अष्टमो मन्त्रः
स पर्यगाच्छुक्रमकायमव्रणमस्नाविरँ शुद्धमपापविद्धम् ।
कविर्मनीषी परिभूस्स्वयम्भूर्याथातथ्यतोऽर्थान्
व्यदधाच्छाश्वतीभ्यस्समाभ्यः ।।8।।
B.8
आनन्दभाष्यम्
" एवं सर्वशरीरकपरमात्मानं य उपास्ते तस्य अशेषहेयप्रतिभटपरमात्म- स्वरूपानुभवो भवतीति"
वदति - स पर्यगात् इति ।
" सर्वभूतान्तरात्मभूतं ब्रह्म यः पश्यति, सः - तादृशब्रह्मदर्शी पर्यगात् - इत्यनेनान्वयः"
। किं पर्यगात् ? इत्याकांक्षायामाह- शुक्रम् - रलयोरैक्यात् शुक्लम् सर्वदाऽवदातं
स्वप्रकाशस्वरूपमित्यर्थः ; अकायम्- प्राकृतमांसमेदोऽस्थियुक्तशरी रहितम्, प्राकृतशरीरस्य
कर्मजन्यत्वेन परामत्मनि असम्भवात् । एतेन दिव्यमंगल विग्रहवत्त्वं तु तस्य अस्त्येवेति
सूचितम् । अग्रे यत्ते रूपं कल्याणतमं तत्ते पश्यामि (ई.उ.16) इत्यनेन तादृशमंगलविग्रहवत्त्वस्य
स्वकण्ठतः अभिधास्यमानत्वात् । अव्रणम् - व्रणरहितम् कर्मजन्यशरीरे एव व्रणसम्भवात्,
अक्षतं तु सर्वदैव तदीयदिव्यमंगलशरीरमिति भावः । अस्नाविरम् - स्नावाः शिरा (सिरा) यत्र
सन्ति तत्् स्नाविरं प्राकृतं शरीरं तद््भिन्नम् अस्य शरीरं दिव्यमिति ब्रह्म अस्नाविरम्
उच्यते इत्यर्थः । शुद्धम् -अज्ञानादिदोषशून्यम् अशनायापिपापादिषडूर्मिरूपदोषरहितं च
। अपापविद्धम् - पुण्यपापसम्पर्कशून्यम् अज्ञानाद्यभावेन तन्मूलककर्मजन्यपुण्यपापयोः
परमात्मनि अत्यन्तमसम्भवात् । न शोको न सुकृतं न दृष्कृतम् (छां.उ.8-4-1) इत्यादिश्रुत्या
पुण्यस्यापि परमात्मनि निषेधात् तस्यापि बन्धकत्वेन पापशब्देन निर्देशस्य सम्भवात् ।
अतः स्वर्गादिकारणीभूतपुण्यविशेषोऽपि नात्र वर्तते इति भावः । एवम्भूतं परमात्मानं
पर्यगात् प्राप्नुयात् अत्र ब्रह्म समश्नुते (क.उ.6-14)
इति रीत्या स उपासकः ईदृशं ब्रह्म अनुभवति इत्यर्थः ।
" ईदृशं ब्रह्म समाधौ यः अनुभवति सः सर्वान्तरात्मभूतब्रह्मानुभवी कीदृश इत्यपेक्षायामाह"
– कविः - क्रान्तदर्शी क्रान्तपदस्य अतीतवाचकस्यापि वर्तमानभविष्यतोरपि उपलक्षणतया
भूतवर्तमानभविष्यत्सर्ववस्तुद्रष्टा भवति इत्यर्थः ।
यद्वा ब्रह्मस्वरूपदिव्यमंगलगुणादिबोधकग्रन्थनिर्माता
भवति इत्यर्थः । मनीषी - मनीषा बुद्धिः मनसः ईशितृत्वात्
साऽस्यास्तीति मनीषी। भगवत्स्वरूपगुणाद्यनुसन्धानपरिपाकेन
प्रतिष्ठितप्रज्ञाशाली भवतीत्यर्थः । अनेन प्रत्यगात्मसाक्षात्कारनिदानं जीवात्मयोगं
