१४

चतुर्दशो मन्त्रः
सम्भूतिं च विनाशं च यस्तद्वेदोभयँ सह ।
विनाशेन मृत्युं तीर्त्वा सम्भूत्याऽमृतमश्नुते ।।14।।
(दम्भादिविनाशांगकसम्भूत्या अमृतत्वप्राप्तिः)
B.14
" आ.भा.-किन्तदन्यत् मोक्षसाधनमित्याकांक्षायामाह-"
(विरोधिवर्जनांगकसमाधेः मोक्षसाधनत्वम्)
" सम्भूतिम्- समाधिरूपां ब्रह्मोपासनाम् विनाशम् -"
विनाशः - निवृत्तिः स च ब्रह्मोपासनाविरोधिहिंसास्तेयादिवर्जनरूपः,
तं (विनाशं) योगविरोधिवर्जनं च यः - उपासकः सह - साहित्येन - अङ्गागिभावेन उभयं वेद

  • जानाति, युगपदेव उभयं कुरुते इत्यर्थः । स उपासकः विनाशेन - समाधिविरोधिवर्जनसेवनेन
    मृत्युमसमाधिरूपोपासनप्रतिवन्धकं पापम् तीर्त्वा - दूरीकृत्य ततो जातया सम्भूत्या -
    समाधिरूपब्रह्मानुभूत्या उपासनापरपर्यायया अमृतम् - ब्रह्मप्राप्तिरूपामनुभूतिम् एतमितः
    प्रेत्याभिसम्भवताऽस्मि (छां.उ.3.14.4) इति श्रुतिप्रतिपादितां सम्भूतिमिति यावत् ।
    अश्नुते - (मोक्षं) प्राप्नोति इत्यर्थः ।
    " हिंसास्तेयादयः कामक्रोधादयश्च समाधेः विरोधिनः ; अतः तदूर्जसहकृतः समाधिः निष्णन्नरूपो"
    भवति । स एवात्र सम्भूतिवाच्यः, तत्सिद्धौ ब्रह्मप्राप्तिरूपा अनुभूतिः मोक्षपदाभिलप्यासिध्यति
    । अतः विरोधिवर्जनलमाध्योः अङ्गागिभावेन सेवनमेव मोक्षसाधनम् इत्याचार्येण विविच्य अत्र दर्शितम् ।।