षोडशो मन्त्रः
पूषन्नेकर्षे यम सूर्य प्राजाप्तय व्यूह रश्मीन् समूह तेजः ।
यत्ते रूपं कल्याणतमं तत्ते पश्यामि योऽसावसौ पुरुषस्सोऽहमस्मि ।।16।।
B.16
" आ.भा.-एवं परमात्मदृष्टिप्रतिबन्धकचित्तावरणनिराकरणाय"
प्रार्थना- प्रकारमुपदिश्य परमकृपालुराचार्यः
भगवतः कल्याणतमरूपदर्शन- प्रतिबन्धकतदीयोग्ररश्मिसंहरणाय दर्शनौपयिकं सौम्यरश्मिसंग्रहणाय
च प्रार्थनामुपदिशति -पूषन्नेकर्षे इति
(भगवत्कल्याणरूपसन्दर्शनप्रार्थना)
" हे पूषन् - आश्रितपोषणस्वभाव ! यद्वा सर्वशरीरकत्वेन सर्वैः शब्दैः परमात्मनः वाच्यत्त्वात्"
हे पूषन् एतच्छब्दवाच्येत्यर्थः । एकर्षे - एकः अद्वितीयः ऋषिः अतीन्द्रियार्थद्रष्टा
तत्सम्बुद्धौ एकर्षे सर्वप्रकारेण सर्वस्मिन् काले
सर्ववस्तुसाक्षात्कारसमर्थेत्यर्थः । यम - यमयति अन्तःप्रविश्य सर्वानिति यमः । तत्सम्बुद्धौ
यम ! सर्वान्तर्यामिन् इत्यर्थः । सूर्य - सुष्ठु ईरयति प्रेरयति स्वाश्रितानां बुद्धिं
यः स सूर्यः । तत्सम्बुद्धौ सूर्य ! स्वोपासकजनबुद्धियोगदायिन् इत्यर्थ ः । ददामि बुद्धियोगं
तम् (भ.गी.10-10) इति हि भगवतैव गीतम् । प्राजापत्य - प्रजानां पतिः प्रजापतिः स प्रजापतिः
एव प्राजापत्यः तत्सम्बुद्धौ प्राजापत्य ! स्वार्थे ष्यञ्् । हे विष्णो विश्वस्वामिन्
इत्यर्थः । प्रजापतिश्चचरति गर्भे अन्तः (पु.सू.) इति श्रुत्या भगवतोऽपि प्रजापतित्वावगमात्
। यद्वा प्रजापतिश्चतुर्मुखः तस्यापत्यानि प्राजापत्त्याः तेषामन्तर्यामिन् इत्यर्थः
। रश्मीन् - स्वकीयदिव्यशरीरगतान् उग्रान् किरणान् दर्शनप्रतिबन्धकान् व्यूह - उपसंहर
। तेजः - भवदीयदिव्यदर्शनोपयुक्तं प्रभारूपं तेजः समूह - एकत्रीकुरु ।
" कस्मै प्रयोजनाय उग्ररश्मीनाम् उपसंहरणं सौम्यतेजसः"
पुंजीकरणं च प्रार्थयसे इत्याकांक्षायां
प्रयोजनं वदति, यत्ते ते - तव निरतिशयानन्दरूपस्य ब्रह्मणः
यत्कल्याणतमं - निरतिशयलावण्यादिगुणोपेततया
अतिशयितकल्याणं सर्वातिशायिमंगलावहं रूपं दिव्यं शरीरम् य एषोऽन्तरादित्ये हिरण्मयः
पुरुषो दृश्यते (छां.उ.1-6-6) यदा पश्यः पश्यते रुक्मवर्णम् (मुं.उ.3-1-3) आदित्यवर्णं
तमसः परस्तात् (पु.सू.) इत्यादिषु श्रुतिषु प्रसिद्धम् इत्यर्थः। तत् श्रुतिप्रसिद्धं
ते तव रूपं दिव्यमंगलविग्रहात्मकं पश्यामि - पश्येयम् । छान्दसत्वात् लिङर्थे लट््।
भवदीयदिव्यरूपदर्शनोत्कटेच्छयैव एतत्प्रार्थये इति भावः ।
" ननु पात्रभूतमेव जनं स्वकल्याणतमरूपं दर्शयामि । न सर्वमित्याशंकायां स्वस्य पात्रत्वं"
परमपुरुषम् अन्तर्यामितयाऽनुसन्धाय प्रदर्शयति - योऽसौ पुरुषः सोऽसौ अहमस्मीति ।
योऽसौ पुरुषः - तेनेदं पूर्णं पुरुषेण सर्वम् (तै.ना.85) पुरुष एवेदं सर्वम् (पु.सू)
इत्यादिषु श्रुतिषु प्रसिद्धः सर्वव्यापितया सोऽसौ अहमस्मि -
अस्मत् शब्दस्य अस्मदर्थान्तर्यामिपरत्वेन
श्रुतिप्रसिद्धः पुरुषः मदन्तर्यामीत्यर्थः ।
" अत्र अहंशब्देन परमपुरुषरूपोऽन्तर्यामी अनुसंहितः । तेन स्वातन्त्र्य- भ्रमनिवृत्तिः"
सूचिता, तथा च त्वत्परतन्त्रोऽहम् तव कृपायोग्यतया पात्रभूत एवेति कृपावत्सलेन त्वया
मह्यं स्वदर्शनं दातव्यमिति प्रार्थना फलिता भवति ।
" ननु सोऽसौ अहमस्मि इत्यत्र अहं पदस्य अस्मदर्थान्तर्यामिपरत्वे सशब्दस्यैव विशेष्यत्वात्"
तत्र उत्तमपुरुषप्रयोगः कथं घटते इति न शंकनीयम् । अधिकं प्रविष्टं न तु तद्धानिः इति
न्यायेन अन्तर्यामिरूपस्य अधिकस्यार्थस्य प्रवेशेऽपि अस्मच्छब्दार्थस्य लोकप्रसिद्धस्य
प्रत्यगर्थरूपस्याऽक्षतेः उत्तमपुरुषप्रयोगस्य निराबाधत्वात् । उत्तमपुरुषविधाने अस्मद्युत्तमः
(पा.सू.1-4-107) इति सूत्रस्य प्रत्यगर्थबोधकास्मच्छब्दरूपोपदमात्रापेक्षणात् ।।