प्रदर्शितवानाचार्यः । परिभूः - परिभवति कामक्रोधादिरूपम् आन्तरं शत्रुवर्गं यः, स परिभूः
विजितान्तररिपुषड््वर्ग इत्यर्थः । एतेन योगविरोधिनिवृत्तिरूपं योगांगमपि अस्य
सम्पद्यते इत्युक्तं भवति । स्वयम्भूः -स्वयं भवति प्रभवति सुखरूपस्वात्मदर्शने न कमपि
अपेक्षते इति स्वयम्भूः - इतराननपेक्ष्य स्वात्मदर्शी । एतेन जीवात्मयोगस्य सुखरूपतया
स्वात्मदर्शनरूपं फलं प्रतिपादितं भवति । अर्थान् -
उपनिषत्प्रतिपादितान् भगवतः स्वरूपगुणसर्वशेषित्वसर्वान्तर्यामित्वादिरूपानर्थान्
याथातथ्यतः - यथा तथा भावः याथातथ्यं तेन रूपेण योऽर्थः यादृशोऽस्ति तमर्थं तेनैव
रूपेण व्यदधात् - विविच्य स्वहृदये धृतवान् । शाश्वतीभ्यः - नित्याभ्यः,
समाभ्यः - वषेभ्यः, चिरकालपर्यन्तमित्यर्थः। सकलकल्याणगणविशिष्टं परमात्मानं साक्षात्कृत्य
चिरकालपर्यन्तं तदनुभवसुखं भुंक्ते स ब्रह्मदर्शिति भावः ।
" यद्वा - पूर्वार्धगतानि शुक्रमित्यादीनि सर्वाणि"
द्वितीयान्तपदानि परिशुद्धे जीवे योजनीयानि,।
उत्तरार्धगतानि कविः इत्यादीनि सर्वाणि प्रथमान्तानि पदानि च परमात्मनि योजनीयानि। तथा
च सर्वान्तरात्मभूतः स परमात्मा शुक्रादिपदजातप्रतिपाद्यजीवं
पर्यगात् । स एव कविरित्यादिपदबोधितः
अर्थान् व्यदधादिति वाक्ययोजना कार्या । द्वितीयान्तपदानामर्थस्तु पूर्ववर्णित एव जीवपक्षेऽपि
। परिशुद्धतादशायां जीवस्यापि स्वयंप्रकाशत्वादिसद््भावात् तादृशं जीवमपि व्याप्य परमात्मा
स्थितः इति पर्यगात् इत्यस्यार्थः । प्रथमान्तपदानां परमात्मपरत्वे तु अर्थभेदोऽस्ति
। स यथा - कविः सर्वद्रष्टा, अथवा पंचरात्रादि- ग्रन्थनिर्माता मनीषी मनसः ईशिता, उपलक्षणमेतत्
सर्वजीवकरणानाम् । तेन जीवानां यानि बाह्यानि आभ्यन्तराणि च करणानि तेषां सर्वेषां प्रेरिता
इत्यर्थः । परिभूः - परितो भवति सर्वत्र वर्तते इति परिभूः - सर्वव्यापकः, स्वयम्भूः
- स्वयमेव भवति इति स्वयम्भूः - स्वेच्छयैव तत्तदवातारधर्ता, न तु कर्मवशात् तादृशशरीरं
धत्ते इत्यर्थः । अर्थान् स्नष्टव्यान् वियदादिपदार्थान् याथातथ्यतः - यथार्थभावेन सत्यरूपानेव
न तु मिथ्याभूतान् शाश्वतीभ्यः समाभ्यः - अगणितेभ्यः वर्षभ्यः प्रलयकालपर्यन्तमवस्थातुं
व्यदधात् विविच्य उत्पादितवान्। न तु मायाविवत् केवलं प्रकाशितवान् इत्यर्थः । एतेन
प्रपंचस्य सत्यत्वं प्रतिपादितं भवति, प्रपंचस्य
मिथ्यात्वं वदतामद्वैतिनां मतं च निरस्तं भवति ।।