् ।
" जीवस्य अमृतत्वमभिधाय तच्छरीरस्य मृतत्वविवेकं प्रदर्शयितुं वदति - अथेदं भस्मान्तं"
शरीरम् - अथ शब्दः उक्तात् जीवात् अर्थान्तरं बोधयति । इदं दृश्यमानं प्रेमास्पदतया
प्रतीयमानं भोगसाधनीभूतं रमणीयं शरीरं विशरणस्वभावं
वपुः कर्माधीनं वपुः भस्मांतँ - भस्म अन्तः चरमः परिणामो यस्य तादृशम्, दाहसंस्कारे
सति भस्मरूपं भवति इत्यर्थः । इदं च विडन्तत्त्वस्यापि उपलक्षकम् । भस्मान्ता वा विडन्ता
वा इति श्रुत्यन्तरे विडन्तताया अपि श्रवणात् । व्याघ्रादिना भक्षितस्य जलादौ मकरादिना
भक्षितस्य च शरीरस्य विड््रूपचरमपरिणामदर्शनाच्च । एवम् अमृतत्वमृतत्वप्रतिपादनद्वारा
जीव-तच्छरीरयोः विवेकः प्रदर्शितः । इदं शब्देन च दृश्यमानशरीरस्यैव भस्मान्तत्वकथनात्
अकर्मवश्यस्य भगवच्छरीरस्य व्यावृत्तिः कृता भवति ।
" एवं परिशोधितं प्रत्यगात्मानं श्रुत्यन्तरे धनुष्ट््वेन"
रूपितप्रणवद्वारा परमात्मनि योजयति ओम् इति ।
प्रणवो धनुः शरो ह्यात्मा ब्रह्म तल्लक्ष्यमुच्यते ।
अप्रमात्तेन वेद्धव्यं शरवत्तन्मयो भवेत् ।। (मुं.उ.2-2-4)
इत्यादि श्रुतिषु प्रणवद्वारकात्मसमर्पणस्य दर्शितत्वात् तदेव इहापि प्रतिपादितम् ।
यद्वा पूर्वार्धेन जीवात्मनो
विवेकमुपदर्श्य - ओम् इत्यनेन परमात्मानं विविनक्ति प्रणवस्य परमात्मवाचकत्वात् तस्य
वाचकः प्रणवः (पा.यो.सू.1-27) इति योगसूत्रानुसारात् ।
" एवं चिदचित्परमात्मतत्त्वं विविच्य क्रतुरूपं परमात्मानं स्वस्मिन्ननुग्रहाय प्रार्थयते"

  • क्रतोस्मर सर्वैः क्रतुभिराराध्यतया परमपुरुष एव क्रतुः, अहं क्रतुरहं यज्ञः (भ.गी.9-16)
    इति भगवद्वचनात् । साक्षादपि स क्रतुः ; उपासनवाचकस्य क्रतुशब्दस्य उपास्ये परमपुरुष
    उपचारादपि परमपुरुष एव क्रतुः ; । तत्सम्बुद्धौ क्रतो ! क्रतावाराध्य, ज्योतिष्टोमादिस्वरूप,
    सर्वक्रतुनिकरसमुपास्य इति वा अर्थः । स्मर - त्वामुपासीनं मां स्मरणात्मिकया बुद्ध्या
    विषयीकुरु । कृतम् - त्वत्प्रीतये मयाऽनुष्ठितं कर्मयोगाद्युपासनपर्यन्तं कर्म यत्किंचित्
    तदपि स्मर - मत्कृतकर्मसु आनुकूल्यसंकल्पं कृत्वा यदि न पर्याप्तं त्वत्प्रीतये तदा
    त्वमेव अवशिष्टं पूरय । केचन समर्थाः अन्तकालेऽपि त्वां स्मरन्ति - योगेन स्वहृदये
    त्वां धारयितुं कृताभ्यासाः,
    अहन्तु तत्राऽसमर्थः । अतः त्वमेव मदीयं त्वत्प्रीणनात्मकं कर्मजातं स्मर, इति वा अनुग्रहं
    एतेन प्रार्थयते । द्विरुक्तिः आदरातिशयद्योतनार्था।।