०५

पञ्चमो मन्त्रः
तदेजति तदु नैजति तद्दूरे तद्वन्तिके ।
तदन्तरस्य सर्वस्य तदु सर्वस्याऽस्य बाह्यतः ।।5।।
B.5
आनन्दभाष्यम्
" पूर्वमन्त्रोपदिष्टमेव विचित्रशक्तिमत्त्वं"
व्यापिव्याप्ययोर्वैलक्षण्यं च प्रकारान्तरेण
अज्ञानसंशयविपर्ययनिरासाय पुनरुपदिशति - (तदेजति इति)
(भगवतो विचित्रशक्तिः)
" तत् - प्रकृतं सर्वव्याप्तं ब्रह्म एजति - कम्पते चलतीव, चलनफलस्य देशान्तरप्राप्तेः"
तत्र सत्त्वात् । वस्तुतः तद्् - ब्रह्म नैजति - न चलति विभुनि तस्मिन् क्रियायोगासम्भवात् ।
" तद्् - ब्रह्म दूरे - विप्रकृष्टदेशे वर्तते तदु - तदेव ब्रह्म अन्तिके सन्निकृष्टदेशे"
च वर्तते विभुत्वेन सर्वदेशवर्तित्वस्वभावत्वात् । यद्वा आसुरप्रकृतिकजीवापेक्षया दूरे
तद्् ब्रह्म दैवप्रकृतिकजीवापेक्षया तु अन्तिके एव वर्तते ।
" एवं वैलक्षण्यद्वयं पूर्वार्धेन प्रदर्श्य तृतीयं वैलक्षण्यं परार्धेन दर्शयति । तद््"

  • सर्वव्यापकं ब्रह्म अस्य प्रत्यक्षादिप्रमाणगम्यस्य सर्वस्य - वस्तुनः अन्तः - अभ्यन्तरे
    वर्तते । तदैव च अस्य सर्वस्य बाह्यतः - बहिरपि वर्तते ।
    " अन्तर्बहिश्च तत्सर्वं व्याप्य नारायणः स्थितः (तै.ना.94) इति तैत्तिरीयश्रुतेरपि अयमर्थः"
    सिद्ध्यति । न हि युगपदेव किमपि कस्यचिदन्तर्बहिश्च भवति, ब्रह्म तु तथास्ति सर्वेषामिति
    विस्मयावहमिदं वैलक्षण्यमिति ध्येयम् ।।