०९

नवमो मन्त्रः
अन्धं तमः प्रविशन्ति येऽविद्यामुपासते ।
ततो भूय इव ते तमो य उ विद्यायाँ रताः ।।9।।
B.9
आनन्दभाष्यम्
" कर्मयोगानुगृहीतेनैव ज्ञानयोगेन निश्श्रेयसप्राप्तिर्भवतीति विवक्षुः केवलकर्मावलम्बिनां"
“केवलज्ञानावलम्बिनां च यः अनर्थो भवति तं प्रदर्शयति । ये - भोगैश्वर्यप्रसक्तमानसाः”
अविद्याम् -विद्याभिन्नां क्रियां विद्यारहितं कर्ममात्रमुपासते तत्फलाकांक्षया अनुतिष्ठन्ति
ते अन्धं तमः - अतिगहनमज्ञानम् आलोकसम्पर्कहीनं नरकादिलोकं वा प्रविशन्ति - प्राप्नुवन्ति
न च स्वर्गादिसाधन- कर्म कुर्वाणस्य विद्यारहितस्यापि कथं नरकप्राप्तिः ? इति - शंकनीयम्
। संसार- चक्रात् तस्य अनिर्मुक्तेः नरकपातस्यापि सम्भावितत्त्वात् ।
" य उ - विद्यायां रताः इत्यत्र उ शब्दः अवधारणार्थः विद्यायाम् इत्यनेन अन्वेति । तथा"
च ये विद्यायामेव रताः - मुमुक्षूणामस्माकं कर्मणा
किं प्रयोजनम् ? इति मन्वानाः स्ववर्णाश्रमोचितं
कर्म त्यक्त्वा विद्यामेव उपासते ते ततः - केवलकर्मावलम्बिप्राप्यतमसोऽपेक्षया भूय
इव तमः - अधिकमज्ञानं प्रविशन्ति- प्राप्नुवन्ति । कियदधिकमज्ञानम् इति अज्ञानेयत्ता
न ज्ञातुं शक्यते इति इव इत्यनेन द्योत्यते । कर्मावधीरणेन ज्ञानमात्रे यतमानाः सर्वथा
अनर्थमुपयान्ति, कर्मणः त्यागात् ज्ञानस्य च असिद्धेः इति भावः ।।