पञ्चदशो मन्त्रः
हिरण्मयेन पात्रेण सत्यस्यापिहितं मुखम् ।
तत्त्वं पूषन्नपावृणु सत्यधर्माय दृष्टये ।। 15।।
B.15
" आ.भा.- एवं स्ववर्णाश्रमोचितनित्यनैमित्तिककर्मांगकं"
हिंसास्तेयकाम क्रोधादिरूपोपासनापरिपन्थिपरित्याङ्गागकं
च परमोपासनमेव भक्तिसम्भूतिशब्दवाच्य- मोक्षसाधनम् इत्युपदिश्य तादृशोपासनशीलस्य मनोनैर्मल्याय
भगवदनुग्रहः परमोपकारक इति भगवदनुग्रहप्राप्तये प्रार्थनाम् उपदिशत्याचार्यः (हिरण्मयेनेति) ।
(उपासनाप्रतिबन्धकनिवृत्तिहेतुभगवदनुग्रहप्रार्थना)
" सत्यस्य - परमात्मनः जीवस्य च, सत्यं ज्ञानमनन्तं ब्रह्म (तै.आन.1) इत्यत्र परमात्मनि"
सत्यं चानृतं च (तै.आन.6) इत्यत्र जीवे च सत्यशब्दप्रयोगदर्शनात् उभयोः सत्यशब्देन ग्रहणम्
। मुखम् - द्वारम्, मनः मनसैवानुद्रष्टव्यम् (बृ.उ.6-4-19) इत्यादिश्रुतेः मनस एव परमात्मदर्शने
परिशुद्ध जीवस्वरूपदर्शने च द्वारत्वाऽवगमात् ।
" यद्वा मुखमिव मुखम् मुखसदृशं तच्च मन एव, अनेकेन्द्रियावष्टम्भकत्वेन"
द्वयोः सादृश्यप्रतीतेः । हिरण्मयेन - हिरण्यसदृशेन शब्दादिविषयेण, हिरण्यं हि प्रलोभकं
प्रसिद्धमेव । तथैव विषयोऽपि शब्दादिः प्रलोभकः प्रसिद्धः । अतः तयोः सादृश्यमुचितमेव
। पात्रेण - आच्छादकेन अपिहितम् - आच्छादितम्, शब्दादिः विषयः स्ववासनया जनानां मन आच्छादयति
। आच्छादनं च अत्र आत्मस्वरूपे परमात्मनि वा वृत्तिप्रतिरोधनमेव, विषयवासनाकलुषतया मनसः
परमात्मविषयिणी जीवस्वरुपविषयिणी वा वृत्तिर्न जायते ।
" अतः हे पूषन् - हे आश्रितपोषक ! यद्वा, हे आदित्यान्तर्यामिन् ! पूषन् पदस्य परमात्मनः"
शरीरमात्रोपलक्षणात् हे सर्वान्तरात्मन् इति यावत् । तत् - जीवस्य मुखसदृशं मनः अपावृणु
- उदघाटय; विषयवासनारूपं त्वद््वृत्तिप्रतिबन्धकमावरणं दूरीकृत्य मलसम्पर्करहितं कुरु ।
(सत्यधर्मशब्दस्य अर्थविशेषोक्तिः)
" आवरणापनयने प्रयोजनं दर्शयति दृष्टये - दृष्टिः आत्मा वा अरे द्रष्टव्यः (बृ.उ.6-5-6)"
इत्यत्र प्रोक्ता उपासनारूपा ; त्वत्साक्षात्कारायेत्यर्थः । दृष्टेरपि प्रयोजनं वक्ति
सत्यधर्माय - धर्मः श्रेयस्साधनपरः । सत्यश्चासौ धर्मश्च सत्यधर्मः । स च उपासनया प्रसन्नः
परमात्मैव । तस्मै सत्यधर्माय तं प्राप्तुमित्यर्थः । यमेवैष वृणुते —– तस्यैष आत्मा
विवृणुते तनूं स्वाम् (क.उ.2-23) इति श्रुत्या परमात्मनः प्राप्यस्यापि प्रापकत्वाऽवगमात्
सत्यधर्मत्वं स्पष्टमेव । अथ च जीवस्य सत्यस्य- स्वाभाविको धर्मः अपहतपाप्मत्वादिरुपः
सोऽपि सत्यः । तस्मै तं प्राप्तुमित्यर्थः ; परं ज्योतिरूपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते
(छां.उ.8-3-4) इति श्रुत्यनुसारात् । दृष्टेः उपासनरूपायाः
परमात्मप्राप्तिः स्वस्वरूपाभिनिष्पत्तिश्च
इति द्वयमपि फलमिति भावः ।
" यद्वा सत्यो जीवः, तस्य धर्मः धर्मभूतज्ञानं तदूपैव"
दृष्टिः परमात्मदर्शनम्, तच्च समाधिरूपम्,
तादृशदृष्टिसिद्धयर्थं मनसः आवरणम् अपनय इति भावः ।।