११

एकादशो मन्त्रः
विद्यां चाविद्यां च यस्तद्वेदोभयं सह।
अविद्यया मृत्युं तीर्त्वा विद्ययाऽमृतमश्नुते ।। 11 ।।
B.11
" आ.भा.- किं तत् अन्यत् मोक्षसाधनम् इति शिष्याकांक्षां परिजिहीर्षुः आचार्यः विवृणोति"
विद्यां चाविद्यां च इति ।
" यः - यथावद् गुरूपदेशलब्धविद्यः विद्याम् -"
ब्रह्मोपासनात्मिकाम् अविद्यां च - ब्रह्मोपासनाङ्गभूतां
वर्णाश्रमोचितनित्यनैमित्तिककर्मरूपां सह - अङ्गागीभावेन अनुष्टानयोग्यम् उभयम् - ज्ञानकर्मरूपं
तत् - मोक्षसाधनं वेद - जानाति तादृश
*1मोक्षसाधनज्ञाता अविद्यया - विद्याङ्गभूतेन कर्मणा मृत्युम् - विद्याविरोधिपुण्यपापरूपं
प्राचीनं कर्म तीर्त्वा - अतिक्रम्य विद्यया परमात्मोपासनेन अमृतम् - मोक्षम् अश्नुते - लभते ।
" अत्र ब्रह्मोपासनारूपस्य उपायस्य विरोधि मृत्युशब्दितं यत् पुण्यपापरूपं कर्म, ततः"
तरणं तीर्त्वा इत्यनेन प्रतिपाद्यते । उपेयभूतब्रह्मणः
प्राप्तौ विरोधिरूपेभ्यः संचितपुण्यपापात्मकसर्वकर्मभ्यो
मोक्षम् अमृतम् अश्नुते इत्यनेन प्रतिपाद्यते इति विवेकोऽनुसन्धेयः ।
" एवं द्वितीयमन्त्रे कर्मणां परमभक्तिसाधनत्वम्"
उक्तम् । अस्मिन्मन्त्रे तु वर्णाश्रमोचितनित्यनैमित्तिककर्मणां
पापनिकृन्तनद्वारा भक्तिवृद्धिहेतुत्वमुक्तम् इत्यपि
ध्येयम् ।
(कर्मज्ञानयोगयोरंगांभावेन अनुष्ठानं तत्फलं च)