सप्तमो मन्त्रः
यस्मिन् सर्वाणि भूतानि आत्मैवाभूद्विजानतः ।
तत्र को मोहः कश्शोकः एकत्वमनुपश्यतः ।।7।।
B.7
आनन्दभाष्यम्
(जीवब्रह्मणोरैक्योपासनस्य फलम्)
" उक्तमेव सर्वस्य ब्रह्मात्मकत्वं सामानाधिकरण्येन ब्रुवाणः तादृशोपासनस्य मोहनिवर्तकत्वपूर्वकं"
सद्यः शोकनिवर्तकत्वरूपं फलं प्रदर्शयति —
" यस्मिन् - सर्वस्य ब्रह्मात्मकत्वानुसन्धानसमये, प्रणिधानकाले इति यावत् । सर्वाणि"
भूतानि आत्मैव - ब्रह्मैव अभूत् - तस्मिन् समये सर्वभूतशरीरकतया ब्रह्मणः प्रतीतत्वात्
। कस्यैवं प्रतीतिः इत्याशंकायामाह - विजानतः - विविच्य जानतः । ब्रह्म स्वतन्त्रम्
अन्यत्सर्वं परतन्त्रम् इति विवेकेन ब्रह्म जानतः इत्यर्थः, तस्यैव ब्रह्मणि शारीरकत्वप्रतीतिरिति भावः ।
" ननु स्वतन्त्रपरतन्त्रवस्तुभेदज्ञाने कथमेवं प्रतीतिः घटते इत्यत्र आह - एकत्वमनुपश्यतः"
। एकत्वम् - जातिव्यक्त्योरिव जगद््ब्रह्मणोः विभागानर्हसम्बन्ध- विशेषं तदेकधार्यत्वादिरूपम्
अनुपश्यतः - विशदतया अनुसन्दधानस्य इत्यर्थः । रामसुग्रीवयोरैक्यं देव्यैवं समजायत (रा.सुं.35-52)
इत्यादौ रामसुग्रीवयोः अत्यन्तभेदेऽपि एकत्वस्य अविभाज्यसम्बन्धरूपस्यैव दर्शनात्,
इहापि तादृशैकत्वस्य ग्रहीतुं योग्यत्वात्, तादृशस्य च सम्बन्धस्य यस्यात्मा शरीरम्
(बृ.उ.3-7-30) यस्य पृथिवीशरीरम् (बृ.उ.5-7-7) इत्यादि श्रुतिसिद्धत्वात् ।
" तत्र - एवम् एकत्वानुसन्धानकाले को मोहः - शरीरादौ आत्मत्वभ्रमलक्षणः आत्मनि स्वतन्त्रत्वभ्रमलक्षणः"
पुत्रादौ ममत्वग्रहलक्षणो वा मोहः - अविवेकः कः - न कोऽपि मोहः तदा भवति इति भावः।
" तथा सर्वमेतत्परमात्मविभूतिरेव इत्येवं रूपेण ज्ञाते सर्ववन्तुनि कः शोकः- स्तुशरीरनाशजन्यः,"
पुत्रादिमरणजन्यः, सर्वस्वापहरणप्रभवो वा शोकः कः ? न कोऽपि भवति इत्यर्थः । अहं मम
इत्यादिभ्रमप्रसक्त्यभावात् तन्मूलकमोहशोकादेः तत्र नावसरो भवति इति भावः ।
(सामानाधिकरण्यविचारः)
" केचित् सर्वाणि भूतान्यात्मैवाभूत् इत्यस्य आत्मव्यतिरिक्तानि सर्वाणि भूतानि न"
भवन्ति एकमेवाऽद्वितीयं ब्रह्म इति ज्ञाने ब्रह्मातिरिक्तस्य सर्वस्य मिथ्यात्वेन बाधितत्वात्
। रज्जौ रज्जुत्वज्ञाने पूर्वं प्रतीतस्य सर्पस्य रज्जुव्यतिरिक्तत्वाभाववत् इत्यर्थं
वर्णयन्ति । तन्न युक्तम् । य आत्मनि तिष्ठन् य आत्मानमन्तरो यमयति, यस्यात्मा शरीरम्
(बृ.उ.मा.पा.5-7-26) यस्य पृथिवी शरीरम् (बृ.उ.मा.पा.5-7-7) इत्यादि श्रुतिसिद्धं जगद््ब्रह्मणोः
शरीरात्मभावसम्बन्धमादाय सामानाधिकरण्यप्रतिपादनसम्भवे बाधायां सामानाधिकरण्यमिति पक्षस्य अनादेयत्वात् ।