द्वादशो मन्त्रः
अन्ध तमः प्रविशन्ति येऽसम्भूतिमुपासते ।
ततो भूय इव ते तमो य उ सम्भूत्याँ रताः ।। 12।।
(सम्भूत्यसम्भूत्योरेकैकस्यानुष्ठाने दोषः)
B.12
आनन्दभाष्यम्
परमात्मोपासनरूपा विद्या समाधिपर्याया नित्यनैमित्तिककर्माणि परित्यज्य न निष्पादयितुं
शक्या इति प्रतिपाद्य योगांगभूतां हिंसास्तेयादिनिवृत्तिं विनापि सा न सम्भवति इति प्रतिपादयितुं
पूर्वं केवलां निषिद्धनिवृत्तिं केवलां समाधिरूपां विद्यां च निन्दति - अन्धं तमः इति ।
(केवलनिषिद्धनिवृत्तिसमाधिरूपविद्ययोर्निन्दा)
सम्भूतिशब्दस्यब्रह्मप्राप्तिरूपानुभूतिः, समाधिरूपानुभूतिश्चेति अर्थद्वयम् ।
तत्र प्रथमा ब्रह्मलोकमभिसम्भवामि (छां.उ.8-13-1) इत्यादिषु
श्रुतिषु सम्भूतिशब्देन,सम्भूत्याऽमृतमश्नुते
इत्यत्र तु अमृतशब्देन प्रोक्ता । द्वितीया समाधिरूपा विद्याऽपरपर्याया अत्र मन्त्रे
सम्भूतिशब्देनोच्यते । असम्भूतिशब्देन तु हिंसास्तेयादिनिवृत्तिरुच्यते, तेषां समाधिविरोधित्वेन
तद्वर्जनस्य विद्यानिष्पत्तौ अंगत्वात् ।
अतो ये - मोक्षाभिलाषिणः असन्भूतिम् -
योगविरुद्धनिवृत्तिमेव - उपासते - हिंसादिवर्जनरूपविद्यांगमात्राय
यतन्ते, न समाधिरूपविद्यायै, ते अन्धं तमः- अतिगाढमज्ञानं नरकं वा प्रविशन्ति, ये तु
सम्भूत्याम उ - समाधिरूपविद्यायामेव, उ पदस्य एवार्थत्वात् । रताः - केवलसम्भूत्यर्थमेव
यतन्ते, ते तु ततो भूय इव तमः - असम्भूतिमात्रनिष्ठैः प्राप्यात्तमसो
अधिकतरमिव तमः प्रविशन्ति, । अत्रापि एव (शब्दः) तमसः इयत्तायाः दुर्ज्ञानत्वं द्योतयति ।
“योजनान्तरम् "
यद्वा, सम्भूतिशब्दस्य उत्पत्तिरर्थः । सा च विनाशमपि उपलक्षयति,। तथा च आश्रयलक्षणया
उत्पादविनाशशालिकर्म सम्भूतिः न सम्भूतिरसम्भूतिरिति व्युत्पत्त्या सम्भूतिभिन्नाऽसंभूतिः।
अर्थात् उत्पत्तिप्रध्वंसरहितमात्मतत्वम् । ततः ये
मोक्षाभिलाषुकाः असम्भूतिम् उत्पादविनाशविधुरमात्मतत्त्वं
केवलम् उपासते - चिन्तयन्ति ; कर्मभ्य उपासते ते अन्धं तमः प्रविशन्ति इति प्राग््वदर्थः
। कर्मपरित्यागेन ज्ञानमपि अलभमानाः संसारकूपारे निमज्जन्ति इति भावः । ये तु सम्भूत्यामेव
- उत्पादप्रध्वंसिषु कर्मस्वेव, रताः - ज्ञानविधुराणां कर्मणामेव मोक्षसाधनत्वं मन्यमानाः
तदर्थमेव यतन्ते ते ततः - ज्ञानमात्र - चिन्तकप्राप्यतमोऽपेक्षया़ऽधिकतरमिव तमः प्रविशन्ति - विषयवासनालिंगीत- चित्ततया नरकादिकमधिकं प्राप्नुवन्ति इत्यर्थः ।।