०६

षष्ठमन्त्रः
यस्तु सर्वाणि भूतान्यात्मन्येवानुपश्यति ।
सर्वभूतेषु चात्मानं ततो न विजुगुप्सते ।।6।।
B.6
आनन्दभाष्यम्
" पूर्वमन्त्रोक्तं सर्वस्य ब्रह्मात्मकत्वं योऽनुसन्धत्ते स क्वचिदपिनिन्दां न करोतीति"
ऐहिकं फलम् अस्याह - यस्तु इति ।
" यः - उपासकः, सर्वणि भूतानि - आब्रह्मस्तम्बपर्यन्तानि स्वतन्त्रतया प्रतीयमानानि आत्मनि"

  • परमात्मनि एव - एकस्मिन् सूत्रे मणिगणानिव अनुस्यूतानि अनुपश्यति - अनुसन्धत्ते, किञ्च
    तेषु सर्वभूतेषु आत्मानं - परमात्मानं मणिगणेषु सूत्रमिवानुप्रविष्टम् अनुपश्यति । स
    एवंविधानुसन्धानकर्तां । ततः - सप्तम्यर्थे तसेर्विधानात् तेषु आब्रह्मस्तम्बपर्यन्तेषु
    भूतेषु ब्रह्मात्मकतया अवगतेषु ब्रह्मणः शरीरभूतेषु न विजुगुप्सते - न निन्दां कुरुते
    ; स्वात्मविभूतित्वाऽवगमात् इति भावः।