त्रयोदशो मन्त्रः
अन्यदेवाहुस्सम्भवात् अन्यदाहुरसम्भवात् ।
इति शुश्रुम धीराणां ये नस्तद्वयाचचक्षिरे ।। 13।।
B.13
आ.भा.- यदि समाधिरूपा सम्भूतिः योगविरोधिवर्जनरूपा असम्भूतिश्च न मोक्षसाधनं तर्हि
भवतः आचार्यस्य अभिमतं मोक्षसाधनं किमिति शिष्यजिज्ञासायामाह - सम्भवात् - समाधिरूपसम्भूतेः
अन्यदेव- मोक्षसाधनमाहुः, असम्भवात् - निषिद्धनिवृत्तिवर्जनरूपासम्भूतेश्च अन्यदेव
- भिन्नमेव मोक्षसाधनमाहुः उपनिषदः इति शेषः । इति - केवलसम्भूतिकेवलासम्भूतिभ्यां भिन्नं
मोक्षसाधनमित्येवंरूपं धीराणाम् - धीमताम् आचार्याणां वचनं शुश्रुम - वयं श्रुतवन्तः
। केषां धीराणाम् इत्यत्र आह ये - धीराः पूर्वाचार्याः नः - अस्मभ्यं तत् - मोक्षसाधनं
विचचक्षिरे विविच्य व्याख्यातवन्तः ।