दशमो मन्त्रः
अन्यदेवाहुर्विद्ययाऽन्यदाहुरविद्यया ।
इति शुश्रुम धीराणां ये नस्त1द्विचचक्षिरे ।।10।।
B.10
आनन्दभाष्यम्
" तर्हि मोक्षसाधनं किन्ते अभिमतमिति शिष्यजिज्ञासायाम् आह गुरुः -"
" अन्यदेवाहुः —— इति । विद्यया - इत्यत्र पंचम्यर्थे तृतीया, अतः विद्यया - केवलविद्यातः"
अन्यत् - भिन्नं मोक्षसाधनम् आहुः, अविद्यया - इत्यत्रापि पंचम्यर्थकतृतीयासत्त्वात्
अविद्यायाः ब्रह्मज्ञानरहितकेवलकर्मणोऽपेक्षयापि अन्यदेव- मोक्षसाधनम्, आहुः - उपनिषदः,
इति अध्याहार्यम् । इति केवलकर्मतः केवलज्ञानतश्च भिन्नं मोक्षसाधनम् इत्येवंरूपं धीराणाम्
बुद्धिमतां परमात्मध्यानवताम् आचार्याणाम् ;
वचनम् इत्यध्याहार्यम् शुश्रुम - श्रुतवन्तो वयम् ।
" के ते धीराः ? इत्याकांक्षायाम् आह - ये नस्तद्विचचक्षिरे ये - पूर्वकालीनाः, आचार्याः"
; नः - शरणमुपगतानाम् अस्माकं कृते तत् - मोक्षसाधनं विचचक्षिरे - विविच्य व्याख्यातवन्तः
उपदिदिशुः इत्यर्थः, अतः परम्परासिद्धोऽयमर्थ इति व्यज्यते ।
" अत्र आचार्यवचनश्रवणस्य प्रत्यक्षत्वेऽपि परोक्षार्थे भाविनः लिटो विधानं ब्रह्मविद्यायाः"
दुर्ग्रहत्वेन आचार्यवचनश्रवणेऽपि पूर्वतया अस्मभरपि न अवगतम् इति तात्पर्येण सुप्तोऽहं
किल विललाप इत्यादिवत् न विरुद्धम् इति ध्येयम् ।।